प्रथमं मण्डलम् - सूक्तम् 58

9 ऋचः

ऋषिः: नोधा गौतमः देवता: अग्निः छन्दः: जगती

सूक्तम् 1.58 - सम्पूर्णम्

1 / 9
ऋक्: 1.58.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.58.1
नू चि᳚त्सहो॒जा अ॒मृतो॒ नि तु᳚न्दते॒ होता॒ यद्दू॒तो अभ᳚वद्वि॒वस्व᳚तः ।
वि साधि᳚ष्ठेभिः प॒थिभी॒ रजो᳚ मम॒ आ दे॒वता᳚ता ह॒विषा᳚ विवासति ॥
▶ पदपाठः (Word-by-word)
नु । चि॒त् । स॒हः॒॑जाः । अ॒मृतः᳚ । नि । तु॒न्द॒ते॒ । होता᳚ । यत् । दू॒तः । अभ᳚वत् । वि॒वस्व᳚तः ।
वि । साधि᳚ष्ठेभिः । प॒थि॑भिः᳚ । रजः᳚ । म॒मे॒ । आ । दे॒व॑ता᳚ता । ह॒विषा᳚ । वि॒वा॒स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकादशानुवाके सप्त सूक्तानि । तत्र नू चिदिति नवर्चं प्रथमं सूक्तं गौतमस्य नोधस आर्षमाग्नेयम् । आद्याः पंच जगत्यः । शिष्टाश्चतस्रस्त्रिष्वुभः । तथा चानुक्वांतम् । नू चिन्नव नोधा गौतम आग्नेयं हि चतुस्त्रिष्टुबंतमिति । हीति वचनादुत्तरे च द्वे सूक्ते अग्निदेवताके ॥ आभिप्लवषडहस्य पंचमेऽहन्याग्निमारुत इदं जातवेदस्यं निविद्धानम् । तृतीयस्येति खंडे सूत्रितम् । पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा इत्याग्निमारुतम् । आ ७ ७ । इति ॥ प्रातरनुवाकस्याग्नेये क्रतावाश्विनशस्त्रे च जागते छंदस्यादितः पंचर्चः । सूत्रितं च । त्वमग्ने प्रथमो अंगिरा नू चित्सहोजा अमृतो नि तुंदत इति पंच (आ ४-१३) इति ॥

सहोजाः सहसा बलेन जातः । अग्निर्हि बलेन मथ्यमानोऽरण्योः सकाशाज्जायते । अमृतो मरणरहितः । एवंभूतोऽग्निर्नू चित् क्षिप्रमेव नि तुंदते । नितरां व्यथयति । उत्पन्नमात्रस्याग्नेः स्प्रष्टुमशक्यत्वात् । यद्वा । निर्गच्छति । तुंदतिर्गत्यर्थः सौत्रो धातुः । यद्यदा होता देवानामाह्वाता होमनिष्पादको वायमग्निर्विवस्वतः परिचरतो यजमानस्य देवान्प्रति हविर्वहनाय दूतोऽभवत् हविर्वहने नियुक्तो भवति तदानीं साधिष्ठेभिः समीचीनैः पथिभिर्मार्गैर्गच्छन् रजोऽंतरिक्षलोकं वि ममे । निर्ममे । पूर्वं विद्यमानमप्यंतरिक्षमसत्कल्पमभूत् । इदानीं तस्य तेजसा प्रकाशमानं सदुत्पन्नमिव दृश्यते । किंच । देवतातेति यज्ञनाम । देवताता देवतातौ यज्ञे हविषा चरुपुरोडाशादिलक्षणेन देवाना विवासति । परिचरति ॥ अमृतः । मृतं मरणमस्य नास्तीति बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । तुंदते । तुद व्यथने । स्वरितेत्त्वादात्मनेपदम् । नकारोपजनश्छांदसः । साधिष्ठेभिः । वाढशब्दादातिशायनिक इष्ठन्यंतिकवाढयोर्नेदसाधौ (पा ५-३-६३) इति साधादेशः । बहुलम् । छंदसीति भिस ऐशभावः । नित्त्वादाद्युदात्तत्वम् । देवताता । सर्वदेवात्तातिल् (पा ४-४-१४२) इति स्वार्थिकस्तातिल्प्रत्ययः । तेन च तत्संबंधी यज्ञो लक्ष्यते । यद्वा । देवान्हविषा आ विवासतीति योज्यम् । सुपां सुलुगिति विभक्तेर्डादेशः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वं ॥ १ ॥

1.58.2
आ स्वमद्म᳚ यु॒वमा᳚नो अ॒जर᳚स्तृ॒ष्व᳚वि॒ष्यन्न᳚त॒सेषु᳚ तिष्ठति ।
अत्यो॒ न पृ॒ष्ठं प्रु᳚षि॒तस्य᳚ रोचते दि॒वो न सानु᳚ स्त॒नय᳚न्नचिक्रदत् ॥
▶ पदपाठः (Word-by-word)
आ । स्वम् । अद्म᳚ । यु॒वमा᳚नः । अ॒जरः᳚ । तृ॒षु । अ॒वि॒ष्यन् । अ॒त॒सेषु᳚ । ति॒ष्ठ॒ति॒ ।
अत्यः᳚ । न । पृ॒ष्ठम् । प्रु॒षि॒तस्य᳚ । रो॒च॒ते॒ । दि॒वः । न । सानु᳚ । स्त॒नय᳚न् । अ॒चि॒क्र॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अजरो जरारहितोऽयमग्निः स्वं स्वकीयमद्मादनीयं तृणगुल्मादिकं युवमानः स्वकीयज्वालया संमिश्रयन् तदनंतरं चाविष्यन् भक्षयंश्च । अविष्यन्नित्येतदत्ति कर्मसु पठितम् । एवंभूतोऽग्निस्तृषु क्षिप्रमेवातसेषु प्रभूतेषुकाष्ठेष्वा तिष्ठति । आरोहति । आत्रातसशब्दः काष्ठवाची । अतसं न शुष्कम् । ऋग्वे ४-४-४ । इति दर्शनात् । प्रुषितस्य दग्धुमितस्ततः प्रवृत्तस्याग्नेः पृष्ठमुपर्यवस्थितं ज्वालाजालमत्यो न रोचते । यथा सततगमनशीलोऽश्च इतस्ततो गच्छन् शोभते एवमग्नेर्ज्वालापि सर्वत्र गच्छंती शोभत इति भावः । तदानीं दिवो द्युलोकस्य संबंधि सानु समुच्भ्रितमभ्रं स्तनयन्न शब्दयन्निवाचिक्रदत् । गंभीरं शब्दमात्मानमचीकरत् ॥ युवमानः । यु मिश्रणे । व्यत्ययेनात्मनेपदम् । शपि प्राप्ते व्यत्ययेन शः । तस्य बहुलं छंदसीति लुगभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वर एव शिष्यते । अजरः । बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । अचिक्रदत् । कदि क्रदि क्लदि आह्वाने रोदने च अस्माण्ण्यंताल्लुङि चङ्यागमानुशासनस्यानित्यत्वान्नुमभावः । द्विर्भावहलादिशेषसन्वद्भावेत्वानि ॥ २ ॥

1.58.3
क्रा॒णा रु॒द्रेभि॒र्वसु᳚भिः पु॒रोहि᳚तो॒ होता॒ निष᳚त्तो रयि॒षाळम᳚र्त्यः ।
रथो॒ न वि॒क्ष्वृ᳚ञ्जसा॒न आ॒युषु॒ व्या᳚नु॒षग्वार्या᳚ दे॒व ऋ᳚ण्वति ॥
▶ पदपाठः (Word-by-word)
क्रा॒णा । रु॒द्रेभिः᳚ । वसु᳚॑भिः । पु॒रः॑हि᳚तः । होता᳚ । नि॑स᳚त्तः । र॒यि॒षाट् । अम᳚र्त्यः ।
रथः᳚ । न । वि॒क्षु । ऋ॒ञ्ज॒सा॒नः । आ॒युषु᳚ । वि । आ॒नु॒षक् । वार्या᳚ । दे॒वः । ऋ॒ण्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्राणा हविर्वहनं कुर्वाणो रुद्रेभी रुद्रैर्वसुभिश्च पुरोहितः पुरस्कृतो होता देवानामाह्वाता निषत्तो हविःस्वीकरणाय देवयजने निषण्णो रयिषाट् रयीणां शत्रुधनानामभिभवितामर्त्यो मरणरहितः । एवं भूतो देवो द्योतमानोऽग्निर्विक्षु प्रजासु लौकिकजनेषु रथो न रथ इवायुषु यजमानलक्षणेषु मनुष्येष्वृंजसानः स्तूयमानो वार्या वार्याणि संभजनीयानि धनान्यानुषक् अनुषक्तं यथा भवति तथा व्यृण्वति । विशेषेण प्रापयति । यद्वा । वार्याणि वरणीयाननि हवींष स्वयं प्राप्नोति ॥ क्राणा । करोतेः शानचि बहुलं छंदसीति विकरणस्य लुक् । शानचो ङित्त्वाद्गुणाभावे यणादेशः । चित इत्यंतोदात्तत्वम् । सुपां सुलुगिति सोः पूर्वसवर्णदीर्घत्वम् । निषत्तः । षद्लृ विशरणगत्यवसादनेषु । अस्मात्कर्मणि निष्ठा । नसत्तनिषत्तेत्यादिना (पा ८-२-६१) निष्ठानत्वाभावो निपातितः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । रयिषाट् । षह अभिभवे छंदसि सहः (पा ३-२-६३) इति ण्विः । सहेः साडः सः (पा ८-३-५६) इति षत्वम् । ऋंजसानः । ऋंजतिः स्तुतिकर्मा । असानजित्यनुवृत्तावृंजिवृधिमंदिसहिभ्यः कित् (उ २-८७) इति कर्मण्यसानच् प्रत्ययः । चित इत्यंतोदात्तत्वम् । आयुषु । आयव इति मनुष्यनाम । इण् गतावित्यस्माच्छंदसीण इत्युण्प्रत्ययः । वृद्ध्यायादेशौ । वार्या । वृङ् संभक्तौ । ऋहलोर्ण्यत् । तित्स्वरिते प्राप्त ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वम् । शेश्छंदसीति शेर्लोपः । ऋण्वति । रिवि गतौ । व्यत्ययेन संप्रसारणम् । इदित्त्वान्नुम् । कर्तरि शप् ॥ ३ ॥

1.58.4
वि वात᳚जूतो अत॒सेषु᳚ तिष्ठते॒ वृथा᳚ जु॒हूभि॒ः सृण्या᳚ तुवि॒ष्वणि᳚ः ।
तृ॒षु यद᳚ग्ने व॒निनो᳚ वृषा॒यसे᳚ कृ॒ष्णं त॒ एम॒ रुश᳚दूर्मे अजर ॥
▶ पदपाठः (Word-by-word)
वि । वात᳚॑जूतः । अ॒त॒सेषु᳚ । ति॒ष्ठ॒ते॒ । वृथा᳚ । जु॒हूभिः᳚ । सृण्या᳚ । तु॒वि॒॑स्वनिः᳚ ।
तृ॒षु । यत् । अ॒ग्ने॒ । व॒निनः᳚ । वृ॒ष॒॑यसे᳚ । कृ॒ष्णम् । ते॒ । एम᳚ । रुश᳚त्॑ऊर्मे । अ॒ज॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातजूतो वायुना प्रेरितस्तुविष्वणिर्महास्वनः एवंभूतोऽग्निर्जुहूभिः स्वकीयाभिर्जिह्वाभिः सृण्या सरणशीलेन तेजःसमूहेन च युक्तः सन् । व्यथेत्यनायासवचनः । वृथानायासेनैवातसेषून्नतेषु वृक्षेषु वि तिष्ठते । विशेषेण तिष्ठति । हे अग्ने यद्यदा वनिनो वनसंबंधान्वृक्षाद्दग्धुं वृषायसे वृषवदाचरसि दहसीत्यर्थः । हे रुतदूर्मे दीप्तज्वाल अजर जरारहिताग्ने ते तवैव गमनमार्गः कृष्णं कृष्णवर्णो भवति ॥ वातजूतः । जू इति सौत्रो धातुः । वातेन जूतो वातजूतः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । वितिष्ठते । समवप्रविभ्यः स्थ इत्यात्मनेपदम् । जुहूभिः । हु दानादनयोः । हूयत आस्विति जुहूः । हुवः श्लुवच्च । उ २ । ६० । इति क्विप् । चकाराद्दीर्घः । श्लुवद्भावाद्द्विर्भावादि । धातोरित्यंतोदात्तत्वम् । सृण्या । सृ गतौ । सरतीति सृणिः । सृवृषिभ्यां कित् (उ ४-४९) इति निप्रत्ययः । एम । एत्यनेनेत्येम मार्गः । इण् गतावित्यस्मात्करण औणादिको मनिन् । नित्त्वादाद्युदात्तत्वं ॥ ४ ॥

1.58.5
तपु᳚र्जम्भो॒ वन॒ आ वात᳚चोदितो यू॒थे न सा॒ह्वा{4} अव᳚ वाति॒ वंस᳚गः ।
अ॒भि॒व्रज॒न्नक्षि᳚तं॒ पाज᳚सा॒ रजः᳚ स्था॒तुश्च॒रथं᳚ भयते पत॒त्रिणः᳚ ॥
▶ पदपाठः (Word-by-word)
तपुः᳚॑जम्भः । वने᳚ । आ । वात᳚॑चोदितः । यू॒थे । न । सा॒ह्वान् । अव᳚ । वा॒ति॒ । वंस᳚गः ।
अ॒भि॒॑व्रज᳚न् । अक्षि᳚तम् । पाज᳚सा । रजः᳚ । स्था॒तुः । च॒रथ᳚म् । भ॒य॒ते॒ । प॒त॒त्रिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तपुर्जंभः । तपूंषि ज्वाला एव जंभा आयुधानि मुखानि वा यस्य स तथोक्तः । वातचोदितो वायुना प्रेरितः । एवंभूतोऽग्निर्यूथे ज्वलासमूहे सत्यक्षितमक्षीणं रज आर्द्रवृक्षांतर्गतमुदकं पाजसा तेजोबलेनाभिव्रजन् आभिमुख्येन गच्छन्वनेऽरण्ये स्वाह्वान् सर्वमभिभवन् आ आभिमुख्येनाव वाति व्याप्नोति । तत्र दृष्टांतः । वंसगो न । यथा वननीयगतिर्वृषो गोयूथे सर्वमभिभवन्वर्तते तद्वत् । यस्मादेवं तस्मात्पतत्रिणः पतनवतोऽग्नेः सकाशात्स्थातुः स्थावरं चरथं च जंगमं च भयते । बिभेति ॥ साह्वान् । दाश्वान्साह्वानिति क्वसुप्रत्ययांतो निपातितः । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । यत्वलोपौ । ह्रस्वत्वं छांदसम् । स्थातुः । कमिमनिजनीत्यादिना (उ १-७३) विहितस्तुप्रत्ययो बहुलवचनात्तिष्ठतेरपि भवति । यद्वा । स्थातुरनंतरं चरथं भयते । प्रथमं स्थातृ स्थावरं बिभेति पश्चाच्चरथमित्यर्थः । चरथम् । चर गत्यर्थः । अस्मादौणादिकोऽथप्रत्ययः । भयते । ञिभी भये । व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति श्लोरभावः । गुणावादेशौ ॥ ५ ॥

1.58.6
द॒धुष्ट्वा॒ भृग᳚वो॒ मानु᳚षे॒ष्वा र॒यिं न चारुं᳚ सु॒हवं॒ जने᳚भ्यः ।
होता᳚रमग्ने॒ अति᳚थिं॒ वरे᳚ण्यं मि॒त्रं न शेवं᳚ दि॒व्याय॒ जन्म᳚ने ॥
▶ पदपाठः (Word-by-word)
द॒धुः । त्वा॒ । भृग᳚वः । मानु᳚षेषु । आ । र॒यिम् । न । चारु᳚म् । सु॒॑हव᳚म् । जने᳚भ्यः ।
होता᳚रम् । अ॒ग्ने॒ । अति᳚थिम् । वरे᳚ण्यम् । मि॒त्रम् । न । शेव᳚म् । दि॒व्याय᳚ । जन्म᳚ने ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वा त्वां मानुषेषु मनुष्येषु मध्ये भृगव एतत्संज्ञा महर्षयो दिव्याय जन्मने देवत्वप्राप्तये चारुं रयिं न शोभनं धनमिवा दधुः । आधानसंभारेषु मंत्रैः स्थापनेन समस्कुर्वन् । कीदृशं त्वाम् । जनेभ्यः सुहवं यजमानार्थमाह्वातुं सुशकं होतारं देवानामाह्वातारं अतिथिमतिथिवत्पूज्यम् । यद्वा । देवयजनदेशेषु सततं गंतारम् । वरेण्यं वरणीयं मित्रं न शेवम् । यथा सखा सुखकरो भवति तद्वत् सुखकरमित्यर्थः ॥ दधुः । लिट्युस्यातो लोप इट चेत्याकारलोपः । युष्मत्तत्ततक्षुःष्वंतःपादमिति विसर्जनीयस्य षत्वम् । सुहवम् । ह्वयतेरीषद्दुःसुष्विति खल् । बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वम् । गुणावादेशौ । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ६ ॥

1.58.7 समानपद
होता᳚रं स॒प्त जु॒ह्वो॒३॒᳚ यजि᳚ष्ठं॒ यं वा॒घतो᳚ वृ॒णते᳚ अध्व॒रेषु᳚ ।
अ॒ग्निं विश्वे᳚षामर॒तिं वसू᳚नां सप॒र्यामि॒ प्रय᳚सा॒ यामि॒ रत्न᳚म् ॥
▶ पदपाठः (Word-by-word)
होता᳚रम् । स॒प्त । जु॒ह्वः᳚ । यजि᳚ष्ठम् । यम् । वा॒घतः᳚ । वृ॒णते᳚ । अ॒ध्व॒रेषु᳚ ।
अ॒ग्निम् । विश्वे᳚षाम् । अ॒र॒तिम् । वसू᳚नाम् । स॒प॒र्यामि᳚ । प्रय᳚सा । यामि᳚ । रत्न᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्त सप्तसंख्याका जुह्वो होतारो वाघत ऋत्विजोऽध्वरेषु यागेषु यजिष्ठं यष्वृतमं होतारं देवानामाह्वातारं यमग्निं वृणते संभजंते विश्वेषां सर्वेषां वसूनामरतिं प्रापयितारं तमग्निं प्रयसा हविर्लक्षणेनान्नेन सपर्यामि । परिचरामि । रत्नं रमणीयं कर्मफलं च यामि । याचामि ॥ वृणते । वृङ् संभक्तौ । क्रैयादिकः । प्रत्ययस्वरः । आरतिम् । ऋ गतिप्रापणयोः । अस्मादौणादिको वहिवस्यर्तिभ्यश्चित् (उ ४-६०) इत्यतिप्रत्ययः । चित्त्वादंतोदात्तत्वम् । सपर्यामि । सपर्यतिः परिचरणकर्मा । सपर पूजायामिति धातुः कंड्वादिः । अतो यक एव स्वरः शिष्यते । पादादित्वान्निघाताभावः । यामि याचामित्यस्य वर्णलोपश्छांदसः ॥ ७ ॥

1.58.8
अच्छि᳚द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो᳚ मित्रमह॒ः शर्म᳚ यच्छ ।
अग्ने᳚ गृ॒णन्त॒मंह᳚स उरु॒ष्योर्जो᳚ नपात्पू॒र्भिराय᳚सीभिः ॥
▶ पदपाठः (Word-by-word)
अच्छि᳚द्रा । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । नः॒ । अ॒द्य । स्तो॒तृ॑भ्यः᳚ । मि॒त्र॒॑म॒हः॒ । शर्म᳚ । य॒च्छ॒ ।
अग्ने᳚ । गृ॒णन्त᳚म् । अंह᳚सः । उ॒रु॒ष्य॒ । ऊर्जः᳚ । न॒पा॒त् । पूः॒॑भिः । आय᳚सीभिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसः सूनो बलस्य पुत्र । बलेन हि मथ्यमनोऽग्निर्जायते । मित्रमहोऽनुकूलदीप्तिमन्नग्ने नोऽस्मभ्यं स्तोतृभ्योऽद्यास्मिन्कर्मण्यच्छिद्राच्छेद्यानि शर्म शर्माणि सुखानि यच्छ । देहि । किंच हे ऊर्जो नपात् अन्नस्य पुत्र । भुक्तेनान्नेन जठराग्नेः प्रवर्धनादग्नेरन्न पुत्रत्वम् । एवंविधाग्ने गृणंतं त्वां स्तुवंतमायसीभिर्व्याप्तैः । यद्वा । आयोवद्दृढतरैः । पूर्भिः पालनैरंहसंः पापादुरुष्य । रक्ष । उरुष्यती रक्षाकर्मा (नि ५-२३) इति यास्कः ॥ अच्छिद्रा । शेश्छंदसीति शेर्लोपः । सूनो सहसः । परमपि च्छंदसीति परस्य षष्ठ्यंतस्य पूर्वामंत्रितांगवद्भावे सति पदद्वयसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् । शर्म । सुपां सुलुगिति विभक्तेर्लुक् । ऊर्जो नपात् । न पातयतीति नपात् । नभ्राण्न पादिति नञः प्रकृतिभावः । सुबामंत्रित इति षष्ठ्यंतस्य परांगवद्भावे सति पादादित्वादाष्टमिकनिघाताभावे षाष्ठि कमामंत्रिताद्युदात्तत्वम् । पूर्भिः । पृ पालनपूरणयोरित्यस्मात्संपदादिलक्षणो भावे क्विप् । उत्वदीर्घौ । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ८ ॥

1.58.9 समानपद
भवा॒ वरू᳚थं गृण॒ते वि᳚भावो॒ भवा᳚ मघवन्म॒घव᳚द्भ्य॒ः शर्म᳚ ।
उ॒रु॒ष्याग्ने॒ अंह᳚सो गृ॒णन्तं᳚ प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
भव᳚ । वरू᳚थम् । गृ॒ण॒ते । वि॒भा॒॑वः॒ । भव᳚ । म॒घ॒॑व॒न् । म॒घव᳚त्॑भ्यः । शर्म᳚ ।
उ॒रु॒ष्य । अ॒ग्ने॒ । अंह᳚सः । गृ॒णन्त᳚म् । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विभावो विशिष्टप्रकाशाग्ने गृणते त्वां स्तुवते यजमानाय । वरूथमिति गृहनाम । वरूथमनिष्वनिवारकं गृहं भव । हे मघवन् धनवन्नग्ने मघवद्भ्यो हविर्लक्षणधनयुक्तेभ्यो यजमानेभ्यः शर्म सुखं यथा भवति तथा भव । हे अग्ने गृणंतं स्तुवंतमंहसः पापकारिणः शत्रोरुरुष्य । रक्ष । धियावसुः कर्मणा बुद्ध्या वा प्राप्तधनोऽग्निः प्रातरिदानीमिव परेद्युरपि मक्षु शीघ्रं जगम्यात् । आगच्छतु ॥ वरूथम् । वृञ् वरणे । जृवृञ्भ्यामूथन् (उ २-६) इत्यूथन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । गृणते । शतुरनुम इति विभक्तेरुदात्तत्वम् । विभावः । विशिष्टा भा विभाः । आतो मनिन्निति विच् । तदस्यास्तीति मतुप् । मादुपधाया इति मतुपो वत्वम् । मतुवसो रुरिति नकारस्य रुत्वम् । मघवद्भ्यः । मघवाबहुलम् (पा ६-४-१२८) इति मघवञ्शब्दस्य तृआदेशः । स च नानुबंधकृतमनेकाल्त्वम् । परि ६ म १-१-५५ । इति वचनात् आलोऽंत्यस्य (पा १-१-५२) इत्यंतस्य भवति । मक्षु । ऋचि तुनुघमक्ष्विति दीर्घः । धियावसुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदस्य सावेकाच इति विभक्तिरुदात्ता । लुगभावश्छांदसः । जगम्यात् । गम्लृ सृप्लृ गतौ । लिङि बहुलं छंदसीति शपः श्लुः ॥ ९ ॥