श्रवणम्

1.116.14 समानपद
आ॒स्नो वृक᳚स्य॒ वर्ति᳚काम॒भीके᳚ यु॒वं न᳚रा नासत्यामुमुक्तम् ।
उ॒तो क॒विं पु᳚रुभुजा यु॒वं ह॒ कृप᳚माणमकृणुतं वि॒चक्षे᳚ ॥
▶ पदपाठः (Word-by-word)
आ॒स्नः । वृक᳚स्य । वर्ति᳚काम् । अ॒भीके᳚ । यु॒वम् । न॒रा॒ । ना॒स॒त्या॒ । अ॒मु॒मु॒क्त॒म् ।
उ॒तो इति᳚ । क॒विम् । पु॒रु॒॑भु॒जा॒ । यु॒वम् । ह॒ । कृप᳚माणम् । अ॒कृ॒णु॒त॒म् । वि॒॑चक्षे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वर्तिका चटकसदृशस्य पक्षिणः स्त्री । तामरण्ये वर्तमानेन शुना ग्रस्तां पुरा किलाश्विनावमोचयताम् । तदेतदाह । हे नरा नेतारौ नासत्यावश्विनौ युवं युवामभीकेऽभिगते वृकवर्तिकयोः संग्रामे वृकस्य विकर्तकस्य शुन आस्न आस्याद्वर्तिकां चटकसदृशीममुमुक्तम् । अमोचयतम् । यास्कस्त्वाह । पुनः पुनर्वर्तते प्रतिदिवसमावर्तत इति वर्तिकोषाः । तां वृकेणावरकेण सर्वजगत्प्रकाशेनाच्छादयित्रा सूर्येण ग्रस्तां तदीयमुखादश्विनावमुंचतामिति । उतो अपि च पुरुभुजा महाबाहू प्रभूतहस्तौ वा युवं ह युवां खलु कृपमाणं स्तुवंतं कविं एतत्संज्ञमंधमृषिं विचक्षे विशेषेण द्रष्टुम् । समर्थमकृणुतम् । आकुरुतं ॥ आस्नः । पद्दन्नित्यादिनास्यस्यासन्नादेशः । अल्लोपोऽन इत्यकारलोप उदात्तनिवृत्तिस्वरेणोडिदमिति विभक्तेरुदात्तत्वम् । अमुमुक्तम् । मुचेरंतर्भावितण्यर्थाल्लङि बहुलं छंदसीति विकरणस्य श्लुः । कृपिः । स्तुतिकर्मा तुदादिषु द्रष्टव्यः विकरणस्वरे प्राप्ते । वृषादीनां चेत्याद्युदात्तत्वम् । विचक्षे । तुमर्थे सेसेनिति सेन्प्रत्ययः । स्कोः संयोगाद्योरिति सलोपः ॥ १४ ॥