श्रवणम्

1.116.21
एक᳚स्या॒ वस्तो᳚रावतं॒ रणा᳚य॒ वश᳚मश्विना स॒नये᳚ स॒हस्रा᳚ ।
निर᳚हतं दु॒च्छुना॒ इन्द्र᳚वन्ता पृथु॒श्रव᳚सो वृषणा॒वरा᳚तीः ॥
▶ पदपाठः (Word-by-word)
एक᳚स्याः । वस्तोः᳚ । आ॒व॒त॒म् । रणा᳚य । वश᳚म् । अ॒श्वि॒ना॒ । स॒नये᳚ । स॒हस्रा᳚ ।
निः । अ॒ह॒त॒म् । दु॒च्छुनाः᳚ । इन्द्र᳚॑वन्ता । पृ॒थु॒॑श्रव᳚सः । वृ॒ष॒णौ॒ । अरा᳚तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वशमेतत्संज्ञमृषिमेकस्या वस्तोरेकस्याह्नो रणाय रमणीयाय सहस्रा सहस्रसंख्याकाय सनये धनलाभायावतम् । अरक्षतम् । स ऋषिः प्रत्यहं यधा सहस्रसंख्यं धनं लभते तथा रक्षितवंतावित्यर्थः , । अपि च हे वृषणौ कामानां वर्षितारावश्विनौ । इंद्रवंता इंद्रेण संयुक्तौ युवां दुच्छाना दुष्टसुखान्दुःखस्य कर्तॄन् पृथुश्रवसो विस्तीर्णयशसोऽरातीः शत्रून्नि रहतम् । निःशेषेणावधिष्टम् । यद्वा । कानीनस्य पृथुश्रवः संज्ञ स्य राज्ञः शत्रूनिति योज्यं ॥ सहस्रा । सुपां सुलुगिति चतुर्थ्या डादेशः । अहतम् । लङि थसस्तम् । अनुदात्तोपदेशेत्यादिनानुसिकलोपः । दुच्छुनाः । शुनिमिति सुखनाम । दुष्टं सुखं यासां तास्तथोक्ताः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वं ॥ २१ ॥