श्रवणम्

1.58.2
आ स्वमद्म᳚ यु॒वमा᳚नो अ॒जर᳚स्तृ॒ष्व᳚वि॒ष्यन्न᳚त॒सेषु᳚ तिष्ठति ।
अत्यो॒ न पृ॒ष्ठं प्रु᳚षि॒तस्य᳚ रोचते दि॒वो न सानु᳚ स्त॒नय᳚न्नचिक्रदत् ॥
▶ पदपाठः (Word-by-word)
आ । स्वम् । अद्म᳚ । यु॒वमा᳚नः । अ॒जरः᳚ । तृ॒षु । अ॒वि॒ष्यन् । अ॒त॒सेषु᳚ । ति॒ष्ठ॒ति॒ ।
अत्यः᳚ । न । पृ॒ष्ठम् । प्रु॒षि॒तस्य᳚ । रो॒च॒ते॒ । दि॒वः । न । सानु᳚ । स्त॒नय᳚न् । अ॒चि॒क्र॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अजरो जरारहितोऽयमग्निः स्वं स्वकीयमद्मादनीयं तृणगुल्मादिकं युवमानः स्वकीयज्वालया संमिश्रयन् तदनंतरं चाविष्यन् भक्षयंश्च । अविष्यन्नित्येतदत्ति कर्मसु पठितम् । एवंभूतोऽग्निस्तृषु क्षिप्रमेवातसेषु प्रभूतेषुकाष्ठेष्वा तिष्ठति । आरोहति । आत्रातसशब्दः काष्ठवाची । अतसं न शुष्कम् । ऋग्वे ४-४-४ । इति दर्शनात् । प्रुषितस्य दग्धुमितस्ततः प्रवृत्तस्याग्नेः पृष्ठमुपर्यवस्थितं ज्वालाजालमत्यो न रोचते । यथा सततगमनशीलोऽश्च इतस्ततो गच्छन् शोभते एवमग्नेर्ज्वालापि सर्वत्र गच्छंती शोभत इति भावः । तदानीं दिवो द्युलोकस्य संबंधि सानु समुच्भ्रितमभ्रं स्तनयन्न शब्दयन्निवाचिक्रदत् । गंभीरं शब्दमात्मानमचीकरत् ॥ युवमानः । यु मिश्रणे । व्यत्ययेनात्मनेपदम् । शपि प्राप्ते व्यत्ययेन शः । तस्य बहुलं छंदसीति लुगभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वर एव शिष्यते । अजरः । बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । अचिक्रदत् । कदि क्रदि क्लदि आह्वाने रोदने च अस्माण्ण्यंताल्लुङि चङ्यागमानुशासनस्यानित्यत्वान्नुमभावः । द्विर्भावहलादिशेषसन्वद्भावेत्वानि ॥ २ ॥