प्रथमं मण्डलम् - सूक्तम् 101

11 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: इंद्रः छन्दः: जगती

सूक्तम् 1.101 - सम्पूर्णम्

1 / 11
ऋक्: 1.101.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.101.1
प्र म॒न्दिने᳚ पितु॒मद᳚र्चता॒ वचो॒ यः कृ॒ष्णग᳚र्भा नि॒रह᳚न्नृ॒जिश्व᳚ना ।
अ॒व॒स्यवो॒ वृष᳚णं॒ वज्र᳚दक्षिणं म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
प्र । म॒न्दिने᳚ । पि॒तु॒॑मत् । अ॒र्च॒त॒ । वचः᳚ । यः । कृ॒ष्ण॑ग᳚र्भाः । निः॒॑अह᳚न् । ऋ॒जिश्व᳚ना ।
अ॒व॒स्यवः᳚ । वृष᳚णम् । वज्र᳚॑दक्षिणम् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र मंदिन इत्येकादशर्चमष्टमं सूक्तमांगिरसस्य कुत्सस्यार्षम् । अष्टम्याद्याश्चतस्रस्त्रिष्टुभः शिष्टाः सप्त जगत्यः । इंद्रो देवता । तथा चानुक्रांतम् । प्र मंदिन एकादश कुत्सश्चतुस्त्रिष्टुबंतमाद्या गर्भस्राविण्युपनिषत् ॥ दशरात्रस्य नवमेऽहनि मरुत्वतीय एतत्सूक्तम् । विश्वजित इति खंडे सूत्रितम् । प्र मंदिन इमा उ त्वेति मरुत्वतीयम् (आ ८-७) इति ।

हे ऋत्विजो । मंदिने स्तुतिमते स्तोतव्यायेंद्राय पितुमद्धविर्लक्षणेनान्नेनोपेतं वचः स्तुतिलक्षणं वचनं प्रार्चत । प्रकर्षेणोच्चारयत । य इंद्र ऋजिश्वनैतत्संज्ञकेन राज्ञा सख्या सहितः सन् कृष्णगर्भाः । कृष्णो नाम कश्चिदसुरः । तेन निषिक्तगर्भास्तदीया भार्या निरहन् । अवधीत् । कृष्णमसुरं हत्वा पुत्राणामप्यनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्या अप्यवधीदित्यर्थः । अवस्यवो रक्षणेच्छवो वयं व्कृषणं कामानां वर्षितारं वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं मरुत्वंतमिंद्र सख्याय सख्युः कर्मणे हवामहे । आह्वयामहे ॥ मंदिने । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । औणादिक इनिप्रत्ययः । तदुक्तं यास्केन । मंदी मंदतेः स्तुतिकर्मणः (नि ४-२४) इति । पितुमत् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । कृष्ण गर्भाः । कृष्णेन निषिक्ता गर्भा यासु तास्तथोक्ताः । परादिश्छंदसि बहुलमिति पूर्वपदांतोदात्तत्वम् । अवस्यवः । अवेरौणादिको भावेऽसुन् । अव इच्छत्यवस्यति । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । वृषणम् । वा षपूर्वस्य निगम इति विकल्पनादुपधादीर्घाभावः । सख्याय । सख्युः कर्म सख्यम् । सख्युर्य इति यप्रत्ययः । हवामहे । ह्वेञो लट बहुलं छंदसीति संप्रसारणं ॥ १ ॥

1.101.2
यो व्यं᳚सं जाहृषा॒णेन᳚ म॒न्युना॒ यः शम्ब᳚रं॒ यो अह॒न्पिप्रु᳚मव्र॒तम् ।
इन्द्रो॒ यः शुष्ण᳚म॒शुषं॒ न्यावृ᳚णङ्म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यः । वि॑अं᳚सम् । ज॒हृ॒षा॒णेन᳚ । म॒न्युना᳚ । यः । शम्ब᳚रम् । यः । अह᳚न् । पिप्रु᳚म् । अ॒व्र॒तम् ।
इन्द्रः᳚ । यः । शुष्ण᳚म् । अ॒शुष᳚म् । नि । अवृ᳚णक् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रो जहृषाणेन प्रवृद्थेन मन्युना क्रोधेन व्यंसं विगतभुजं वृत्रमहन् । अवधीत् । अपि च य इंद्रः शंबरमेतत्संज्ञमसुरं चावधीत् । तथाव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं पिप्रुमेतत्संज्ञमसुरं च य इंद्रोऽवधीत् । किंच य इंद्रोऽशुषं शोषकरहितं शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं न्यवृणक् । न्यवर्जयत् । समूलं हतवानित्यर्थः । तं मरुत्वॆंतमिंद्रं सख्यायाह्वायामहे ॥ व्यंसम् । विगतोऽंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यण उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरिहत्वम् । जहृषाणेन । हृष तुष्टौ । अत्र वृद्ध्यर्थः । छंदसि लिट् । लिटः कानज्वेति तस्य कानजादेशः । अन्येषामसि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादंतोदात्तत्वम् । अशुषम् । शुष शोषणे । इगुपधलक्षणः कः । शुषाः शोषका न संत्यस्येत्यशुषः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । अवृणक् । वृजी वर्जने । रौधादिरः ॥ २ ॥

1.101.3
यस्य॒ द्यावा᳚पृथि॒वी पौंस्यं᳚ म॒हद्यस्य᳚ व्र॒ते वरु᳚णो॒ यस्य॒ सूर्य᳚ः ।
यस्येन्द्र᳚स्य॒ सिन्ध᳚व॒ः सश्च᳚ति व्र॒तं म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । द्यावा᳚पृथि॒वी इति᳚ । पौंस्य᳚म् । म॒हत् । यस्य᳚ । व्र॒ते । वरु᳚णः । यस्य᳚ । सूर्यः᳚ ।
यस्य᳚ । इन्द्र᳚स्य । सिन्ध᳚वः । सश्च᳚ति । व्र॒तम् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येंद्रस्य महद्विपुलं पौंस्यं बलं द्यावापृथिवी द्यावापृथिव्यावनुवर्तते । यस्य चेंद्रस्य व्रते नियमरूपे कर्मणि वरुणो वर्तते । वरुणोऽपींद्रस्य नियमनं नातिक्रामतीत्यर्थः । अपि च सूर्योऽपि यस्येंद्रस्य व्रते वर्तते । तथा यस्येंद्रस्य व्रतं कर्म सिंधवो नद्यः सश्चति । वचनव्यत्ययः । गच्छंति । सश्चितिर्गच्छतिकर्मा । इंद्रेणानुशिष्टाः प्रवहंतीत्यर्थः । तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ द्वावापृथिवी । द्यौश्च पृथिवी च द्यावापृथिव्यौ । दिवो द्यावेति द्यावादेशः । स चाद्युदात्तो निपातितः । पृथिवीशब्दो ङीष् प्रत्ययांतोऽंतोदात्तः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । वा छंदसीतिपूर्वसवर्णदीर्घः ॥ ३ ॥

1.101.4
यो अश्वा᳚नां॒ यो गवां॒ गोप᳚तिर्व॒शी य आ᳚रि॒तः कर्म᳚णिकर्मणि स्थि॒रः ।
वी॒ळोश्चि॒दिन्द्रो॒ यो असु᳚न्वतो व॒धो म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यः । अश्वा᳚नाम् । यः । गवा᳚म् । गो॑प᳚तिः । व॒शी । यः । आ॒रि॒तः । कर्म᳚णि॑कर्मणि । स्थि॒रः ।
वी॒ळोः । चि॒त् । इन्द्रः᳚ । यः । असु᳚न्वतः । व॒धः । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रोऽश्वानां पतिरधिपतिः । तथा य इंद्रो गोपतिः । न केवलमेकस्या गोः किंतु सर्वासामित्याह गवामिति । सर्वासां गवामधिपतिर्भवति । वशी अपराधीनः । स्वतंत्र इत्यर्थः । आपि च य इंद्रः कर्मणि कर्मणि सर्वेषु कर्मसु स्थिरो नैश्चल्येनावतिष्ठमान आरितः स्तुतिभिः प्रत्यृतः प्राप्तो भवति । आरितः प्रत्यृतः स्तोमानिति निरुक्तम् (नि ५-१५) यश्चेंद्रोऽसुन्वतः सुन्वतां यागानुष्ठातॄणां विरोधिनो वीळोश्चित् विळोश्चित् डृढस्यापि शत्रोर्वधो हंता तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ गवाम् । न गोश्वन्साववर्णेति विभक्तेरुदात्तत्वस्य प्रतिषेधः गोपतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । आरितः । ऋ गतौ । अस्माण्ण्यंतान्निष्ठा । आगमानुशासनस्यानित्यत्वात्पुगागमाभावः । यद्वा । सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतीनाम् । पा ३-१-२२-३ । इति विहितस्य यङो यङोऽचि चेत्यत्र चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिके लुकि प्रत्ययलक्षणेन सन्यङोरिति ऋ इत्येतस्य द्विर्वचन उरदत्वहलादिशेषयोः सतो रुग्रिकौ च लुकीति रुक् । ततो निष्ठायां छांदस इडागमः । ऋकारस्य यणादेशः रो रीत्यभ्यासरेफलोपः । ढ्रलोपे पूर्वस्य दीर्घोऽण इति दीर्घत्वम् । वधः । कृत्यलुटो बहुलमिति बहुलवचनात् हनश्च वध इति कर्तर्यप् वधादेशश्च । स चादंतः । अतो लोप उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वं ॥ ४ ॥

1.101.5
यो विश्व᳚स्य॒ जग᳚तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे᳚ प्रथ॒मो गा अवि᳚न्दत् ।
इन्द्रो॒ यो दस्यू{4}॒रध᳚रा{4} अ॒वाति᳚रन्म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यः । विश्व᳚स्य । जग᳚तः । प्रा॒ण॒तः । पतिः᳚ । यः । ब्र॒ह्मणे᳚ । प्र॒थ॒मः । गाः । अवि᳚न्दत् ।
इन्द्रः᳚ । यः । दस्यू᳚न् । अध᳚रान् । अ॒व॒॑अति᳚रत् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रो विश्वस्य जगतो गच्छतः प्राणतः प्रश्वसतः प्राणिजातस्य पतिः स्वामी यश्च ब्रह्मणे ब्राह्मणजातिभ्योऽंगिरोभ्यः प्रथमोऽन्येभ्यो देवेभ्यः पूर्वभावी सन् पणिभिरपहृता गा अविंदत् । अलभत । अन्येभ्यो देवेभ्यः पूर्वमेव तैरसुरैर्युद्ध्वा गाः स्वयमलभतेत्यर्थः । अपि च य इंद्रो दस्यूनुपक्षपयित ॄनसुरनधरान्निकृष्टान्कृत्वावातिरत् अवधीत् । अवतिरतिर्वधकर्मा । तं मरुत्वंतमिंद्र सख्यायाह्वयामहे ॥ जगतः । गम्लृ सृप्लृ गतौ । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च (उ २-८४) इत्यतिप्रत्ययांतो निपातितो जगच्छब्द आद्युदात्तः । प्राणतः । श्वस प्राणने अन च । अस्माल्लटः शतृ । अदादित्वाच्छपो लुक् । शतुरनुम इति विभक्तेरुदात्तत्वम् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वं ॥ ५ ॥

1.101.6
यः शूरे᳚भि॒र्हव्यो॒ यश्च᳚ भी॒रुभि॒र्यो धाव᳚द्भिर्हू॒यते॒ यश्च᳚ जि॒ग्युभि᳚ः ।
इन्द्रं॒ यं विश्वा॒ भुव᳚ना॒भि सं᳚द॒धुर्म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यः । शूरे᳚भिः । हव्यः᳚ । यः । च॒ । भी॒रु॑भिः᳚ । यः । धाव᳚त्॑भिः । हू॒यते᳚ । यः । च॒ । जि॒ग्युभिः᳚ ।
इन्द्र᳚म् । यम् । विश्वा᳚ । भुव᳚ना । अ॒भि । स॒म्॑द॒धुः । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रः शूरेभिः शौर्योपेतैः पुरुषैर्हव्यो योद्धुमाह्वातव्यः । यश्च भीरुभिर्भयशीलैः कातरैः पुरुषैः सहायार्थमाह्वातव्यः । अपि च य इंद्रो धावद्भिः पराजयेन पलायमानैर्हूयते रक्षार्थमाहूयते । यश्च जिग्युभिः प्राप्तजयैराहूयते । यं चेंद्रं विश्वा भुवना सर्वाणि भूतजातानि स्वेषु स्वेषु कार्येष्वभि संदधुः । आभिमुख्येन स्थापयंति । तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ शूरेभिः । बहुलं छंदसीति भिस ऐसभावः । हव्यः । ह्वयतेरचो यदिति यत् । ह्व इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । गुणे धातोस्तन्नि मित्तस्यृवेत्यवादेशः । भीरुभिः । भियः क्रुक्रुकनौ (उ २-३१) इति क्रुप्रत्ययः । धावद्भिः । सृ गतौ । सर्तेर्वेगितायां शपि पाघ्रेत्यादिना धावादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । जिग्युभिः । जि जये । लिटः क्वसुः । द्विर्वचने सन्लिटोर्जेरित्यभ्यासादुत्तरस्य जकारस्य कुत्वम् । भिस्ययस्मयादित्वेन भत्वाद्वसोः संप्रसारणमिति संप्रसारणम् । छांदसोऽंत्यलोपः ॥ ६ ॥

1.101.7
रु॒द्राणा᳚मेति प्र॒दिशा᳚ विचक्ष॒णो रु॒द्रेभि॒र्योषा᳚ तनुते पृ॒थु ज्रयः᳚ ।
इन्द्रं᳚ मनी॒षा अ॒भ्य᳚र्चति श्रु॒तं म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
रु॒द्राणा᳚म् । ए॒ति॒ । प्र॒॑दिशा᳚ । वि॒॑च॒क्ष॒णः । रु॒द्रेभिः᳚ । योषा᳚ । त॒नु॒ते॒ । पृ॒थु । ज्रयः᳚ ।
इन्द्र᳚म् । म॒नी॒षा । अ॒भि । अ॒र्च॒ति॒ । श्रु॒तम् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विचक्षणः सूर्यात्मना प्रकाशमान इंद्रो रुद्राणां रुद्रपुत्रामध्यात्मं प्राणरूपेण वर्तमानानां मरुताम् । यद्वा । रोदयितृणां प्राणानाम् । प्राणा हि शरीरान्निर्गताः संतो बंधुजनान्रोदयंति । प्रदिशा प्रदेशनेन मनुष्येभ्यः प्रदानेन सहैति । अंतरिक्षे गच्छति । तथा चाम्नायते । योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । तै आ १-१४-१ । इति । अपि च रुद्रेभिरधिभूतं वर्तमानै रुद्रपुत्रैर्मरुद्भिर्योषा माध्यमिका वाक् पृथु विस्तीर्णं ज्रयो वेगं तनुते । विस्तारयति । प्रसंगादत्र मरुतां स्तुतिः । तैर्मरुद्भिः सह वर्तमानं श्रुतं प्रख्यातं सूर्यात्मानमिंद्रं मनीषा स्तुतिलक्षणा वाक् अभ्यर्चति । अभिमुख्येन स्तौति । तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ प्रदिशा । दिश अतिसर्जने । संपदादिलक्षणो भावे क्विप् । ज्रयः । जि ज्रि अभिभवे । ज्रीयतेऽभिभूयतेऽनेनेति ज्रयो वेगः । करणेऽसुन् । मनीषा । ईषाअक्षादित्वात्प्रकृतिभावः ॥ ७ ॥

1.101.8 समानपद
यद्वा᳚ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा᳚व॒मे वृ॒जने᳚ मा॒दया᳚से ।
अत॒ आ या᳚ह्यध्व॒रं नो॒ अच्छा᳚ त्वा॒या ह॒विश्च᳚कृमा सत्यराधः ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒ । म॒रु॒त्वः॒ । प॒र॒मे । स॒ध॑स्थे᳚ । यत् । वा॒ । अ॒व॒मे । वृ॒जने᳚ । मा॒दया᳚से ।
अतः᳚ । आ । या॒हि॒ । अ॒ध्व॒रम् । नः॒ । अच्छ᳚ । त्वा॒॑या । ह॒विः । च॒कृ॒म॒ । स॒त्य॒॑रा॒धः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुत्वो मरुद्भिर्युक्तेंद्र परम उत्कृष्टे सधस्थे सहस्थाने गृहे यद्वा यदि वा मादयासे तृप्तो वर्तसे । यद्वा यदि वावमेऽर्वाचीने वृजने । वृज्यते रिक्तीक्रियतेऽस्मिन्धनमिति वृजनं गृहम् । तस्मिन्मादयासे । अतोऽस्मादुभयविधात्स्थानान्नोऽस्माकमध्वरं यज्ञमच्छाभिमुख्येना याहि । आगच्छ । हे सत्यराधः सत्यधन त्वाया त्वत्कामनया वयं हविश्च कृम । कृतवंतः ॥ मरुत्वः । मतुवसो रुरिति संबुद्धौ नकारस्य रुत्वम् । सधस्थे । सुपि स्थ इति कप्रत्ययः । सध मादस्थयोश्छंदसीति सहस्य सधादेशः । मादयासे । मद तृप्तियोगे । चुरादिरात्मनेपदी । लेट्याडागमः । त्वाया । त्वामात्मन इच्छति । सुप आत्मनः क्यच् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । व्यत्ययेन दकारस्यात्वम् । अ प्रत्ययादित्यकारप्रत्ययः । सुपां सुलुगिति तृतीयाया लुक् ॥ ८ ॥

1.101.9
त्वा॒येन्द्र॒ सोमं᳚ सुषुमा सुदक्ष त्वा॒या ह॒विश्च᳚कृमा ब्रह्मवाहः ।
अधा᳚ नियुत्व॒ः सग᳚णो म॒रुद्भि᳚र॒स्मिन्य॒ज्ञे ब॒र्हिषि᳚ मादयस्व ॥
▶ पदपाठः (Word-by-word)
त्वा॒॑या । इ॒न्द्र॒ । सोम᳚म् । सु॒सु॒म॒ । सु॒॑द॒क्ष॒ । त्वा॒॑या । ह॒विः । च॒कृ॒म॒ । ब्र॒ह्म॒॑वा॒हः॒ ।
अध᳚ । नि॒यु॒त्वः॒ । स॑ग᳚णः । म॒रुत्॑भिः᳚ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि᳚ । मा॒द॒य॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदक्ष शोभनबलेंद्र त्वाया त्वत्कामनया सोमं सुषुम । आभिषुतवंतो वयम् । हे ब्रह्मवाहो ब्रह्मणा मंत्ररूपेण स्तोत्रेणोह्यमान प्राप्यमाणेंद्र त्वाया त्वत्कामनयाहवनीये पुरोडाशलक्षणं हविश्चकृम । कृतवंतः हे नियुत्वः । नियुतोऽश्वाः । तद्विन्निंद्र अधानंतरं मरुद्भिः सप्तगणरूपैरेतत्संज्ञैर्देवैः सगणो गणसहितः सन्नस्मिन्वर्तमाने यज्ञे बर्हिष्यास्तीर्णे दर्भ उपविश्य मादयस्व । तृप्तो भव ॥ सुषुमा । षुञ् अभिषवे । लिट क्रादिनियमप्राप्तस्येटोऽनित्यमागममशासनमिति वचनादभावः ॥ ९ ॥

1.101.10
मा॒दय᳚स्व॒ हरि᳚भि॒र्ये त᳚ इन्द्र॒ वि ष्य᳚स्व॒ शिप्रे॒ वि सृ᳚जस्व॒ धेने᳚ ।
आ त्वा᳚ सुशिप्र॒ हर᳚यो वहन्तू॒शन्ह॒व्यानि॒ प्रति᳚ नो जुषस्व ॥
▶ पदपाठः (Word-by-word)
मा॒दय᳚स्व । हरि᳚॑भिः । ये । ते॒ । इ॒न्द्र॒ । वि । स्य॒स्व॒ । शिप्रे॒ इति᳚ । वि । सृ॒ज॒स्व॒ । धेने॒ इति᳚ ।
आ । त्वा॒ । सु॒॑शि॒प्र॒ । हर᳚यः । व॒ह॒न्तु॒ । उ॒शन् । ह॒व्यानि᳚ । प्रति᳚ । नः॒ । जु॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र हरिभिरश्वैः सह मादयस्वः । तृप्तो भव । ये ते तव स्वभूतातदर्थं शिप्रे हनू संहते वि ष्यस्व । सोमपानार्थं विवृते कुरु । तथा धेने पानसाधनभूते जिह्वोपजिह्विके वि सृजस्व । सोमपानार्थं विश्लिष्टे कुरु । हे सुश्रिप्र । शिप्रे हनू नासिके वा । शोभनशिप्रेंद्र त्वा त्वां हरयोऽश्वा आ वहंतु । अस्मिदीयं यज्ञं प्रापयंतु । त्वं चोशन् अस्मान्कामयमानो नोऽस्माकं हव्यानि हवींषि प्रतिजुषस्व । प्रत्येकं सेवस्व । मोदासिष्ठाः ॥ वि ष्यस्व । षो अंतकर्मणि व्यत्ययेनात्मनेपदम् । दिवादित्वात् श्यन् । ओतः श्यनि (पा ७-३-७१) इत्योकारलोपः । उपसर्गात्सुनोतीति षत्वं ॥ १० ॥

1.101.11
म॒रुत्स्तो᳚त्रस्य वृ॒जन᳚स्य गो॒पा व॒यमिन्द्रे᳚ण सनुयाम॒ वाज᳚म् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
म॒रुत्॑स्तो᳚त्रस्य । वृ॒जन᳚स्य । गो॒पाः । व॒यम् । इन्द्रे᳚ण । स॒नु॒या॒म॒ । वाज᳚म् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुत्त्सोत्रस्य । मरुद्भिः सह स्तोत्रं यस्य स मरुत्स्तोत्रः । तस्य वृजनस्य शत्रूणां क्षेप्तुरिंद्रस्य संबंधिनो गोपा गोपायनीया रक्षणीया वयं तेनेंद्रेण वाजमन्नं सनुयाम । लभेमहि । यदेतदस्माभिः प्रार्थितं नोऽस्मदीयं तन्मित्रादयो द्यावापृथिव्यौ च ममहंताम् । पूजितं कुर्वंतु ॥ वृजनस्य । वृजी वर्जने । क ॄप ॄवृजिमंदिनिधाञ्भ्यः क्युरिति क्युप्रत्ययः ॥ ११ ॥