अग्ने᳚ गृ॒णन्त॒मंह᳚स उरु॒ष्योर्जो᳚ नपात्पू॒र्भिराय᳚सीभिः ॥
पदपाठः (Word-by-word)
अग्ने᳚ । गृ॒णन्त᳚म् । अंह᳚सः । उ॒रु॒ष्य॒ । ऊर्जः᳚ । न॒पा॒त् । पूः॒॑भिः । आय᳚सीभिः ॥
सायणभाष्यम् (Sayana Commentary)
हे सहसः सूनो बलस्य पुत्र । बलेन हि मथ्यमनोऽग्निर्जायते । मित्रमहोऽनुकूलदीप्तिमन्नग्ने नोऽस्मभ्यं स्तोतृभ्योऽद्यास्मिन्कर्मण्यच्छिद्राच्छेद्यानि शर्म शर्माणि सुखानि यच्छ । देहि । किंच हे ऊर्जो नपात् अन्नस्य पुत्र । भुक्तेनान्नेन जठराग्नेः प्रवर्धनादग्नेरन्न पुत्रत्वम् । एवंविधाग्ने गृणंतं त्वां स्तुवंतमायसीभिर्व्याप्तैः । यद्वा । आयोवद्दृढतरैः । पूर्भिः पालनैरंहसंः पापादुरुष्य । रक्ष । उरुष्यती रक्षाकर्मा (नि ५-२३) इति यास्कः ॥ अच्छिद्रा । शेश्छंदसीति शेर्लोपः । सूनो सहसः । परमपि च्छंदसीति परस्य षष्ठ्यंतस्य पूर्वामंत्रितांगवद्भावे सति पदद्वयसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् । शर्म । सुपां सुलुगिति विभक्तेर्लुक् । ऊर्जो नपात् । न पातयतीति नपात् । नभ्राण्न पादिति नञः प्रकृतिभावः । सुबामंत्रित इति षष्ठ्यंतस्य परांगवद्भावे सति पादादित्वादाष्टमिकनिघाताभावे षाष्ठि कमामंत्रिताद्युदात्तत्वम् । पूर्भिः । पृ पालनपूरणयोरित्यस्मात्संपदादिलक्षणो भावे क्विप् । उत्वदीर्घौ । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ८ ॥