प्रथमं मण्डलम् - सूक्तम् 61

16 ऋचः

ऋषिः: नोधा गौतमः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.61 - सम्पूर्णम्

1 / 16
ऋक्: 1.61.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (16)
1.61.1
अ॒स्मा इदु॒ प्र त॒वसे᳚ तु॒राय॒ प्रयो॒ न ह᳚र्मि॒ स्तोमं॒ माहि᳚नाय ।
ऋची᳚षमा॒याध्रि᳚गव॒ ओह॒मिन्द्रा᳚य॒ ब्रह्मा᳚णि रा॒तत᳚मा ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । प्र । त॒वसे᳚ । तु॒राय᳚ । प्रयः᳚ । न । ह॒र्मि॒ । स्तोम᳚म् । माहि᳚नाय ।
ऋची᳚षमाय । अध्रि᳚॑गवे । ओह᳚म् । इन्द्रा᳚य । ब्रह्मा᳚णि । रा॒त॑त᳚मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मा इदु प्र तवस इति षोडशर्चं चतुर्थं सूक्तम् । नोधस आर्षमैंद्रं त्रैषुभम् । अनुक्रांतं च । अस्मा इदु षोळशेति । अस्य सूक्तस्य नोधा द्रष्टेत्येतद्ब्राह्मणे समाम्नायते । अस्मा इदु प्रतवसे तुरायेति नोधास्त एते प्रातःसवने । ऐ ब्रा ६-१८ । इति ॥ षळ हस्तोत्रियावापवत्सु चतुर्विंशमहाव्रतादिष्वहःसु माध्यंदिने सवने ब्राह्मणाच्छंसिशस्त्रे ब्रह्मणा ते ब्रह्मयुजेत्यस्या आरंभणीयाया ऊर्ध्वमहिनसूक्तसंज्ञॆमेतच्छंसनीयम् । तथा च सूत्रितम् । अस्मा इदु प्र तवसे शासद्वह्निरितीतिरावहीनसूक्ते (आ ७-४) इति । ब्राह्मणं च भवति । त एते प्रातःसवने षळहस्तोत्रियाञ्छस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसंतीति ॥

इदु इति निपातद्वयं पादपूरणे । अथापि पादपूरणाः कमीमिद्वितीतियास्कः । यद्वा । अवधारणार्थम् । तवसे प्रवृद्धाय तुराय त्वरमाणाय । यद्वा । तुर्वित्रे । शत्रूणां हिंसित्रे । माहिनाय गुणैर्महते ऋचीषमाय ऋचासमाय । यादृशी स्तुतिः क्रियते तत्समायेत्यर्थः । अध्रिगवेऽधृतगमनाय । अप्रतिहतगमनायेत्यर्थः । तथा च यास्कः । अधृतगमनकर्मवन्निंद्रोऽप्यध्रिगुरुच्यते (नि ५-११) इति । एवंभूतायास्मा इंद्राय स्तोमं स्तोत्रं प्र हर्मि । प्रहरामि । करोमीत्यर्थः । तत्र दृष्टांतः । प्रयो न । प्रय इत्यन्ननाम । यथा बुभुक्षिताय पुरुषाय कश्चिदन्नं प्रहरति । कीदृशं स्तोमम् । ओहम् । वहनीयम् । प्रापणीयं वा । अत्यंतोत्कृष्टमित्यर्थः । न केवलं स्तोमं किंतर्हि ब्रह्माणि हविर्लक्षणान्यन्नानि । कीदृशानि । राततमा । पूर्वैर्यजमानैरतिशयेन दत्तानि । इंद्रं स्तुत्या हविषा च परिचरेमेति भावः ॥ तुराय । तुर त्वरणे । इगुपधलक्षणः कः । यद्वा । तुर्वी हिंसार्थः । तुर्वतीति तुरः । पचाद्यचि छांदसो वलोपः । हर्मि । हृञ् हरणे । बहुलं छंदसीति शपो लुक् । माहिनाय । मह पूजायामित्यस्मान्महेरिनण् च (उ २-५६) इतीनण्प्रत्ययः । उपधावृद्धिश्च । ऋचीषमाय । ऋचीषम ऋचा समः (नि ६-२३) इति यास्कः । तृतीया तत्कृतेति समासः (पा २-१-३०) तृतीयापूर्वपदप्रकृतिस्वरत्वम् । पैषोदरादित्वादीकारोपजनः । सुषामादित्वात् षत्वम् । केचिदाहुः । ऋच स्तुतावित्यस्मादिगुपधात्किदितीप्रत्ययः । कृदिकारादक्तिन इति ङीष् । ऋची स्तुतिः । तया समः । पूर्ववत् षत्वम् । अस्मिन्मक्षे तृतीयापूर्वपदप्रकृतिस्वरत्वे सति ङीष उदात्तत्वेन भवितव्यम् । तथा च न दृश्यते । तस्मात्स्वरश्चिंतनीयः । यद्वा । दिवोदासादिर्द्रष्टव्यः । अध्रिगवे । अधृतोऽन्येनानिवांतो गौर्गमनं यस्य स तथोक्तः । गोस्त्रियोरुपसर्जनस्य (पा १-२-४८) इति ह्रस्वत्वम् । पृषोदरादित्वादधृतशब्दस्याध्रिभावः । ओहम् । वहतेः कर्मणि घञि छांदसं संप्रसारणम् । यद्वा । तुहिर् दुहिर् उहिर् अर्द न इत्यस्मादोहतेः पूर्ववद्घञ । राततमा । रा दान इत्यस्मान्निष्ठांतादातिशायिनिकस्तमप् । शेश्भंदसीति शेर्लोपः ॥ १ ॥

1.61.2
अ॒स्मा इदु॒ प्रय᳚ इव॒ प्र यं᳚सि॒ भरा᳚म्याङ्गू॒षं बाधे᳚ सुवृ॒क्ति ।
इन्द्रा᳚य हृ॒दा मन᳚सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो᳚ मर्जयन्त ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । प्रयः᳚॑इव । प्र । यं॒सि॒ । भरा᳚मि । आ॒ङ्गू॒षम् । बाधे᳚ । सु॒॑वृ॒क्ति ।
इन्द्रा᳚य । हृ॒दा । मन᳚सा । म॒नी॒षा । प्र॒त्नाय᳚ । पत्ये᳚ । धियः᳚ । म॒र्ज॒य॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आस्मा इदु अस्मा एवेंद्राय । प्रय इत्यन्ननाम । प्रय इवान्नमिव प्रयंसि । प्रयच्छामि । तदेव स्पष्वीक्रियते । बाधे शत्रूणां बाधनाय समर्थं सुवृक्ति सुष्ठ्वावर्जकमांगूषं स्तोत्ररूपमाघोषं भरामि । संपादयामि । अन्येऽपि स्तोतारः । प्रत्नाय पुराणाय पत्ये स्वामिन इंद्राय हृदा हृदयेन मनसा तदंतर्वर्तिनांतःकरणेन मनीषा मनीषया तज्जन्येन ज्ञानेन च धियः स्तुतीः कर्माणि वा मर्जयंत । मार्जयंति । संस्कुर्वंति ॥ प्रयंसि । यम उपरम इत्यस्माल्लट पुरुषव्यत्ययः । बहुलं छंदसीति शपो लुक् । आंगूषम् । आंगूषः स्तोम आघोषः (नि ५-११) इति यास्कः । आञ् पूर्वाद्घुषेर्घञि पृषोदरादित्वाद्घो इत्यस्य गू आदेशः । आङो ङकारस्य लोपाभावश्च । थाथादिनोत्तरपदांतोदात्तत्वम् । बाधे । बाधृ विलोडन इत्यस्मात्कृत्यार्थे तवैकेनिति भावे केन्प्रत्ययः । एजंतत्वादव्ययत्वेन सुपो लुक् । मनीषा । सुपां सुलुगिति तृतीयाया डादेशः पत्ये । पतिः समास एव (पा १-४-८) इति घिसंज्ञायाः समासविषयत्वात् घेर्ङितीति गुणाभावे यणादेशः ॥ २ ॥

1.61.3
अ॒स्मा इदु॒ त्यमु᳚प॒मं स्व॒र्षां भरा᳚म्याङ्गू॒षमा॒स्ये᳚न ।
मंहि᳚ष्ठ॒मच्छो᳚क्तिभिर्मती॒नां सु᳚वृ॒क्तिभि᳚ः सू॒रिं वा᳚वृ॒धध्यै᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । त्यम् । उ॒प॒॑मम् । स्वः॒॑साम् । भरा᳚मि । आ॒ङ्गू॒षम् । आ॒स्ये᳚न ।
मंहि᳚ष्ठम् । अच्छो᳚क्ति॑भिः । म॒ती॒नाम् । सु॒वृ॒क्ति॑भिः᳚ । सू॒रिम् । व॒वृ॒धध्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मा इदु अस्मा एवेंद्राय त्यं तं प्रसिद्ध मुपममुपमानहेतुभूतं स्वर्षां सुष्ठ्वरणीयस्य धनस्य दातारं सूरिं विपश्चितमिंद्रं ववृधध्यै वर्धयितुं सुवृक्तिभिः सुष्ठ्वावर्जकैः । समर्थैरित्यर्थः । मतीनां स्तुतीनां संबंधिभिरच्छोक्तिभिः स्वच्छैर्वचोभिर्मंहिष्ठमतिशयेन प्तवृद्धमेवंलक्षणमांगूषमाघोषमास्येन मुखेन भरामि । करोमीत्यर्थः ॥ उपमम् । उपमीयतेऽनेनेत्युपमः । घञर्थे कविधानमिति करणे कप्रत्ययः । आतो लोप इट चेत्याकारलोपः । स्वर्षाम् । सुपूर्वादर्तेर्विजंतः स्वर् शब्दः । षणु दाने । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । सनोतेरनः (पा ८-३-१०८) इति षत्वम् । भरामि । पादादित्वान्निघाताभावः । अच्छोक्तिभिः । अच्छा उक्तयो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मतीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । ववृधद्यै । वृधु वृद्धावित्यस्मादंतर्भावितण्यर्थात्तुमर्थे सेनेनिति कध्यैप्रत्ययः । कित्त्वाद्गुणाभावः । द्विर्भावश्छांदसः । यद्वा । यङ् लुगंतादस्मिन्प्रत्यय आगमानुशासनस्यानित्यत्वाद्रीगाद्यभावः । अन्येषामपि दृश्यत इति सांहितिकमभ्यासस्य दीर्घत्वम् । प्रत्ययाद्युदात्तत्वं ॥ ३ ॥

1.61.4
अ॒स्मा इदु॒ स्तोमं॒ सं हि᳚नोमि॒ रथं॒ न तष्टे᳚व॒ तत्सि᳚नाय ।
गिर᳚श्च॒ गिर्वा᳚हसे सुवृ॒क्तीन्द्रा᳚य विश्वमि॒न्वं मेधि᳚राय ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । स्तोम᳚म् । सम् । हि॒नो॒मि॒ । रथ᳚म् । न । तष्टा᳚॑इव । तत्॑सि᳚नाय ।
गिरः᳚ । च॒ । गिर्वा᳚हसे । सु॒॑वृ॒क्ति । इन्द्रा᳚य । वि॒श्व॒म्॑इ॒न्वम् । मेधि᳚राय ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मा एवेंद्राय स्तोमं शस्त्ररूपं स्तोत्रं सं हिनोमि । प्रेरयामि । तत्र दृष्टांतः । तत्सिनाय । सिनमित्यन्ननाम । सिनमन्नं भवति सिनाति भूतानीति यास्कः (नि ५-५) तेन रथेन सिनमन्नं यस्य स तथोक्तः । तस्मै रथस्वामिने तष्टेव तष्टा तक्षको रथनिर्माता रथं न । यथा रथं प्रेरयति तद्वत् । इवेत्येतत्पादपूरणम् । तथा गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानायेंद्राय गिरश्च शस्त्रसंबंधिनीः केवला ऋचश्च सुवृक्ति शोभनमावर्जनं यथा भवति तथा प्रेरयामि । तथा मेधिराय मेधाविन इंद्राय विश्वमिन्वं विश्वव्यापकं विश्वैर्व्याप्तम् । सर्वोत्कृष्वं हविश्च सं हि नोमित्यनुषंगः ॥ हिनोमि । हि गतौ वृद्धौ च । स्वादित्वात् । श्नुः । तष्टेव । तक्षो त्वक्षू तनूकरणे । ताच्छीलिकस्तृन् । ऊदित्त्वात्पक्ष इडभावः । स्कोः संयोगाद्योरंते चेति ककारलोपः । नित्त्वादाद्युदात्तत्वम् । तत्सिनाय । शिनशब्दः षिञ् बंधन इत्यस्मादिण् षञ् षेङुष्यविभ्यो नक् (उ ३-२) इति नक् प्रत्ययांशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । गिर्वाहसे । वाहिहाधाञ्भ्यश्चंदसीति वहतेः केवलाद्विहितोऽसु न्प्रत्ययो गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनात्कारकपूर्वस्यापि भवति पूर्वपदप्रकृतिस्वरत्वं च । णिदित्यनुवृत्तेरुपधावृद्थिः । हलि चेति दीर्घाभावश्छांदसः । विश्वमिन्वम् । इवि व्याप्तौ । विश्वमिन्वति व्याप्नोतीति विश्वमिन्वम् । पचाद्यच् । लुगभावश्छांदसः । यद्वा । खङ् प्रत्ययो बहुलवचनादस्मादपि धातोर्द्रष्टव्यः । मेधिराय । मेधा अस्यास्तीति मेधिरः । मेधारथाभ्यामिरनिरचौ पक्तव्यौ । पा ५-२-१०९-३ । इति मत्वर्थीय इरन् । नित्त्वादाद्युदात्तत्वं ॥ ४ ॥

1.61.5
अ॒स्मा इदु॒ सप्ति᳚मिव श्रव॒स्येन्द्रा᳚या॒र्कं जु॒ह्वा॒३॒᳚ सम᳚ञ्जे ।
वी॒रं दा॒नौक᳚सं व॒न्दध्यै᳚ पु॒रां गू॒र्तश्र᳚वसं द॒र्माण᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । सप्ति᳚म्॑इव । श्र॒व॒स्या । इन्द्रा᳚य । अ॒र्कम् । जु॒ह्वा᳚ । सम् । अ॒ञ्जे॒ ।
वी॒रम् । दा॒न॑ओ᳚कसम् । व॒न्दध्यै᳚ । पु॒राम् । गू॒र्त॑श्र᳚वसम् । द॒र्माण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मा एवेंद्रायार्कं स्तुतिरूपं मंत्रं श्रवस्या श्रवस्ययान्नेच्छया । अन्नलाभायेत्यर्थः । जुह्वाह्वानसाधनेन वागिंद्रयेण समंजे । समक्तं करोमि । एकीकरोमीत्यर्थः । तत्र दृष्टांतः । सप्तिमिव । यथान्नलाभाय गंतुकामः पुमानश्वं रथेनैकीकरोति तद्वत् । एकीकृत्य च वीरं शत्रुक्षेपणकुशलं दानौकसं दानानामेकनिलयं गूर्तश्रवसं प्रशस्यान्नं पुरामसुरपुराणां दर्माणं विदारयितारम् । एवंगुणविशिष्टमिंद्रं वंदध्यै वंदितुं स्तोतुं प्रवृत्तोऽस्मीति शेषः ॥ सप्तिमिव । षप समावाये । समवैति रथेनैकीभवतीति सप्तिरश्वः । वसस्तिप् (उ ४-१७९) इति विधीयमानस्तिप् प्रत्ययो बहुलवचनादस्मादपि धातोर्भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । इवेन समास उक्तः । श्रवस्या । श्रवस् शब्दात्सुप आत्मनः क्यच् । क्यजंताद्धातोर्भावे अ प्रत्ययात् (पा ३-३-१०२) इत्यकारप्रत्ययः । ततष्वाप् । सुपां सुलुगिति तृतीयाया डादेशः । उदात्तनिवृत्तस्वरेण तस्योदात्तत्वम् । अर्कम् । ऋच स्तुतौ । ऋच्यते स्तूयतेऽनेनेत्यर्को मंत्रः । पुंसि संज्ञायां घः प्रायेणेति करणे घप्रत्ययः । चचोः कु घिण्ण्यतोरिति कुत्वम् । लघूपधगुणः । प्रत्ययस्वरः । जुह्वा । बहुलं छंदसीति कृतसंप्रसारणस्य ह्वेञो हुवः हुवःश्लुवच्च (उ २-६०) इति क्विप् । धातोर्दिर्घश्च । धातुस्वरेणांतोदाश्तत्वम् । तृतीयैकवचन उदात्तस्वरितयोर्यण इति स्वरितत्वम् । उदात्तयणो हल्पूर्वादित्यस्य विभक्त्युदात्तत्वस्य नोङ् धात्वोः (पा ६-१-१७५) इति प्रतिषेधः । अंजे । अंजू व्यक्तिम्रक्षणकांतिगतिषु । व्यत्ययेनात्मनेपदम् । वंदध्यै । वदि आभिवादनस्तुत्योः । तुमर्थे सेसेनिति कध्यैप्रत्ययः । गूर्तश्रवसम् । गृ शब्दे । निष्ठायां श्र्युकः कितीतिट् प्रतिषेधः । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । नसत्तनिषत्तेत्यादौ (पा ८-२-६१) निपातनान्निष्ठानत्वाभावः । गूर्तं श्रवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । दर्माणम् । दृ विदारणे । आन्येभ्योऽपि दृश्यंत इति मनिन् । नेड्वति कृतीतीट्प्रतिषेधः । व्यत्ययेन प्रत्ययाद्युदात्तत्वम् । यद्वा । औणादिको मनिप्रत्ययो द्रष्टवैः ॥ ५ ॥

1.61.6
अ॒स्मा इदु॒ त्वष्टा᳚ तक्ष॒द्वज्रं॒ स्वप᳚स्तमं स्व॒र्यं१॒᳚ रणा᳚य ।
वृ॒त्रस्य᳚ चिद्वि॒दद्येन॒ मर्म᳚ तु॒जन्नीशा᳚नस्तुज॒ता कि᳚ये॒धाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । त्वष्टा᳚ । त॒क्ष॒त् । वज्र᳚म् । स्वपः᳚॑तमम् । स्व॒र्य᳚म् । रणा᳚य ।
वृ॒त्रस्य᳚ । चि॒त् । वि॒दत् । येन᳚ । मर्म᳚ । तु॒जन् । ईशा᳚नः । तु॒ज॒ता । कि॒ये॒धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वष्टा विश्वकर्मास्मा इदु अस्मा एवेंद्राय वज्रं वर्जकमायुधं रणाय युद्थार्थं तक्षत् । तीक्ष्णमकरोत् । कीदृशं वज्रम् । स्वपस्तममतिशयेन शोभनकर्माणं स्वर्यं सुष्ठु शत्रुषु प्रेर्यं यद्वा स्तुत्यम् । तुजन् शत्रून्हिंसन् ईशान ऐश्वर्यवान् कियेधा । बलवान् एवंगुणविशिष्ट इंद्रो वृत्रस्य चित् आवरकस्यासुरस्य मर्म मर्मस्थानं तुजता हिंसता येन वज्रेण विदत् । प्राहार्षीदित्यर्थः ॥ स्वपस्तमम् । शोभनमपः कर्म यस्यासौ । अतिशयेन स्वपाः स्वपस्तमः । तमपः पित्त्वादनुदात्तत्वम् । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । स्वर्यम् । स्वर्यं ततक्ष । ऋग्वे १-३३-२ । इत्यत्रोक्तम् । विदत् । विद्लृलाभे । लैदित्तात् च्लेरङादेशः । बहुलं छंदस्यमाङ् योगेऽपीत्यडभावः । यद्वृत्तयोगादनिघातः । तुजन् । तुज हिंसायाम् । शपि प्राप्ते व्यत्ययेन शः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः । ईशानः । ईश ऐश्वर्ये । शानच्यदादित्वाच्छपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । तुजता । शतुरनुम इति विभक्तेरुदात्तत्वम् । कियेधाः अत्र निरुक्तम् । कियेधाः क्रियद्धा इति वा क्रममाणदा इति वेति (नि ६-२०) अस्यायमभिप्रायः । कियत् किंपरिमाणमित्यस्य बलस्य तादृशं बलं दधाति धारयतीति कियद्धाः । यःकोऽप्यस्य बलस्येयत्तां न जानातीत्यर्थः । यद्वा । क्रममाणमाक्रममाणं परेषां बलं धारयति निवारयतीति क्रममाणधाः । उभयत्रापि पृषोदरादित्वात्पूर्वपदस्य कियेभावः । दधातेर्विच् ॥ ६ ॥

1.61.7
अ॒स्येदु᳚ मा॒तुः सव᳚नेषु स॒द्यो म॒हः पि॒तुं प᳚पि॒वाञ्चार्वन्ना᳚ ।
मु॒षा॒यद्विष्णु᳚ः पच॒तं सही᳚या॒न्विध्य᳚द्वरा॒हं ति॒रो अद्रि॒मस्ता᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ऊं॒ इति᳚ । मा॒तुः । सव᳚नेषु । स॒द्यः । म॒हः । पि॒तुम् । प॒पि॒॑वान् । चारु᳚ । अन्ना᳚ ।
मु॒षा॒यत् । विष्णुः᳚ । प॒च॒तम् । सही᳚यान् । विध्य᳚त् । व॒रा॒हम् । ति॒रः । अद्रि᳚म् । अस्ता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदु इत्येतन्निपातद्वयं पादपूरणम् । यद्वावधारणार्थम् । मातुर्वृष्टिद्वारेण सकलस्य जगतो निर्मातुर्महो महतोऽस्य यज्ञस्य सवनेष्ववयवभूतेषु प्रातःसवनादिषु त्रिषु सवनेषु पितुं सोमलक्षणमन्नं सद्यः पपिवान् । यदाग्नौ हूयते तदानीमेव पानं कृतवानित्यर्थः । तथा चार्वन्ना चारूणि शोभनानि धानाकरंभादिहविर्लक्षणान्यन्नानि भक्षितवानिति शेषः । किंच विष्णुः सर्वस्य जगतो व्यापकः पचतं परिपक्वमसुराणां धनं यदस्ति तन्मुषायत् अपहरन् सहीयान् अतिशयेन शत्रूणामभिभविताद्रिमस्ताद्रेर्वजस्य क्षेपकः । एवंभूत इंद्रस्तिरः । सत इति प्राप्तस्य (नि ३-२०) इति यास्कः । तिरः प्राप्तः सन् वराहं मेघं विध्यत् । अताडयत् । यद्वा । विष्णुः सुत्यादिवसात्मको यज्ञः । यज्ञो देवेभ्यो निलाय विष्णुरूपं कृत्वेत्याम्नानात् । स विष्णुः पचतं परिपक्वमसुरधनं यत्तन्मुषायत् । अचूचुरत् । तदनंतरम् । दीक्षोपसदात्मनां दुर्गरूपाणां सप्तानामह्नां परस्तादासीत् अद्रिमस्ता सहीयानिंद्रो दुर्गाण्यतीत्य तिरः प्राप्तः सन् वराहमुत्कृष्टदिवसरूपं तं यज्ञं विध्यत् । तथा च तैत्तिरीयकम् । वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद्वित्वं वेद्यमसुराणां बिभर्तीति । स दर्भवुजीलमुद्धृह्य सप्त गिरीन्बित्त्वा तमहन्निति च । तै सं ६-२-४-२, ३ ॥ महः । महतः । अच्छब्दलोपश्छांदसः । यद्वा । मह इत्येतत्पितुविशेणम् । महः प्रशस्तं पितुमित्यर्थः । पपिवान् । पिबतेर्लिटः क्वसुः । वस्वेकाजाद्घसामितीडागमः । आतो लोप इटि चेत्याकारलोपः । प्रत्ययस्वरः । चारु । सुपां सुलुगिति विभक्तेर्लुक् । मुषायत् । मुष स्तेये । घञर्थे कविधानमिति भावे कप्रत्ययः । मुषमात्मन इच्छतिसुप आत्मनः क्यच् । न छंदस्यपुत्रस्येतीत्ववद्दीर्घस्यापि प्रतिषेधे व्यत्ययेन दीर्घः । अस्मात्क्यजंताल्लटः शतृ । आगमानुशासनस्यानित्यत्वान्नुमभावः । द्वितीयपक्षे तुक्यजंताल्लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । अत्र स्तेयेच्छया तदुत्तरभाविनी क्रिया लक्ष्यते । पचतम् । भृमृदृशीत्यादिना पचतेरतच्प्रत्ययः । चित्त्वादंशोदात्तत्वम् । विध्यत् । व्यध ताडने । लङि दिवातित्वात् श्यन् । तस्य ङित्त्वाद्ग्रहिज्यादिना संप्रसारणम् । श्यनो नित्त्वादाद्युदात्तत्वम् । पादादित्वान्निघाताभावः । वराहम् । वरमुदकमाहारो यस्य । यद्वा । वरमाहरतीति वराहारः सन् पृषोदरादित्वाद्वराह इत्युच्यते । आत्र निरुक्तम् । वराहो मेघो भवति वराहारः । वरमाहारमाहार्षीरिति च ब्राह्मणमिति (नि ५-४) यज्ञपक्षे तु वरं च तदहो वराहः । राजाहःसखिभ्यः (पा ५-४-९१) इति समासांतष्टच् प्रत्ययः । चित्त्वादंतोदात्तत्वम् । अस्ता । असु क्षेपण इत्यस्मात्साधुकारिणि तृन् (पा ३-२-१३५) इडभावश्छांदसः । न लोकाव्ययेति षष्ठीप्रतिषेधः ॥ ७ ॥

1.61.8
अ॒स्मा इदु॒ ग्नाश्चि᳚द्दे॒वप᳚त्नी॒रिन्द्रा᳚या॒र्कम᳚हि॒हत्य᳚ ऊवुः ।
परि॒ द्यावा᳚पृथि॒वी ज᳚भ्र उ॒र्वी नास्य॒ ते म᳚हि॒मानं॒ परि᳚ ष्टः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । ग्नाः । चि॒त् । दे॒व॑प᳚त्नीः । इन्द्रा᳚य । अ॒र्कम् । अ॒हि॒॑हत्ये᳚ । ऊ॒वु॒रित्यू᳚वुः ।
परि᳚ । द्यावा᳚पृथि॒वी इति᳚ । ज॒भ्रे॒ । उ॒र्वी इति᳚ । न । अ॒स्य॒ । ते इति᳚ । म॒हि॒मान᳚म् । परि᳚ । स्त॒ इति᳚ स्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मा एवेंद्रायाहिहत्येऽहेर्वृत्रस्य हनने निमित्त भूते सति ग्नाश्चित् गमनस्वभावा अपि स्थिता देवपत्नीर्देवानां पालयित्र्यो गायत्र्याद्या देवता अर्कमर्चनसाधनं स्तोत्रमूवुः । समतन्वत । चक्रुरित्यर्थः । स चेंद्र उर्वी विस्तृते द्यावापृथिवी द्यावापृथिव्यौ परि जभ्रे । स्वतेजसा परिजहार । अतिचक्रामेत्यर्थः ॥ ऊवुः । वेञ् तंतुसंताने । लिट वेञो वयिः (पा २-४-४१) लिटः कित्त्वाद्यजादित्वेन संप्रसारणे क्रियमाणे यकारस्य लिट वयो यः (पा ६-१-३८) इति प्रतिषेधाद्वकारस्य संप्रसारणं परपूर्वत्वं द्विर्वचनादि । वश्चास्यान्यतरस्यां किति (पा ६-१-३९) इति यकारस्य वकारादेशः । जभ्रे । हृञ् हरणे । लिट ञित्त्वात्कर्त्रभिप्राय आत्मनेपदम् । हृग्रहोर्भ इति भत्वम् । उर्वी । उरुशब्धाद्वोतो गुणवचनादिति ङीष् । वा छंदसीति पूर्वसवर्णदीर्घत्वं ॥ ८ ॥

1.61.9
अ॒स्येदे॒व प्र रि᳚रिचे महि॒त्वं दि॒वस्पृ᳚थि॒व्याः पर्य॒न्तरि᳚क्षात् ।
स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम᳚त्रो ववक्षे॒ रणा᳚य ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे॒ । म॒हि॒॑त्वम् । दि॒वः । पृ॒थि॒व्याः । परि᳚ । अ॒न्तरि᳚क्षात् ।
स्व॒॑राट् । इन्द्रः᳚ । दमे᳚ । आ । वि॒श्व॑गू᳚र्तः । सु॒॑अ॒रिः । अम᳚त्रः । व॒व॒क्षे॒ । रणा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येदेव । इदिति पादपूरणः । अस्यैवेंद्रस्य महित्वं माहात्म्यं प्ररिरिचे । अतिरिच्यते । अधिकं भवतीत्यर्थः । अत्रोपसर्गो धात्वर्थस्य निवृत्तिमाचष्टे । यथा प्रस्मरणं प्रस्थानमिति । कुतः सकाशात्प्ररिरिच इत्यत आह । दिवो द्युलोकात् पृथिव्या भूलोकात् अंतरिक्षात् द्यावापथिव्योर्मध्ये वर्तमानादंतरिक्षलोकाच्च । पर्युपर्यर्थः । त्रिन्लोकानतीत्योपरि प्ररिरिच इत्यर्थः । दमे दमयितव्ये विषये स्वराट् स्वेनैव तेजसा राजमानो विश्वगूर्तो विश्वस्मिन्सर्वस्मिन्कार्य उद्गूर्णः समर्थः । यद्वा । विश्वं सर्वमायुधं गूर्तमुद्यतं यस्य स तथोक्तः । स्वरिः । शोभनशत्रुकः । शोभने शत्रौ हंतव्ये सति हंता वीर्यवत्तम इति गम्यते । यथाकवारिं दिव्यं शासमिंद्रम् । ऋग्वे ३-४७-५ । इति । अकुत्सितारिमिति हि तस्यार्थः । आमत्रो यद्धादिषु गमनकुशलः । मात्रयेयत्तया रहितो वा । अमत्रोऽमात्रो महान्भवत्यभ्यमितो वेति यास्कः (नि ६-२३) एवं भूत इंद्रो रणायरणं युद्धमा ववक्षे । आवहति । मेघान्प्रापयति । मेघैः परस्परयुद्धं कारयित्वा वृष्टिं चकारेति भावः । यद्वा । युद्धाय स्वकीयान्भटान् गमयति ॥ अस्य । ऊडिदमिति विभक्तेरुदात्तत्वम् । रिरिचे । रिचिर् विरेचने । छंदसि लुङ् लङ् लिट इति वर्तमाने कर्मणि लिट् । पृथिव्याः । उदात्तयण इति विभक्तेरुदात्तत्वम् । स्वराट् राजृदीप्तावित्यस्मात्सत्सूद्विषेति क्विप् । व्रश्चादिना षत्वे जश्त्वम् । दमे । दम उपशम इत्यस्मात्कर्मणि घङि नोदात्तोपदेशस्य मांतस्यानाचमेः (पा ७-३-३४) इति वृद्धिप्रतिषेधः । घञो ञित्त्वादाद्युदात्तत्वम् । विश्वगूर्तः । गृ निगरणे । अस्मानिष्ठायां श्र्युकः कतीतीट्ट्रतिषेधः । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । यद्वा । गूरी उद्यमे । अस्मान्निष्ठा । नसत्तनिषत्तेत्यादौ निपातनान्निष्ठानत्वाभावः । तत्पुरुषपक्षे मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । बहुव्रीहिपक्षे तु बहुव्रीहौ विश्वं संज्ञायामित्यसंज्ञायामपि पूर्वपदांतोदात्तत्वम् । अमत्रः । अम गत्यादिषु । अमिनक्षियजिबंधीत्यादिनौणादिकोऽत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ववक्षे । वहेर्लेट सिब्बहुलं लेटति सिप् । बहुलं छंदसीति शपः श्लुः । ढत्वषत्वकत्वानि । लोपस्त आत्मनेपदेष्विति तलोपः रणाय । क्रियाग्रहणं कर्तव्यमिति कर्मणः । संप्रदानत्वाच्चतुर्थी । यद्वा । गत्यर्थकर्मणि (पा २-३-१२) इति चतुर्थी ॥ ९ ॥

1.61.10
अ॒स्येदे॒व शव᳚सा शु॒षन्तं॒ वि वृ᳚श्च॒द्वज्रे᳚ण वृ॒त्रमिन्द्र᳚ः ।
गा न व्रा॒णा अ॒वनी᳚रमुञ्चद॒भि श्रवो᳚ दा॒वने॒ सचे᳚ताः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ए॒व । शव᳚सा । शु॒षन्त᳚म् । वि । वृ॒श्च॒त् । वज्रे᳚ण । वृ॒त्रम् । इन्द्रः᳚ ।
गाः । न । व्रा॒णाः । अ॒वनीः᳚ । अ॒मु॒ञ्च॒त् । अ॒भि । श्रवः᳚ । दा॒वने᳚ । स॑चे᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यैवेंद्रस्य शवसा बलेन शुषंतं शुष्यंतं वृत्रमिंद्रो वज्रेण वि वृश्चत् । व्यच्छिनत् । तथा गा न चोरैरपहृता गाव इव व्राणा वृत्रेणावृता आवनी रक्षणहेतुभूता अपोऽमुंचत् । अवर्षित् । तथा दावने हविर्दात्रे यजमानाय सचेतास्तेन यजमानेन समानचित्तः सन् श्रवः कर्मफलभूतमन्नमभ्याभिमुख्येन ददातीति शेषः ॥ शुषंतम् । शुष शोषणे । श्यनि प्राप्ते व्यत्ययेन शः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे । विकरणस्वर एव शिष्यते । व्राणाः । वृञ् वरणे । कर्मणि लटः शानचि बहुलं छंदसीति यको लुक् । शानचो ङित्त्वाद्गुणाभावे यणादेशः । अवनीः । अवतेः करणेऽर्तिसृध्यधमीत्यादिना (उ २-१०३) अनिप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । दावने । आतो मनिन्निति वनिप् । चतुर्थ्येकवचनेऽल्लोपाभावश्छांदसः ॥ १० ॥

1.61.11
अ॒स्येदु᳚ त्वे॒षसा᳚ रन्त॒ सिन्ध᳚व॒ः परि॒ यद्वज्रे᳚ण सी॒मय᳚च्छत् ।
ई॒शा॒न॒कृद्दा॒शुषे᳚ दश॒स्यन्तु॒र्वीत᳚ये गा॒धं तु॒र्वणि᳚ः कः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ऊं॒ इति᳚ । त्वे॒षसा᳚ । र॒न्त॒ । सिन्ध᳚वः । परि᳚ । यत् । वज्रे᳚ण । सी॒म् । अय᳚च्छत् ।
ई॒शा॒न॒॑कृत् । दा॒शुषे᳚ । द॒श॒स्यन् । तु॒र्वीत᳚ये । गा॒धम् । तु॒र्वणिः᳚ । क॒रिति᳚ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यैवेंद्रस्य त्वेषसा दीप्तेन बलेन सिंधवः समुद्राः । यद्वा । गंगाद्याः सप्त नद्यो रंत । स्वे स्वे स्थाने रमंते । यद्यस्मादयमिंद्रो वज्रेण सीमेनान्सिंधून्वज्रेण पर्ययच्छत् । परितो नियमितवान् । आपि च ईशानाकृत् वृत्रादिशत्रुवधेनात्मानमैश्वर्यवंतं कुर्वन्निंद्रो दाशुषे हविर्दत्तवते यजमानाय फलं दशस्यस् प्रयच्छन् तुर्वणिस्तूर्णसंभजनः । तुर्वणिस्तूर्णवनिरिति यास्कः (नि ६-१४) यद्वा । तुर्विता शत्रूणां हिंसिता । एवंभूत इंद्रस्तुर्वीतय एतत्संज्ञायोदके निमग्नाय ऋषये गाधमवस्थानयोग्यं धिष्ण्यप्रदेशं कः । अकार्षीत् ॥ रंत । रमु क्रीडायाम् । छांदसे । लङि बहुवचने बहुलं छंदसीति शपो लुक् । धातोरंत्यलोपश्छांदसः । अयच्छत् । यम उपरमे । इषुगमियमां छ इति छत्वम् । कः । करोतेर्लुङि मंत्रे घसह्वरणशेत्यादिना (पा २-४-८०) च्लेर्लुक् । गुणः । हल् ङ्यादिना तलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ११ ॥

1.61.12
अ॒स्मा इदु॒ प्र भ᳚रा॒ तूतु᳚जानो वृ॒त्राय॒ वज्र॒मीशा᳚नः किये॒धाः ।
गोर्न पर्व॒ वि र᳚दा तिर॒श्चेष्य॒न्नर्णां᳚स्य॒पां च॒रध्यै᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । प्र । भ॒र॒ । तूतु᳚जानः । वृ॒त्राय᳚ । वज्र᳚म् । ईशा᳚नः । कि॒ये॒धाः ।
गोः । न । पर्व᳚ । वि । र॒द॒ । ति॒र॒श्चा । इष्य᳚न् । अर्णां᳚सि । अ॒पाम् । च॒रध्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तूतुजान इति क्षिप्रनाम । तूतुजानस्त्वरमाणः । यद्वा । शत्रून्हिंसन् । ईशान ईश्वरः सर्वेषां कियेधाः कियतोऽनवधृतपरिमाणस्य बलस्य धाता । यद्वा । क्रममाणं शत्रुबलं दधात्यवस्थापयतीति क्रियेधाः । हे इंद्र एवंभूतस्त्वमस्मै वृत्राय वज्रं प्रभर । इमं वृत्रं वज्रेण प्रहरेत्यर्थः । प्रहृत्य चार्णांसि वृष्टिजलानीष्यन् तस्माद्वृत्राद्गमयंस्त्वमपां चरध्यै तासामपां चरणाय भूप्रदेशं प्रति गमनाय तस्य वृत्रस्य मेघरूपस्य पर्व पर्वाण्यवयवसंधीन् तिरश्चातिर्यगवस्थितेन वज्रेण वि रद । विलिख । छिंधीत्यर्थः । तत्र दृष्टांतः । गोर्न । यथा मांसस्य विकर्तारो लौकिकाः पुरुषाः पशोरवयवानितस्ततो विभजंति तद्वत् । आत्र निरुक्तम् । अस्मै प्रहर तूर्णं त्वरमाणो व्रत्राय वज्रमीशानः कियेधाः कियद्धा इति वा क्रममाणधा इति वा गोरिव पर्वाणि विरद मेघस्येष्यन्नर्णांस्यपां चरणाय (नि ६-२०) इति ॥ भर । हृग्रहोर्भ इति भत्वम् । द्व्यचोऽतस्तिङ इति सांहितिको दीर्घः । ततूजानः । तुज हिंसायाम् । कानचि तुजादीनां दीर्घोऽभ्यासस्येत्यभ्यासस्य दीर्घत्वम् । छंदस्युभयथेति कानचः सार्वधातुकत्वे सत्यभ्यस्तानामादिरित्याद्युदात्तत्वम् । कियेधाः । तुजता कियेधा इत्यत्रोक्तम् । रद । रद विलेखने । तिङ्ङतिङ इति निघातः । तिरश्चा । तिरोऽंचतीति तिर्यङ् । ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । तृतीयैकवचने भसंज्ञायामच इत्यकारलोपः । श्चुत्वेन सकारस्य शकारः । उदात्त निवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । इष्यन् । इष गतावित्यस्मादंतर्भावितण्यर्थाच्छतरि दिवादिभ्यः श्यन् । तस्य नित्त्वादाद्युदात्तत्वम् । चरध्यै । तुमर्थे सेसेनिति चरतेरध्यैप्रत्ययः ॥ १२ ॥

1.61.13
अ॒स्येदु॒ प्र ब्रू᳚हि पू॒र्व्याणि᳚ तु॒रस्य॒ कर्मा᳚णि॒ नव्य᳚ उ॒क्थैः ।
यु॒धे यदि᳚ष्णा॒न आयु᳚धान्यृघा॒यमा᳚णो निरि॒णाति॒ शत्रू᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ऊं॒ इति᳚ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि᳚ । तु॒रस्य᳚ । कर्मा᳚णि । नव्यः᳚ । उ॒क्थैः ।
यु॒धे । यत् । इ॒ष्णा॒नः । आयु᳚धानि । ऋ॒घा॒यमा᳚णः । नि॒॑रि॒णाति᳚ । शत्रू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्थैः शस्त्रैर्नव्यः स्तुत्यो य इंद्र अस्येदु अस्यैव तुरस्य युद्धार्थं त्वरमाणस्येंद्रस्य पूर्व्याणि पुराणानि कर्माण्येतत्कृतानि बलकर्माणि हे स्तोतः प्र ब्रूहि । प्रशंस । यद्यदा युधे योधनायायुधानि वज्रादीनीष्णान आभीक्ष्णेन प्रेरयन् शत्रूनृघायमाणो हिंसंश्चेंद्रो निरिणाति अभिमुखं गच्छति । तदानीं प्र बूहीति पूर्वेण संबंधः । पूर्व्यमिति पुराणनाम । पूर्व्यमह्नायेति पुराणनामसु पाठात् ॥ तुरस्य । तुर त्वरणे । इगुपधलक्षणः कः । नव्यः । णु स्तुतौ । आचो यदिति यत् । गुणः । धातोस्तन्नि मित्तस्यैवेत्यवादेशः । इष्णानः । आभीक्ष्ण्ये । क्रैयादिकः । व्यत्ययेनात्मनेपदम् । शानचश्चित्त्वादंतोदात्तत्वम् । ऋघायमाणः । नहि त्वा रोदसी उभे ऋघायमाणम् । ऋग्वे १-१०-८ । इत्यत्र व्युत्पादितम् । निरिणाति । री गतिरेषणयोः क्र्यादिभ्यः श्ना । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः शिष्यते । तिङि चोदात्तवतीति गतेर्निर्घातः । यद्वृत्तयोगात्तिङ्ङतिङ इति निघाताभावः ॥ १३ ॥

1.61.14
अ॒स्येदु᳚ भि॒या गि॒रय᳚श्च दृ॒ळ्हा द्यावा᳚ च॒ भूमा᳚ ज॒नुष᳚स्तुजेते ।
उपो᳚ वे॒नस्य॒ जोगु᳚वान ओ॒णिं स॒द्यो भु᳚वद्वी॒र्या᳚य नो॒धाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ऊं॒ इति᳚ । भि॒या । गि॒रयः᳚ । च॒ । दृ॒ळ्हाः । द्यावा᳚ । च॒ । भूम᳚ । ज॒नुषः᳚ । तु॒जे॒ते॒ इति᳚ ।
उपो॒ इति᳚ । वे॒नस्य᳚ । जोगु᳚वानः । ओ॒णिम् । स॒द्यः । भु॒व॒त् । वी॒र्या᳚य । नो॒धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यैवेंद्रस्य भिया पक्षज्छेदभयेन गिरयः पर्वता अपि दृळ्हाः । निश्चलाः स्वस्वदेशेऽवतिष्ठंते । जनुषः प्रादुर्भूतादस्मादेवेंद्राद्भीत्या द्यावा भूमा च द्यावापृथिव्यावपि तुजेते । तुजिर्हिंसार्थोऽप्यत्र कंपने द्रष्टव्यः । कंपेते इत्यर्थः । किंच वेनस्य कांचस्यास्यौणिं दुःखस्यापनायकं रक्षणमुपो जोगुवानोऽनेकैः सूक्तैः पुनः पुनरुपशब्दयन् । उपश्लोकयन्नित्यर्थः । एवं भूतोनोधा ऋषिः सद्यस्तदानीमेव वीर्याय भुवत् । वीर्यवानभवत् ॥ द्यावा च भूमा । द्यावा भूमेत्यनियोर्मध्ये चशब्दस्य पाठश्छांदसः । दिवो द्यावेति दिव् शब्दस्य द्यावादेशः । सुपां सुलुगिति विभक्तेर्डादेशः । देवताद्वंद्वे चेत्युभयपद प्रकृतिस्वरत्वम् । पदद्वयप्रसिद्धिरपि सांप्रदायिकी । जनुषः । जनी प्रादुर्भावे । जनेरुसिः (उ २-११६) इत्यौणादिक उसिप्रत्ययः । जोगुवानः । गुङ् अव्यक्ते शब्दे अस्माद्यङ् लुगंताद्व्यत्ययेन शानच् । अदादिवच्चेति वचनाच्छपो लुक् । उवङादेशः । अभ्यस्तानामादिरिस्याद्युदात्तत्वम् । ओणिम् । ओणृ अपनयने । अस्मादौणादिक इ प्रत्ययः । भुवत् । भवतेर्लेट्यडागमः । बहुलं छंदसीति शपो लुक् । भूसुवोस्ति ङीति गुणप्रतिषेधः । नोधाः । नोधा ऋषिर्भवति नवनं दधातीति यास्कः (नि ४-१६) तस्माद्धाञोऽसुन् नवशब्दस्य नोभावश्च ॥ १४ ॥

1.61.15
अ॒स्मा इदु॒ त्यदनु᳚ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा᳚नः ।
प्रैत᳚शं॒ सूर्ये᳚ पस्पृधा॒नं सौव᳚श्व्ये॒ सुष्वि᳚माव॒दिन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । इत् । ऊं॒ इति᳚ । त्यत् । अनु᳚ । दा॒यि॒ । ए॒षा॒म् । एकः᳚ । यत् । व॒व्ने । भूरेः᳚ । ईशा᳚नः ।
प्र । एत᳚शम् । सूर्ये᳚ । प॒स्पृ॒धा॒नम् । सौव᳚श्व्ये । सुष्वि᳚म् । आ॒व॒त् । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एक एक एव शत्रूञ्ङेतुं समर्थो भूरेर्बहुविधस्य धनस्येशानः स्वामीयत्सोत्रं वव्ने ययाचे एषां स्तोतृणां संबंधि । यद्वा । विभक्ति व्यक्तयः एतैस्त्यत् तत्प्रसिद्धं स्तोत्रमस्मा इंद्रायानु दायि । आकारीत्यर्थः । उत्तरार्धस्येयमाख्यायिका । स्वश्वो नाम कश्चिद्राजा । स च पुत्रकामः सूर्यमुपासां चक्रे । तस्य च सूर्य एव पुत्रो बभूव । तेन सहैतशनाम्नो महर्षेर्युद्धं जातमिति तदेतदिहोच्यते ॥ आयमिंद्रः सौवश्व्ये स्वश्वपुत्रे सूर्ये पस्पृधानं स्पर्धमानं सुष्विंसोमानामभिषोतारमेतशमेतत्संज्ञकमृषिं प्रावत् । प्रारक्षत् ॥ दायि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । वव्ने । वनु याचने । लिट व्यत्ययेनोपधालोपः । पस्प्यधानम् । स्पर्ध संघर्षे । आस्माल्लिटः कानच् । द्विर्वचने शर्पूर्वाः खय इति पकारः शिष्यते । धात्वकारस्य लोपो रेफस्य संप्रसारणं च पृषोदरादित्वात् । चित्त्वादंतोदात्तत्वम् । सौवश्व्ये । स्वश्व इति जनपदशब्दः क्षत्रिये संज्ञात्वेन वर्तते । वा नामधेयस्य वृद्धसंज्ञा वक्तव्या । पा १-१-७३-५ । इति वृद्धसंज्ञायां वृद्धेत्कोसलाजादाञ्ञ्यङ् (पा ४-१-१७१) इत्यपत्यार्थे ञ्यङ् प्रत्ययः । न य्वाभ्यां पदांताभ्याम् (पा ७-३-३) इति वृद्धेः प्रतिषेध ऐजागमश्च । ञित्त्वादाद्युदात्तत्वम् । सुष्विम् । षुञ् आभिषवे । उत्सर्गश्छंदसि । पा ३-२-१७१-२ । इत्यस्मात्किन्प्रत्ययः । लिड्वद्भावात् द्विर्भावः । यणादेशः । उवङादेशाभावश्छांदसः ॥ १५ ॥

1.61.16
ए॒वा ते᳚ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा᳚णि॒ गोत᳚मासो अक्रन् ।
ऐषु᳚ वि॒श्वपे᳚शसं॒ धियं᳚ धाः प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
ए॒व । ते॒ । हा॒रि॒॑यो॒ज॒न॒ । सु॒॑वृ॒क्ति । इन्द्र᳚ । ब्रह्मा᳚णि । गोत᳚मासः । अ॒क्र॒न् ।
आ । ए॒षु॒ । वि॒श्व॑पे᳚शसम् । धिय᳚म् । धाः॒ । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हर्योरश्वयोर्योजनं यस्मिन्रथे स तथोक्तः । तस्य स्वामित्वेन संबंधी हारियोजनः । हे हारियोजनेंद्र गोतमासो गोतमगोत्रोत्पन्ना ऋषयः सुवृक्ति सुष्ठ्वावर्जकान्यभिमुखीकरणकुशलानि ब्रह्माणि स्तुतिरूपाणि मंत्रजातानि ते तवैवाक्रन् । अकृषत । एषु स्तोतृषु विश्वपेशसं बहुविधरूपयुक्तं धियं धाः । धिया लभ्यत्वाद्धीर्धनमुच्यते । यद्वा । धीशब्दः कर्मवचनः । पश्वादिबहुविधरूपं धनमग्निष्टोमादिकं बहुविधरूपं कर्म वा धाः । धेहि । स्थापय । प्रातरिदानीमिव परेद्युरपि प्रातःकाले धियावसुर्बुद्ध्या कर्मणा वा प्राप्तधन इंद्रो मक्षु शीघ्रं जगम्यात् । अस्मद्रक्षणार्थमागच्छतु ॥ एव । निपातस्य चेति संहितायां दीर्घः । सुवृक्ति । सुपां सुलुगिति शसो लुक् । आक्रन् । करोतेर्लुङि मंत्रे घसह्वरेत्यादिना च्लेर्लुक् । अंतादेशः । तस्य ङित्त्वाद्गुणाभावे यणादेशः । इतश्चेतीकारलोपे संयोगांतलोपे चाडागमः । धाः । छंदसि लुङ् लङ् लिट इति लोडर्थे लुङिगातिस्थेति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ १६ ॥