प्रथमं मण्डलम् - सूक्तम् 126

7 ऋचः

ऋषिः: कक्षीवान् दैर्घतमस औशिजः देवता: भावयव्यः छन्दः: त्रिष्टुप्

सूक्तम् 1.126 - सम्पूर्णम्

1 / 7
ऋक्: 1.126.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
1.126.1 समानपद
अम᳚न्दा॒न्त्स्तोमा॒न्प्र भ᳚रे मनी॒षा सिन्धा॒वधि᳚ क्षिय॒तो भा॒व्यस्य᳚ ।
यो मे᳚ स॒हस्र॒ममि᳚मीत स॒वान॒तूर्तो॒ राजा॒ श्रव᳚ इ॒च्छमा᳚नः ॥
▶ पदपाठः (Word-by-word)
अम᳚न्दान् । सोमा᳚न् । प्र । भ॒रे॒ । म॒नी॒षा । सिन्धौ᳚ । अधि᳚ । क्षि॒य॒तः । भा॒व्यस्य᳚ ।
यः । मे॒ । स॒हस्र᳚म् । अमि᳚मीत । स॒वान् । अ॒तूर्तः᳚ । राजा᳚ । श्रवः᳚ । इ॒च्छमा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धौ सिन्धुदेशे यद्वा लक्षणयासिन्धुतीरे समुद्रतीरे अधिक्षियतः अधिनिवसतोभाव्यस्यभावय- व्यस्य तत्पुत्रस्यस्वनयस्येत्यर्थःतस्यअमन्दान् अनल्पान् स्तोमान् स्तोत्राणितन्निष्ठबहुविधदानादीनां- कीर्तनानि मनीषा मनीषयाप्रियातिशयबुद्ध्या प्रभरे विशेषेणसंपादयामि कस्तस्यविशेषइतितत्राह- अतूर्तः केनाप्यहिंसितोयोराजामेमदर्थं सहस्रंतत्संख्याकान्सवान्सूयन्तेसोमाएष्वितिसवाः सोमयागाः तान् अमिमीत संपूर्णधनप्रदानेन निर्मितवान् किमिच्छन् श्रवः सर्वैःश्रूयमाणांकीर्तिमात्मनेइच्छमानः कामयमानः यतोयंआर्त्विज्याद्युपाधिनाविनाकीर्त्यर्थमेवबहुधनं प्रादात् अतस्तंस्तौमीत्यर्थः ॥ १ ॥

1.126.2 समानपद
श॒तं राज्ञो॒ नाध᳚मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय᳚तान्त्स॒द्य आद᳚म् ।
श॒तं क॒क्षीवा{4}॒ असु᳚रस्य॒ गोनां᳚ दि॒वि श्रवो॒॑जर॒मा त᳚तान ॥
▶ पदपाठः (Word-by-word)
श॒तम् । राज्ञः᳚ । नाध᳚मानस्य । नि॒ष्कान् । श॒तम् । अश्वा᳚न् । प्र॑य᳚तान् । स॒द्यः । आद᳚म् ।
श॒तम् । क॒क्षीवा᳚न् । असु᳚रस्य । गोना᳚म् । दि॒वि । श्रवः᳚ । अ॒जर᳚म् । आ । त॒ता॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नाधमानस्य स्वीकर्तव्यमित्युच्चैर्याचमानस्य असुरस्य धनानां निरसितुः दानशीलस्य राज्ञः स्वते- जसा दीप्यमानस्य स्वनयस्य निष्कान्आभरणविशेषान् इयत्ताविशेषविशिष्टानि वासुवर्णानि शतं शतसंख्याकानि शतंसहस्रमित्यपरिमितवचनः अपरिमितान् सद्यः प्रार्थनानन्तरमेव कक्षीवानहंआदं आत्तवानस्मि स्वीकृतवानस्मीत्यर्थः तथाप्रयतान् शुद्धान् लक्षणोपेतानश्वानध्वगमनसमर्थान्हयान् शतं शतसंख्याकान् आदं आत्तवान् तथा गोनां पुंगवानां बलीवर्दानामित्यर्थः उत्तरमन्त्रेस्त्रीगवीनाम- भिधानात् तेषांशतंआदं एवंप्रदाताराजा दिवि द्युलोके श्रवः कीर्ति अजरंशाश्वतींआततान विस्तारि- तवान् गवादिप्रतिग्रहीताहं स्वर्गेकीर्तिमकरवमित्यर्थः ॥ २ ॥

1.126.3
उप᳚ मा श्या॒वाः स्व॒नये᳚न द॒त्ता व॒धूम᳚न्तो॒ दश॒ रथा᳚सो अस्थुः ।
ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन᳚त्क॒क्षीवा{4}᳚ अभिपि॒त्वे अह्ना᳚म् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । मा॒ । श्या॒वाः । स्व॒नये᳚न । द॒त्ताः । व॒धू॑म᳚न्तः । दश᳚ । रथा᳚सः । अ॒स्थुः॒ ।
ष॒ष्टिः । स॒हस्र᳚म् । अनु᳚ । गव्य᳚म् । आ । अ॒गा॒त् । सन᳚त् । क॒क्षीवा᳚न् । अ॒भि॒॑पि॒त्वे । अह्ना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वनयेनदत्ताः श्यावाः तद्वर्णाश्वैर्युक्तत्वात् श्यावाः वधूमन्तः आरूढाभिर्वधूभिः तद्वन्तः दश एत- त्संख्याकाः श्यासोरथाः मामांउपास्थुः उपस्थिताः गव्यशब्दोगोसमूहवाची षष्टिः सहस्रमनुगव्यं षष्ट्यधिकंगवांसमूहः अन्वगात् अनुक्रमेणआगतः ततः आत्मानं परोक्षेणब्रवीति तत्सर्वंप्रतिगृह्यायं- कक्षीवान् अह्नांदिवसानां मध्येअभिपित्वे संनिहितेऽहनि सनत् स्वीकृतं रथवध्वादिकंस्वपित्रे सम- र्पयति स्वयंवास्वीकरोति अभिपित्वशब्दआसन्नकालवाची प्रपित्वशब्दवत् सच प्रपित्वेअभीकइत्या- सन्नस्येतियास्केनोक्तत्वादासन्नवचनः उपसर्गभेदेऽप्यर्थाभेदः ॥ ३ ॥

1.126.4 समानपद
च॒त्वा॒रिं॒शद्दश᳚रथस्य॒ शोणा᳚ः स॒हस्र॒स्याग्रे॒ श्रेणिं᳚ नयन्ति ।
म॒द॒च्युतः᳚ कृश॒नाव᳚तो॒ अत्या᳚न्क॒क्षीव᳚न्त॒ उद᳚मृक्षन्त प॒ज्राः ॥
▶ पदपाठः (Word-by-word)
च॒त्वा॒रिं॒शत् । दश᳚॑रथस्य । शोणाः᳚ । स॒हस्र᳚स्य । अग्रे᳚ । श्रेणि᳚म् । न॒य॒न्ति॒ ।
म॒द॒॑च्युतः᳚ । कृ॒श॒न॑व᳚तः । अत्या᳚न् । क॒क्षीव᳚न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशरथस्य दशसंख्याकरथवतः सहस्रस्य सहस्रसंख्याकानुचरोपेतस्य कक्षीवतोगोयूथसहस्रस्य- वाग्रेपुरस्तात् शोणाः शोणवर्णोपेताः अश्वाः चत्वारिंशत् एकैकस्यरथस्यचतुष्टयेसतिदशरथानां मिलित्वाचत्वारिंशदश्वाभवन्ति तेपिश्रेणिं पङ्क्तिं आश्रित्यनयन्ति रथानभिमतदेशंप्रापयन्ति युक्ता- श्वनियुक्तान्रथान् श्रेणिं श्रेणीभावंनयन्ति प्रापयन्ति एकैकंरथंचत्वारश्चत्वारः पंक्तयाकारेणवहन्ती- त्यर्थः अथतान् कक्षीवन्तः कक्ष्याशसंबंधिनीरज्जुः कक्ष्यारज्जुरश्वस्येतियास्केनोक्तत्वात् । ताभिस्त- द्वन्तः यद्वा अंगिरसः पुत्राः सर्वेपिकक्षीवन्तः अथवा कक्षीवदनुचराः सर्वेपि छत्रिन्यायेनकक्षीवन्तः पज्राघासाद्यन्नवन्तः सन्तोमदच्युतोमदस्राविणः उद्वृत्तान् शत्रूणांमदस्यच्यावयितॄन्वा कृशनावतः सुवर्णमंयनानाभरणयुक्तान् कृशनमितिहिरण्यनाम कृशनंलोहमितितन्नामसुपाठात् सुवर्णाभरणोपे- तान् अत्यान् सन्ततगमनशीलानश्वान् उदमृक्षन्त अध्वश्रमजनितस्वेदापनयनाय उत्कृष्टं मार्जयन्ति ॥ ४ ॥

1.126.5
पूर्वा॒मनु॒ प्रय᳚ति॒मा द᳚दे व॒स्त्रीन्यु॒क्ता{4} अ॒ष्टाव॒रिधा᳚यसो॒ गाः ।
सु॒बन्ध᳚वो॒ ये वि॒श्या᳚ इव॒ व्रा अन᳚स्वन्त॒ः श्रव॒ ऐष᳚न्त प॒ज्राः ॥
▶ पदपाठः (Word-by-word)
पूर्वा᳚म् । अनु᳚ । प्र॑य᳚तिम् । आ । द॒दे॒ । वः॒ । त्रीन् । यु॒क्तान् । अ॒ष्टौ । अ॒रि॑धा᳚यसः । गाः ।
सु॒॑बन्ध᳚वः । ये । वि॒श्याः᳚॑इव । व्राः । अन᳚स्वन्तः । श्रवः᳚ । ऐष᳚न्त । प॒ज्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानीं आनीतंधनंबन्धुभ्क्योनिवेदयन्नाह हेसुबन्धवः पूर्वांप्रयतिं पूर्वंप्रदानंअनु तमनुसृत्य वक्ष्य- माणानि रथादीनि युष्मदर्थं आददे स्वीकृतवानस्मि यद्वा पूर्वां प्रयतिं प्रदेयंरथादिकं अनु दानक्रमेणैव आददे प्रतिगृहीतवानस्मि कानितानीति त्रीनष्टौचयुक्तान् चतुर्भिश्चतुर्भिरश्वैर्धनैर्वायुक्तान्रथानितिशे- षः अत्रसंख्यापृथक् निर्देशोनविवक्षितः तथा अरिधायसः अरिभिरीशरैर्धारणीयाः बहुमूल्याअसं- ख्यातागाश्चाददे अत्रवक्ष्यमाणानि पूर्वं प्रतिगृहीतादधिकानीतियुक्तं पूर्वमेवपित्रेनिवेदितानां पुनर्ब- न्धुभ्योनिवेदनासंभवात् वधूमन्तोदशरथासोअस्थुरिति दशानां रथानामुक्तत्वादत्रचत्रीनष्टावित्येका- दशानांवक्ष्यमाणत्वाद्वधूविशिष्टानामन्येभ्योदातुमनुचितत्वाच्चान्यानीतियुक्तम् उक्तानामेवानुवदन- पक्षेदशवधूयुक्तारथाः एकोधनपूर्णइतिविवेकः उक्तानामेवरथादीनांपुनरभिधानं प्रकृष्टत्वज्ञापनार्थं सर्वेब्राह्मणाआगताः वसिष्ठश्चागतइतिवत् इदानीं परोक्षेणाह सुबन्धवः शोभनाविद्यायोनिसंबन्धि- नोयेषांतेतथोक्ताः यद्वा शोभनबान्धवोपेताः परस्परमनुरागयुक्ताइत्यर्थः विशः प्रजाः तत्रभवावि- श्याः व्रियन्तइतिव्राः व्राताः तकारलोपश्छान्दसः विशांव्रातायथापरस्परमनुरागवन्तः तथैवैतेअपी- त्यर्थः पज्राः अन्नवन्तः अङ्गिरसः सन्तानप्रभवायेसन्ति ते सर्वेसुबन्धवः अनस्वन्तः शकटवन्तः ह- विर्धानशकटोपलक्षितसोमयागवन्तः सन्तः श्रवः सर्वत्रश्रूयमाणांकीर्तिं ऎषन्त इच्छन्ति इच्छन्तु वा तदर्थमाददइतिशेषः ॥ ५ ॥

1.126.6
आग᳚धिता॒ परि᳚गधिता॒ या क᳚शी॒केव॒ जङ्ग᳚हे ।
ददा᳚ति॒ मह्यं॒ यादु᳚री॒ याशू᳚नां भो॒ज्या᳚ श॒ता ॥
▶ पदपाठः (Word-by-word)
आ॑ग᳚धिता । परि᳚॑गधिता । या । क॒शी॒का॑इ᳚व । जङ्ग᳚हे ।
ददा᳚ति । मह्य᳚म् । यादु᳚री । याशू᳚नाम् । भो॒ज्या᳚ । श॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

संभोगायप्रार्थितोभावयव्यः स्वभार्यांरोमशामप्रौढेतिबुद्भ्यापरिहसन्नाह—भोज्या भोगयोग्यैषा आगधिताआसमन्ताद्गृहीता स्वीकृता तथा परिगधिता परितोग्रहीताआदरातिशयाय पुनर्वचनं गध्यंगृह्णातेरितियास्कः । यद्वा आगधिता आसमन्तान्मिश्रयन्ती आन्तरंप्रजननेन बाह्यंभुजादिभिरि- त्यर्थः गध्यतिर्मिश्रीभावकर्मेतियास्कः । पूर्वस्मिन्पक्षेपुरुषस्यप्राधान्यं उत्तरस्मिंस्तुयोषितइतिभेदः कीदृशीसा या जंगहे अत्यर्थंगृह्णातिकदापिनमुंचति अत्यागेदृष्टान्तः—कशीकेव कशीकानामसूतव- त्सानकुली सायथा पत्यासहचिरकालंक्रीडति नकदचिदपिविमुंचति तथेषाअपि किंच भोज्यैषा यादुरीय दुरित्युदकनाम रेतोलक्षणमुदकं प्रभूतंरातिददातीति यादुरी बहुरेतोयुक्तेत्यर्थः तादृशीसती याशूनां संभोगानां यशइतिप्रजनननाम तत्संबन्धीनिकर्माणि याशूनिभोगाः तेषांशताशतान्यसंख्या- तानि मह्यंददाति ॥ ६ ॥

1.126.7
उपो᳚प मे॒ परा᳚ मृश॒ मा मे᳚ द॒भ्राणि᳚ मन्यथाः ।
सर्वा॒हम᳚स्मि रोम॒शा ग॒न्धारी᳚णामिवावि॒का ॥
▶ पदपाठः (Word-by-word)
उप᳚॑उप । मे॒ । परा᳚ । मृ॒श॒ । मा । मे॒ । द॒भ्राणि᳚ । म॒न्य॒थाः॒ ।
सर्वा᳚ । अ॒हम् । अ॒स्मि॒ । रो॒म॒शा । ग॒न्धारी᳚णाम्॑इव । अ॒वि॒का ॥
▶ सायणभाष्यम् (Sayana Commentary)

रोमशानामबृह पतेःपुत्रीब्रह्मवादिनीपरिहसन्तंस्तपतिंप्रत्याह—भोःपते मेमां द्वितीयार्थे चतुर्थी उपोप द्वितीयउपशब्दःपादपूरणः उपेत्य परामृश सम्यक्स्प्रुश भोगयोग्यामवगच्छेत्यर्थः यद्वा मेमम गोपनीयमंगंउपोपपरामृश अत्यन्तमान्तरंस्पृश परामर्शभावशङ्कांनिवारयति मेमदङ्गामो रोमा- णिदभ्राणि मामन्यथाः अल्पानि माबुध्यरव दभ्रमर्भकमित्यल्पस्येतिदभ्रंदभ्रोतिरितियास्कः । अदभ्र- त्वमेवविशदयति अहंरोमशाबहुरोमयुक्तास्मि यतोऽहमीदृशीअतः सर्वा संपूर्णावयवास्मि रोमशत्वे- दृष्टान्तः—गन्धारीणामविकेव गंधारादेशाः तेषांसंबन्धिन्यविजातिरिव तद्देशस्थाअतयोगेत्रायथारो- मशाः तथाहमस्मि यद्वा गन्धारीणां गर्भधारिणीनां स्त्रीणांअविका अत्यर्थंतर्पयन्तीयोनिरिव तासां आप्रसवंरोमादिविकर्तनस्यशास्त्रनिषिद्धत्वात् योनिः रोमशाभवति अतः सोपमीयते यतोऽहगीदृशी- अतोमांअप्रौढांमावबुध्यस्वेत्यर्थः ॥ ७ ॥

एकोनविंशेनुवाकेसप्तसूक्तानि तत्र अग्निंहोतारमितिप्रथमंसूक्तमेकादशर्चं दिवोदासपुत्रस्य परु- च्छेपस्यार्षं आग्नेयं आत्यष्टं सहिशर्धइत्यस्याः षट्सप्तत्यक्षरातिधृतिः उत्कृत्यभिकृतिसंकृतिविकृत्या- कृतिप्रकृतिकृत्यतिधृतिधृत्यत्यष्टिषुचतुरुत्तरशताक्षरमारभ्यचतुर्णींचतुर्णांपरित्यागेनैकैकमुक्तंछन्दो- जायते तथासत्यत्यष्ट्यतिधृतीउक्तसंख्योपेतेस्यातां एतत्सर्वंछंदोग्रन्थे चतुःशतमुत्कृतिरित्यादिसूत्रैः प्रतिपादितं तथाचानुक्रान्तं—अग्निमेकादशपरुच्छेपोदैवोदासिराग्नेयंतुपारुच्छेपंसर्वमात्यष्टंतत्रातिधृ- तिः षष्ठीति । सूक्तस्यविशेषविनियोगोलैंगिकः दशरात्रस्यषष्ठेहनिप्रातः सवनेप्रस्थितयाज्यानां पुर- स्तादन्याऋचेःकृत्वा प्राकृताभिश्चसहयष्टव्यं तत्राग्नीध्रस्यैषाप्रथमा षष्ठस्यघातः सवनइतिखण्डेसूत्रि- तम्—अग्निंहोतारंमन्येदास्वन्तंदध्यङ्हमेजनुषंपूर्वोअङ्गिराइति ।