म॒त्स॒रास॒स्तदो᳚कसः ॥
पदपाठः (Word-by-word)
म॒त्स॒रासः᳚ । तत्॑ओ᳚कसः ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र ऋतुना सह सोमं पिब । इंदवः पीयमानाः सोमस्त्वा त्वामा विशंतु । कीदृशाः । मत्सरासस्तृप्तिकराः तदोकसस्तन्निवासाः । सर्वदा त्वदुदरस्थायिन इत्यर्थः ॥ इंद्र । षाष्ठिकमामंत्रिताद्युदात्तत्वम् । सोमं अर्तिस्तुस्वित्या दिना मन् । नित्त्वादाद्युदात्तः । पिब । पिबा मित्रस्य ऋग्वे १-१४-१० । इत्यत्रोक्तम् । अस्य त्वा विशंत्वित्युत्तरवाक्यगताख्यातार्थेन सह समुच्चयार्थश्चशब्दो लुप्तः । अतश्चादिलोपे विभाषेतीयं प्रथमा तिङ्वभक्तिर्न निहन्यते विंशत्विति । चलोपसाम्येऽपि द्वितीयत्वान्निहन्यत एव । संहितायामाद्गुण इति प्राप्तस्य गुणस्य ऋत्यकः (पा ६-१-१२८) इति शाकल्यमते प्रकृतिभावादभावः । इंदवः । प्र वो भ्रियंते । ऋग्वे १-१४-४ । इत्यत्रोक्तम् । मत्सरासः । तत्रैवोक्तम् । आज्जसेरसुगित्यसुक् । तदोकसः । तदेवौकः स्थानं येषां ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥