श्रवणम्

1.116.20
परि᳚विष्टं जाहु॒षं वि॒श्वतः᳚ सीं सु॒गेभि॒र्नक्त᳚मूहथू॒ रजो᳚भिः ।
वि॒भि॒न्दुना᳚ नासत्या॒ रथे᳚न॒ वि पर्व᳚ता{4} अजर॒यू अ᳚यातम् ॥
▶ पदपाठः (Word-by-word)
परि᳚॑विष्टम् । जा॒हु॒षम् । वि॒श्वतः᳚ । सी॒म् । सु॒॑गेभिः᳚ । नक्त᳚म् । ऊ॒ह॒थुः॒ । रजः᳚॑भिः ।
वि॒॑भि॒न्दुना᳚ । ना॒स॒त्या॒ । रथे᳚न । वि । पर्व᳚तान् । अ॒ज॒र॒यू इति᳚ । अ॒या॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जाहुषो नाम कश्चिद्राजा । विश्वतः सर्वतः परिविष्टं शत्रुभिः परिवृतं तं राजानं हे नासत्या वश्विनावजरयू जरारहितौ नित्यतरुणौ युवां विभिंदुना विशेषेण सर्वस्य भेदकेनात्मीयेन रथेन नक्तं रात्रौ सुगेभिः सुष्ठु गंतुं शक्यै रजोभी रंजकैर्मार्गैरूहथुः । तस्माच्छत्रुसमूहान्निरगमयतम् । सीमित्येतत्पादपूरणम् । निर्गतेन तेन सह पर्वतान् शत्रुभिरारोढुमशक्यान् शिलो च्चयान्व्ययातम् । विशेषेणागच्छतं ॥ परिविष्टम् । विश प्रवेशने । कर्मणि निष्ठा । गतिरनंतर इति गतेः । प्रकृतिस्वरत्वम् । सुगेभिः सुदुरोरधिकरण इति गमेर्डः । विभिंदुना । भिदिर् विदारणे औणादिक उप्रत्ययो नुमागमश्च । अजरयू न जरा अजरा । तामात्मन इच्छतः सुप आत्मनः क्यच् । न छंदस्यपुत्रस्येतीत्य दीर्घः । योर्निषेधः क्याच्छंदसीत्युप्रत्ययः ॥ २० ॥