श्रवणम्

1.126.3
उप᳚ मा श्या॒वाः स्व॒नये᳚न द॒त्ता व॒धूम᳚न्तो॒ दश॒ रथा᳚सो अस्थुः ।
ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन᳚त्क॒क्षीवा{4}᳚ अभिपि॒त्वे अह्ना᳚म् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । मा॒ । श्या॒वाः । स्व॒नये᳚न । द॒त्ताः । व॒धू॑म᳚न्तः । दश᳚ । रथा᳚सः । अ॒स्थुः॒ ।
ष॒ष्टिः । स॒हस्र᳚म् । अनु᳚ । गव्य᳚म् । आ । अ॒गा॒त् । सन᳚त् । क॒क्षीवा᳚न् । अ॒भि॒॑पि॒त्वे । अह्ना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वनयेनदत्ताः श्यावाः तद्वर्णाश्वैर्युक्तत्वात् श्यावाः वधूमन्तः आरूढाभिर्वधूभिः तद्वन्तः दश एत- त्संख्याकाः श्यासोरथाः मामांउपास्थुः उपस्थिताः गव्यशब्दोगोसमूहवाची षष्टिः सहस्रमनुगव्यं षष्ट्यधिकंगवांसमूहः अन्वगात् अनुक्रमेणआगतः ततः आत्मानं परोक्षेणब्रवीति तत्सर्वंप्रतिगृह्यायं- कक्षीवान् अह्नांदिवसानां मध्येअभिपित्वे संनिहितेऽहनि सनत् स्वीकृतं रथवध्वादिकंस्वपित्रे सम- र्पयति स्वयंवास्वीकरोति अभिपित्वशब्दआसन्नकालवाची प्रपित्वशब्दवत् सच प्रपित्वेअभीकइत्या- सन्नस्येतियास्केनोक्तत्वादासन्नवचनः उपसर्गभेदेऽप्यर्थाभेदः ॥ ३ ॥