श्रवणम्

1.126.2 समानपद
श॒तं राज्ञो॒ नाध᳚मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय᳚तान्त्स॒द्य आद᳚म् ।
श॒तं क॒क्षीवा{4}॒ असु᳚रस्य॒ गोनां᳚ दि॒वि श्रवो॒॑जर॒मा त᳚तान ॥
▶ पदपाठः (Word-by-word)
श॒तम् । राज्ञः᳚ । नाध᳚मानस्य । नि॒ष्कान् । श॒तम् । अश्वा᳚न् । प्र॑य᳚तान् । स॒द्यः । आद᳚म् ।
श॒तम् । क॒क्षीवा᳚न् । असु᳚रस्य । गोना᳚म् । दि॒वि । श्रवः᳚ । अ॒जर᳚म् । आ । त॒ता॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नाधमानस्य स्वीकर्तव्यमित्युच्चैर्याचमानस्य असुरस्य धनानां निरसितुः दानशीलस्य राज्ञः स्वते- जसा दीप्यमानस्य स्वनयस्य निष्कान्आभरणविशेषान् इयत्ताविशेषविशिष्टानि वासुवर्णानि शतं शतसंख्याकानि शतंसहस्रमित्यपरिमितवचनः अपरिमितान् सद्यः प्रार्थनानन्तरमेव कक्षीवानहंआदं आत्तवानस्मि स्वीकृतवानस्मीत्यर्थः तथाप्रयतान् शुद्धान् लक्षणोपेतानश्वानध्वगमनसमर्थान्हयान् शतं शतसंख्याकान् आदं आत्तवान् तथा गोनां पुंगवानां बलीवर्दानामित्यर्थः उत्तरमन्त्रेस्त्रीगवीनाम- भिधानात् तेषांशतंआदं एवंप्रदाताराजा दिवि द्युलोके श्रवः कीर्ति अजरंशाश्वतींआततान विस्तारि- तवान् गवादिप्रतिग्रहीताहं स्वर्गेकीर्तिमकरवमित्यर्थः ॥ २ ॥