यस्य॒ द्यावा᳚पृथि॒वी पौंस्यं᳚ म॒हद्यस्य᳚ व्र॒ते वरु᳚णो॒ यस्य॒ सूर्य᳚ः ।
यस्येन्द्र᳚स्य॒ सिन्ध᳚व॒ः सश्च᳚ति व्र॒तं म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
यस्येन्द्र᳚स्य॒ सिन्ध᳚व॒ः सश्च᳚ति व्र॒तं म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
पदपाठः (Word-by-word)
यस्य᳚ । द्यावा᳚पृथि॒वी इति᳚ । पौंस्य᳚म् । म॒हत् । यस्य᳚ । व्र॒ते । वरु᳚णः । यस्य᳚ । सूर्यः᳚ ।
यस्य᳚ । इन्द्र᳚स्य । सिन्ध᳚वः । सश्च᳚ति । व्र॒तम् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
यस्य᳚ । इन्द्र᳚स्य । सिन्ध᳚वः । सश्च᳚ति । व्र॒तम् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
यस्येंद्रस्य महद्विपुलं पौंस्यं बलं द्यावापृथिवी द्यावापृथिव्यावनुवर्तते । यस्य चेंद्रस्य व्रते नियमरूपे कर्मणि वरुणो वर्तते । वरुणोऽपींद्रस्य नियमनं नातिक्रामतीत्यर्थः । अपि च सूर्योऽपि यस्येंद्रस्य व्रते वर्तते । तथा यस्येंद्रस्य व्रतं कर्म सिंधवो नद्यः सश्चति । वचनव्यत्ययः । गच्छंति । सश्चितिर्गच्छतिकर्मा । इंद्रेणानुशिष्टाः प्रवहंतीत्यर्थः । तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ द्वावापृथिवी । द्यौश्च पृथिवी च द्यावापृथिव्यौ । दिवो द्यावेति द्यावादेशः । स चाद्युदात्तो निपातितः । पृथिवीशब्दो ङीष् प्रत्ययांतोऽंतोदात्तः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । वा छंदसीतिपूर्वसवर्णदीर्घः ॥ ३ ॥