प्रथमं मण्डलम् - सूक्तम् 154

6 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: विष्णुः छन्दः: त्रिष्टुप्

सूक्तम् 1.154 - सम्पूर्णम्

1 / 6
ऋक्: 1.154.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.154.1
विष्णो॒र्नु कं᳚ वी॒र्या᳚णि॒ प्र वो᳚चं॒ यः पार्थि᳚वानि विम॒मे रजां᳚सि ।
यो अस्क᳚भाय॒दुत्त᳚रं स॒धस्थं᳚ विचक्रमा॒णस्त्रे॒धोरु᳚गा॒यः ॥
▶ पदपाठः (Word-by-word)
विष्णोः᳚ । नु । क॒म् । वी॒र्या᳚णि । प्र । वो॒च॒म् । यः । पार्थि᳚वानि । वि॒॑म॒मे । रजां᳚सि ।
यः । अस्क᳚भायत् । उत्॑त᳚रम् । स॒ध॑स्थ᳚म् । वि॒॑च॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒॑गा॒यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेनराः विष्णोर्व्यापनशीलस्य देवस्यवीर्याणिवीरकर्माणि नुकंअतिशीघ्रंप्रवोचं प्रब्रवीमि अत्रय- द्यपिनुकमितिपदद्वयं तथापियास्केननवोत्तराणिपदानीत्युक्तत्वात् शाखान्तरीकत्वेनपाठाच्चनुइत्येत- स्मिन्नेवार्थेनुकमितिपदद्वयं कानितानीतितत्राह—योविष्णुः पार्थिवानिपृथिवीसंबन्धीनिरजांसि रं- जनात्मकानि क्षित्यादिलोकत्रयाभिमानीनिअग्निवाय्वादित्यरूपाणि रजांसि वममे विशेषेण निर्ममे अत्रत्रयोलोकाअपि पृथिवीशब्दवाच्याः तथाचमन्त्रान्तरं—यदिंद्राग्नीअवमस्यांपृथिव्यांमध्यमस्यां- परमस्यामुतस्थइति । तैत्तिरीयेऽपि—योस्यांपृथिव्यांअस्यायुषेत्युपक्रम्य योद्वितीयस्यांतृतीयस्यांपृ- थिव्यामिति । तस्माल्लोकत्रयस्यपृथिवीशब्दवाच्य त्वम् किंच यश्च विष्णुरुत्तरं उद्गततरं अतिवि- स्तीर्णंसधस्थं सहस्थानं लोकत्रयाश्रयभूतं अन्तरिक्षं अस्कभायत् तेषामाधारत्वेनस्कंभितवान् निर्मि- तवानित्यर्थः अनेनान्तरिक्षाश्रितंलोकत्रयमपिसृष्टवानित्युक्तंभवति यद्वा योविष्णुः पार्थिवानि पृथि- वीसंबन्धीनिरजांसिपृथिव्याअधस्तनसप्तलोकान् विममे विविधं निर्मितवान् रजः शब्दोलोकवाची लोकारजांस्युच्यन्तइतियास्केनोक्तत्वात् किंच यश्चउत्तरं उद्गततरंउत्तरभाविनं सधस्थं सहस्थानं पु- ण्यकृतां सहनिवासयोग्यं भूरादिलोकसप्तकं अस्कभायत् स्कंभितवान् सृष्टवानित्यर्थः स्कंभेःस्तंभुस्तुं- भ्वितिविहितस्यश्नः छन्दसिशायज्पीतिव्यत्ययेनशायजादेशः अथवापार्थिवानि पृथिवीनिमित्तका- निरजांसि लोकान्विममे भूरादिलोकत्रयमित्यर्थः भूम्यामुपार्जितकर्मभोगार्थत्वादितरलोकानां त- त्कारणत्वं किंच यश्चोत्तरमुत्कृष्टतरं सर्वेषांलोकानामुपरिभूतं अपुनरावृत्तेस्तस्योत्कृष्टत्वं सधस्थं उ- पासकानांसहस्थानं सत्यलोकं अस्कभायत् स्कंभितवान् ध्रुवंस्थापितवानित्यर्थः किंकुर्वन् त्रेधाविच- क्रमाणः त्रिप्रकारं स्वसृष्टान् लोकान् विविधंक्रममाणः विष्णोस्त्रेधाक्रमणं इदंविष्णुर्विचक्रमेइत्यादि- श्रुतिषुप्रसिद्धं अतएवोरुगायः उरुभिर्महद्भिर्गीयमानः अतिप्रभूतं गीयमानोवा यएवंकृतवान् तादृश- स्यविष्णोर्वीर्याणिप्रवोचं ॥ १ ॥ तृतीयसवनेसोमातिरेकएवशस्त्रमुपजनयितव्यं तत्रप्रतदित्ययमनुरूपस्तृचः सोमातिरेकइतिखंडे- सूत्रितम्—प्रतद्विष्णुस्तवतेवीर्येणेतिस्तोत्रियानुरूपाविति वाजपेयेनाधिपत्यकामइतिखण्डेसूत्रितम्- प्रतत्तेअद्यशिपिविष्टनामप्रतद्विष्णुस्तवतेवीर्येणेति ।

1.154.2
प्र तद्विष्णु᳚ः स्तवते वी॒र्ये᳚ण मृ॒गो न भी॒मः कु᳚च॒रो गि᳚रि॒ष्ठाः ।
यस्यो॒रुषु᳚ त्रि॒षु वि॒क्रम᳚णेष्वधिक्षि॒यन्ति॒ भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । तत् । विष्णुः᳚ । स्त॒व॒ते॒ । वी॒र्ये᳚ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒॑स्थाः ।
यस्य᳚ । उ॒रुषु᳚ । त्रि॒षु । वि॒॑क्रम᳚णेषु । अ॒धि॒॑क्षि॒यन्ति᳚ । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येतिवक्ष्यमाणत्वात्सइत्यवगम्यते समहानुभावोविष्णुः वीर्येणस्वकीयेनवीरकर्मणा पूर्वोक्तरू- पेणप्रस्तवते प्रकर्षेणस्तूयतेसर्वैः कर्मणिव्यत्ययेनशप् वीर्येणस्तूयमानत्वेदृष्टान्तः—मृगोन सिंहादिरि- व यथास्वविरोधिनोमृगय्हितासिंहोभीमोभीतिजनकः कुचरः कुत्सितहिंसादिकर्तादुर्गमप्रदेशगंतावा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैःस्तूयते अस्मिन्नर्थे निरुक्तं—मृगोनभीमःकुचरोगिरिष्ठाः मृग- इवभीमः कुचरोगिरिष्ठामृगोमार्ष्टेर्गतिकर्मणोभीमोबिभ्यत्यस्माद्भीष्मोप्येतस्मादेवकुचरइतिचरति- कर्मकुत्सितमथचेद्देवताभिधानंक्वायंनचरतीतिगिरिष्ठागिरिस्थायीगिरिः पर्वतः समुद्गीर्णोभवतिपर्व- वान्पर्वतः पर्वपुनः पृणातेः प्रीणातेर्वेति । तद्वदयमपि मृगः अन्वेष्टाशत्रूणांभीमः भयानकः सर्वेषांभी- त्यपादानभूतः परमेश्वराद्भीतिः भीषास्माद्वातः पवतेइत्यादिश्रुतिषुप्रसिद्धा किंच कुचरः शत्रुवधा- दिकुत्सितकर्मकर्ता कुषुसर्वासुभूमिषु लोकत्रयेषु संचारिवा तथा गिरिष्ठाः गिरिवदुच्छ्रितलोकस्थायी यद्वा गिरि मन्त्रादिरूपायांवाचि सर्वदा वर्तमानः ईदृशोयंस्वमहिम्नास्तूयते किंच यस्यविष्णोरुरुषु- विस्तीर्णेषुत्रित्रिरुंख्याकेषु विक्रमणेषुपादप्रक्षेपेषुविश्वासर्वाणि भुवनानिभूतजातानिआश्रित्यनिवस- न्ति सविष्णुःस्तूयते ॥ २ ॥

1.154.3
प्र विष्ण᳚वे शू॒षमे᳚तु॒ मन्म᳚ गिरि॒क्षित᳚ उरुगा॒याय॒ वृष्णे᳚ ।
य इ॒दं दी॒र्घं प्रय᳚तं स॒धस्थ॒मेको᳚ विम॒मे त्रि॒भिरित्प॒देभि᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । विष्ण᳚वे । शू॒षम् । ए॒तु॒ । मन्म᳚ । गि॒रि॒॑क्षिते᳚ । उ॒रु॒॑गा॒याय᳚ । वृष्णे᳚ ।
यः । इ॒दम् । दी॒र्घम् । प्र॑य᳚तम् । स॒ध॑स्थ᳚म् । एकः᳚ । वि॒॑म॒मे । त्रि॒॑भिः । इत् । प॒दे॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विष्णवे सर्वव्यापकायशूषंअस्मत्कृत्यादिजन्यं महत् बलत्वं मन्ममननंस्तोत्रं मननीयं शूषंबलंवा विष्णुमेतु प्राप्नोतु कर्मणः संप्रदानत्वाच्चतुर्थी कीदृशायगिरिक्षिते वाचि गिरिवदुन्नतप्रदेशेवातिष्ठते उरुगायाय बहुभिर्गीयमानाय वृष्णेवर्षित्रे कामानां एवंमहानुभावं शूषंप्राप्नोतु कोऽस्यविशेषइतिउ- च्यते—योविष्णुरिदंप्रसिद्धंदृश्यमानं दीर्घंतिविस्तृतं प्रयतंनियतं सधस्थं शस्थानंलोकत्रयं एकइत् एकएवाद्वितीयः सन् त्रिभिः पदेभिः पादैर्विममे विशेशेणमितवान् ॥ ३ ॥

1.154.4
यस्य॒ त्री पू॒र्णा मधु᳚ना प॒दान्यक्षी᳚यमाणा स्व॒धया॒ मद᳚न्ति ।
य उ᳚ त्रि॒धातु᳚ पृथि॒वीमु॒त द्यामेको᳚ दा॒धार॒ भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । त्री । पू॒र्णा । मधु᳚ना । प॒दानि᳚ । अक्षी᳚यमाणा । स्व॒धया᳚ । मद᳚न्ति ।
यः । ऊं॒ इति᳚ । त्रि॒॑धातु᳚ । पृ॒थि॒वीम् । उ॒त । द्याम् । एकः᳚ । दा॒धार᳚ । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यविष्णोः मधुना मधुरेण दिव्येनामृतेनपूर्णा पूर्णानि त्री त्रीणिपदानि पादप्रक्षेपणानि अक्षीय- माणा अक्षीयमाणानि स्वधया अन्नेन मदन्ति मादयन्ति तदाश्रितजनान् यउ यएव पृथिवीं प्रख्यातां भूमिं द्यामुत द्योतनात्मकमन्तरिक्षंच विश्वाभुवनानि सर्वाणि भूतजातानि चतुर्दशलोकांश्च यद्वा पृ- थिवीशब्देन अधोवर्तीनिअतलवितलादिसप्तभुवनन्युपात्तानि द्युशब्देन तदवान्तररूपाणि भुवआदि- सप्तभुवनानि एवंचतुर्दशलोकान् विश्वाभुवनानि सर्वाण्यपितत्रत्यानि भूतजातानि त्रिधातु त्रयाणां- धातूनां समाहारः त्रिधातु पृथिव्यप्तेजोरूपधातुत्रयविशिष्टंयथा भवतितथादाधार धृतवान् तुजादि- त्वादभ्यासस्यदीर्घत्वं उत्पादितवानित्यर्थः छन्दोगारण्यकेतत्तेजोसृजत तदपोसृजत ताआपऎक्षन्त ताअन्नमसृजन्तेतिभूतत्रयसृष्टिमुक्त्वा हंताहमिमास्तिस्रोदेवतास्तासांत्रिवृतंत्रिवृतमेकैकांकरवाणी- त्यादिना त्रिवृत्करणसृष्टिरुपपादिता यद्वा त्रिधातु कालत्रयंगुणत्रयंवा दाधारेत्यन्वयः ॥ ४ ॥ आतिथ्यायांत्दस्येत्येषाप्रधानस्ययाज्या अथातिथ्येतिखण्डेतिखण्डेसूत्रितम्—इदंविष्णुर्विचक्रमे- तदस्यप्रियमभिपाथोअश्यामिति ।

1.154.5 समानपद
तद᳚स्य प्रि॒यम॒भि पाथो᳚ अश्यां॒ नरो॒ यत्र᳚ देव॒यवो॒ मद᳚न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु᳚रि॒त्था विष्णो᳚ः प॒दे प᳚र॒मे मध्व॒ उत्स᳚ः ॥
▶ पदपाठः (Word-by-word)
तत् । अ॒स्य॒ । प्रि॒यम् । अ॒भि । पाथः᳚ । अ॒श्या॒म् । नरः᳚ । यत्र᳚ । दे॒व॒॑यवः᳚ । मद᳚न्ति ।
उ॒रु॒॑क्र॒मस्य᳚ । सः । हि । बन्धुः᳚ । इ॒त्था । विष्णोः᳚ । प॒दे । प॒र॒मे । मध्वः᳚ । उत्सः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यमहतोविष्णोः प्रियंप्रियभूतंतत्सर्वैः सेव्यत्वेनप्रसिद्धंपाथः अन्तरिक्षनामैतत् पाथोन्तरिक्षंप- थाव्याख्यातं इतियास्केनोक्तत्वात् । अन्तरिक्षलोकाख्यंस्थानं अविनश्वरं ब्रह्मलोकमित्यर्थः अभिअ- श्यां व्याप्नुयां तदेवविशेष्यते यत्रस्थानेदेवयवः देवंद्योतनस्व भावंविष्णुं आत्मनइच्छन्तःयज्ञदानादि- भिः प्राप्तुमिच्छन्तोनरः मदन्ति तृप्तिमनुभवन्ति तदश्यामित्यन्वयः पुनरपितदेवविशेष्यते उरुक्रम- स्यअत्यधिकंसर्वंजगदाक्रममाणस्यतत्तदात्मनाअतएव विष्णोर्व्यापकस्यपरमेश्वरस्यपरमेउत्कृष्टे निर- तिशयेकेवलसुखात्मकेपदेस्थानेमध्वः मधुरस्यउत्सः निष्पन्दोवर्तते तदश्यांयत्रक्षुत्तृष्णाजरामरणपुन- रावृत्त्यादिभयंनास्ति संकल्पमात्रेणामृतकुल्यादिभोगाः प्राप्यन्तेतादृशमित्यर्थः ततोधिकंनास्तीत्याह इत्थाइत्थंउक्तप्रकारेणसहिबन्धुः सखलुसर्वेषांसुकृतिनांबन्धुभूतः हितकरोवातस्यपदंप्राप्तवतः नपुन- रावृत्तिः नसपुनरावर्ततइति श्रुतेस्तस्यबन्धुत्वं हिशब्दः सर्वश्रुतिस्मृतिपुराणादिप्रसिद्धिद्योतनार्थः ॥ ५ ॥

1.154.6
ता वां॒ वास्तू᳚न्युश्मसि॒ गम᳚ध्यै॒ यत्र॒ गावो॒ भूरि᳚शृङ्गा अ॒यासः᳚ ।
अत्राह॒ तदु᳚रुगा॒यस्य॒ वृष्ण᳚ः पर॒मं प॒दमव᳚ भाति॒ भूरि᳚ ॥
▶ पदपाठः (Word-by-word)
ता । वा॒म् । वास्तू᳚नि । उ॒श्म॒सि॒ । गम᳚ध्यै । यत्र᳚ । गावः᳚ । भूरि᳚॑शृङ्गाः । अ॒यासः᳚ ।
अत्र᳚ । अह᳚ । तत् । उ॒रु॒॑गा॒यस्य᳚ । वृष्णः᳚ । प॒र॒मम् । प॒दम् । अव᳚ । भा॒ति॒ । भूरि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपत्नीयजमानौ वां युष्मदर्थंतातानि गंतव्यत्वेनप्रसिद्धानि वास्तूनिसुखनिवासयोग्यानि स्थाना- निगमध्यै युवयोर्गमनायउश्मसिकामयामहे तदर्थंविष्णुंप्रार्थयामइत्यर्थः तानीत्युक्तंकानीत्याह-यत्र- येषुवास्तुषुगावोरश्मयोभूरिशृंगाः अत्यंतोन्नत्युपेताः बहुभिराश्रयणीयावा अयासः अयनागन्तारः अतिविस्तृताः यद्वा अयासः गन्तारः अतादृशाः अत्यन्तप्रकाशयुक्ताइत्यर्थः अत्राहअत्रखलु वास्त्वा- धारभूतेद्युलोकेउरुगायस्य बहुभिर्महात्मभिर्गातव्यस्यस्स्तुत्यस्यवृष्णः कामानांवर्षितुः विष्णोः तत् तादृशंसर्वत्रपुराणादिषुगंतव्यत्वेनप्रसिद्धंपरमंनिरतिशयंपदं स्थानंभूरिअतिप्रभूतं अवभातिस्वमहि- म्नास्फुरति अयंमन्त्रोयास्केनगोशब्दोरश्मिवाचकइतिव्याचक्षणेनव्याख्यातः—तानिवांवास्तूनिकाम- यामहेगमनाययत्रगावोभूरिश्रृंगाबहुश्रृंगाभूरीतिबहुनोनामधेयंप्रभवतीतिसतः श्रृंगंश्रयतेर्वाश्रृणातेर्वा- शम्रातेर्वाशरणायोद्गतमितिवाशिरसोनिर्गतमितिवा यासोऽयनास्तत्रतदुरुगायस्यविष्णोर्महागतेः परमंपदंपरार्ध्यस्थमवभातिभूरिपादःपद्यतेरिति ॥ ६ ॥

प्रवः पान्तमितिषळृचंषोडशंसूक्तम् दैर्घतमसंजागतं पूर्वत्रवैष्णवंहीत्युक्तत्वाद्वैष्णवं आद्यस्तृचः इन्द्रदेवताकश्च प्रवोजागतंत्वैन्द्रश्चाद्यस्तृचइत्यनुक्रमणिका आभिप्ल्विकेषूक्थ्येषुस्तोमातिशंसने उक्तोविनियोगः ।