अत्राह॒ तदु᳚रुगा॒यस्य॒ वृष्ण᳚ः पर॒मं प॒दमव᳚ भाति॒ भूरि᳚ ॥
पदपाठः (Word-by-word)
अत्र᳚ । अह᳚ । तत् । उ॒रु॒॑गा॒यस्य᳚ । वृष्णः᳚ । प॒र॒मम् । प॒दम् । अव᳚ । भा॒ति॒ । भूरि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेपत्नीयजमानौ वां युष्मदर्थंतातानि गंतव्यत्वेनप्रसिद्धानि वास्तूनिसुखनिवासयोग्यानि स्थाना- निगमध्यै युवयोर्गमनायउश्मसिकामयामहे तदर्थंविष्णुंप्रार्थयामइत्यर्थः तानीत्युक्तंकानीत्याह-यत्र- येषुवास्तुषुगावोरश्मयोभूरिशृंगाः अत्यंतोन्नत्युपेताः बहुभिराश्रयणीयावा अयासः अयनागन्तारः अतिविस्तृताः यद्वा अयासः गन्तारः अतादृशाः अत्यन्तप्रकाशयुक्ताइत्यर्थः अत्राहअत्रखलु वास्त्वा- धारभूतेद्युलोकेउरुगायस्य बहुभिर्महात्मभिर्गातव्यस्यस्स्तुत्यस्यवृष्णः कामानांवर्षितुः विष्णोः तत् तादृशंसर्वत्रपुराणादिषुगंतव्यत्वेनप्रसिद्धंपरमंनिरतिशयंपदं स्थानंभूरिअतिप्रभूतं अवभातिस्वमहि- म्नास्फुरति अयंमन्त्रोयास्केनगोशब्दोरश्मिवाचकइतिव्याचक्षणेनव्याख्यातः—तानिवांवास्तूनिकाम- यामहेगमनाययत्रगावोभूरिश्रृंगाबहुश्रृंगाभूरीतिबहुनोनामधेयंप्रभवतीतिसतः श्रृंगंश्रयतेर्वाश्रृणातेर्वा- शम्रातेर्वाशरणायोद्गतमितिवाशिरसोनिर्गतमितिवा यासोऽयनास्तत्रतदुरुगायस्यविष्णोर्महागतेः परमंपदंपरार्ध्यस्थमवभातिभूरिपादःपद्यतेरिति ॥ ६ ॥
प्रवः पान्तमितिषळृचंषोडशंसूक्तम् दैर्घतमसंजागतं पूर्वत्रवैष्णवंहीत्युक्तत्वाद्वैष्णवं आद्यस्तृचः इन्द्रदेवताकश्च प्रवोजागतंत्वैन्द्रश्चाद्यस्तृचइत्यनुक्रमणिका आभिप्ल्विकेषूक्थ्येषुस्तोमातिशंसने उक्तोविनियोगः ।