उ॒त पश्य᳚न्नश्नु॒वन्दी॒र्घमायु॒रस्त᳚मि॒वेज्ज᳚रि॒माणं᳚ जगम्याम् ॥
पदपाठः (Word-by-word)
उ॒त । पश्य᳚न् । अ॒श्नु॒वन् । दी॒र्घम् । आयुः᳚ । अस्त᳚म्॑इव । इत् । ज॒रि॒माण᳚म् । ज॒ग॒म्या॒म् ॥
सायणभाष्यम् (Sayana Commentary)
एवमनेन सूक्तेनाश्विनोर्महिमानं प्रशस्याधुना मंत्रद्रष्टा स्वाभीष्टं प्रार्थयते । हे अश्विनौ वां युवयोर्दंसांसि पुरा कृतानि कर्माणि प्रावोचम् । इत्थमुक्तवानस्मि । सोऽहं सुगवः शोभनगोयुक्तः सुवीरः शोभनवीरश्च भूत्वास्य राष्ट्रस्य पतिरधिपतिः स्याम् । भवेयम् । उतापि च पश्यन्नक्षिभ्यां पश्यन् । उपलक्षणमेतत् । सर्वैरिंद्रियैः स्वस्वविषयसमर्थैर्दीर्घं वर्षशतरूपेणायतमायुर्जीवितं चाश्नुवन्न प्राप्नुवन्नहमस्तमिव यथा गृहं स्वामीःनिष्कंटकं प्रविशति एवं जरिमाणं जरां जगम्याम् । कंटकराहित्येन प्राप्नुयाम् । वृद्धः संश्चिरकालं निवसेयमित्यर्थः ॥ स्याम् । अस्तेः प्रार्थनायां लिङ् । यासुट् । श्नसोरल्लोप इत्यकारलोपः । अश्नुवन् । अशू व्याप्तौ । व्यत्ययेन शतृ । जरिमाणम् । जॄष् वयोहानौ । अस्मादौणादिक इमनिच् । जगम्याम् । गमेः प्रार्थनायां लिङि बहुलं छंदसीति विकरणस्य श्लुः ॥ २५ ॥