प्रथमं मण्डलम् - सूक्तम् 76

5 ऋचः

ऋषिः: गोतमो राहूगणः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.76 - सम्पूर्णम्

1 / 5
ऋक्: 1.76.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.76.1
का त॒ उपे᳚ति॒र्मन᳚सो॒ वरा᳚य॒ भुव᳚दग्ने॒ शंत᳚मा॒ का म᳚नी॒षा ।
को वा᳚ य॒ज्ञैः परि॒ दक्षं᳚ त आप॒ केन᳚ वा ते॒ मन᳚सा दाशेम ॥
▶ पदपाठः (Word-by-word)
का । ते॒ । उप᳚॑इतिः । मन᳚सः । वरा᳚य । भुव᳚त् । अ॒ग्ने॒ । शम्॑त᳚मा । का । म॒नी॒षा ।
कः । वा॒ । य॒ज्ञैः । परि᳚ । दक्ष᳚म् । ते॒ । आ॒प॒ । केन᳚ । वा॒ । ते॒ । मन᳚सा । दा॒शे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

का त इति पंचर्चं तृतीयं सूक्तम् । का त इत्यनुक्रांतम् । राहूगणो गोतम ऋषिः । त्रिष्टुप् छंदः । अग्नि र्देवता ॥ प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छंदसीदमादिके द्वे सूक्ते । सूत्रतं च । उप प्र जिन्वन्नि ति त्रीणि का त उपेतिरिति सूक्ते (आ ४-१३) इति ॥ अश्विनशस्त्रेऽप्येते प्रातरनुवाकातिदेशात् ॥

हे अग्ने ते तव मनसो वराय निवारणायास्मास्ववस्थापनाय कोपेतिर्भुवत् । कीदृशमुपगमनं भवेत् । न काप्यस्ति । तवोचितमुपगमनं वयं कर्तुं न शक्नुम इति भावः । मनीषा स्तुतिः शंतमा तवातिशयेन सुखकरी का कीदृशी भवेत् । तवोचिता स्तुतिरपि नास्तीत्यर्थः । को वा यजमानो यज्ञैस्तव संबंधिभिर्यागैर्दक्षं वृद्धिं बलं वा पर्याप । पर्याप्नोत् । नकोऽपीत्यर्थः । तवोचितान्यागाननुष्ठाय तैः फलं प्राप्यत इत्येतदपि दुर्घटमेवेति भावः । उपगमनादिकं तावदास्ताम् । तस्य सर्वस्य साधनभूतं मन एवास्माकं दुर्लभमित्याह । केनेति । हे अग्ने ते तुभ्यं केन मनसा कीदृश्या बुद्ध्यादाशेम । हवींषि प्रयच्छाम । तवोपगमनाद्यनुरूपं मनोऽस्माकं नोत्पद्यत इत्यर्थः ॥ उपेतिः । तादौ चेति गतेः प्रकृतिस्वरत्वम् । वराय । वृञ् वरणे । अस्मादंतर्भावितण्यर्थाद्ग्रहवृदृनिश्चिगमश्च (पा ३-३-५८) इत्यप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । भुवत् । लेट्यडागमः । बहुलं छंदसीति शपो लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः । दक्षम् । दक्ष वृद्धौ । भावे करणे वा घञ् । ञित्त्वादनुदात्तत्वं ॥ १ ॥

1.76.2
एह्य᳚ग्न इ॒ह होता॒ नि षी॒दाद᳚ब्ध॒ः सु पु᳚रए॒ता भ᳚वा नः ।
अव᳚तां त्वा॒ रोद᳚सी विश्वमि॒न्वे यजा᳚ म॒हे सौ᳚मन॒साय᳚ दे॒वान् ॥
▶ पदपाठः (Word-by-word)
आ । इ॒हि॒ । अ॒ग्ने॒ । इ॒ह । होता᳚ । नि । सी॒द॒ । अद᳚ब्धः । सु । पु॒रः॒॑ए॒ता । भ॒व॒ । नः॒ ।
अव᳚ताम् । त्वा॒ । रोद᳚सी॒ इति᳚ । वि॒श्व॒मि॒न्वे इति᳚ वि॒श्व॒म्॑इ॒न्वे । यज᳚ । म॒हे । सौ॒म॒न॒साय᳚ । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने एहि । आगच्छ । इहास्मिन्यज्ञे होता देवानामाह्वाता सन्निषीद । उपविश । नोऽस्माकं पुरएता पुरुतो गंता सु भव । सुष्ठु भव । यस्मात्त्वमदब्धो राक्षसादिभिरहिंस्योऽसि । तादृशं त्वां विश्वमिन्वे सर्वं व्याप्नु वत्यौ रोदसी द्यावापृथिव्यौ त्वा त्वामवताम् । रक्षताम् । आगत्योपविश्य च द्यावापृथिवीभ्यां रक्षितश्च सन् महे महते सौमनसाय सौमनस्याय देवान्दानादिगुणयुक्तानिंद्रादीन्यज । हविर्भिः पूजय ॥ नि षीद । सदेरप्रतेरिति षत्वम् । सौमनसाय । सुमनसो भावः सौमनसम् । तस्येदमिति संबंधसामान्य इत्यण्प्रत्ययः । स चात्र भावलक्षणे संबंधविशेषे पर्यवस्यति । यद्वा । हायनांतयुवादिभ्योऽण् (पा ५-१-१३०) इति भावेऽण् । युवादिष्वस्य पाठो द्रष्टव्यः ॥ २ ॥

1.76.3 समानपद
प्र सु विश्वा᳚न्र॒क्षसो॒ धक्ष्य᳚ग्ने॒ भवा᳚ य॒ज्ञाना᳚मभिशस्ति॒पावा᳚ ।
अथा व᳚ह॒ सोम᳚पतिं॒ हरि᳚भ्यामाति॒थ्यम᳚स्मै चकृमा सु॒दाव्ने᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । सु । विश्वा᳚न् । र॒क्षसः᳚ । धक्षि᳚ । अ॒ग्ने॒ । भव᳚ । य॒ज्ञाना᳚म् । अ॒भि॒श॒स्ति॒॑पावा᳚ ।
अथ᳚ । आ । व॒ह॒ । सोम᳚॑पतिम् । हरि᳚॑भ्याम् । आ॒ति॒थ्यम् । अ॒स्मै॒ । च॒कृ॒म॒ । सु॒॑दाव्ने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विश्वान्सर्वान्रक्षसो राक्षसान्प्र सु धक्षि । प्रकर्षेण दह । दग्ध्वाच यज्ञानामस्माभिरनुष्ठेयानां यागानामभिशस्तिपावाभिशस्तेर्हिंसायाः पाता रक्षिता भव । अथानंतरं सोमपतिं सर्वेषां सोमानां पालकमिंद्रं हरिभ्यां तदीयाश्वाभ्यामा वह अस्मद्यज्ञं प्रापय । आगतायास्मै सुदाव्ने शोभनस्य फलस्य दात्र इंद्रायातिथ्यमतिथ्यर्हं सत्कारं चकृम । कुर्मः ॥ धक्षि । दह भस्मीकरणे । बहुलं छंदसीति शपो लुक् । ढत्वभष्भावकत्वषत्वानि । अभिशस्तिपावा । शसु हिंसायाम् । अस्मादभिपूर्वाद्भावे क्तिन् । अभिशस्तेः पातीत्यभिशस्तिपावा । पा रक्षणे । आतो मनिन्निति वनिप् । सोमपतिम् । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । सुदाव्ने । पूर्ववद्ददातेर्वनिप् । अल्लोपोऽन इत्याकारलोपः ॥ ३ ॥

1.76.4
प्र॒जाव᳚ता॒ वच᳚सा॒ वह्नि᳚रा॒सा च᳚ हु॒वे नि च᳚ सत्सी॒ह दे॒वैः ।
वेषि᳚ हो॒त्रमु॒त पो॒त्रं य᳚जत्र बो॒धि प्र᳚यन्तर्जनित॒र्वसू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
प्र॒जा॑व᳚ता । वच᳚सा । वह्निः᳚ । आ॒सा । आ । च॒ । हु॒वे । नि । च॒ । स॒त्सि॒ । इ॒ह । दे॒वैः ।
वेषि᳚ । हो॒त्रम् । उ॒त । पो॒त्रम् । य॒ज॒त्र॒ । बो॒धि । प्र॒॑य॒न्तः॒ । ज॒नि॒तः॒ । वसू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रजावता यजमानेभ्यो दातव्यापत्यादिफलोपेतेन वचसा स्तोत्रेण स्तुतः सन् योऽग्निरासास्यस्थानीयया ज्वालया वन्हिर्देवेभ्यो हविषां वोढा तमग्निमा च हवे । आह्वयामि । आहूतः सन् त्वमिहास्मिन्कर्मणि देवैरन्यैः सह नि सत्सि च । निषीद च । निषद्य च हे यजत्र यजनीयाग्ने होत्रं होत्रा क्रियमाणं कर्म उतापि च पोत्रं पोत्रा कृतं कर्म च वेषि । कामयस्व । वसूनां धनानां प्रयंतः प्रकर्षेण नियंतः वसून्यस्मदायत्तानि कुर्वन् जनितराहुतिद्वारा सर्वस्य जनयितरग्ने बोधि । अस्मान्बोधय ॥ असा । पद्दन्नित्यादिनास्यशब्दस्यानसन्नादेशः । सुपां सुलुगिति तृतीयाया डादेशः । टलोप उदात्त निवृत्ति स्वरेण विभक्तेरुदात्तत्वम् । हुवे ह्वेञो लट बहुलं छंदसीति संप्रसारणम् । बहुलं छंदसीति शपो लुक् । चवायोगे प्रथमेति निघातप्रतिषेधः । बोधि । बुध अवगमने । अस्माण्ण्यंताच्छंदस्युभयथेति हेरार्धधातुकत्वाण्णेरनिटीति णिलोपः । हुझल्भ्यो हेर्धिः । धातोरंत्यलोपश्छांदसः । हेरपित्त्वात्तस्यैव स्वरः शिष्यते ॥ ४ ॥

1.76.5 समानपद
यथा॒ विप्र᳚स्य॒ मनु᳚षो ह॒विर्भि᳚र्दे॒वा{4} अय᳚जः क॒विभि᳚ः क॒विः सन् ।
ए॒वा हो᳚तः सत्यतर॒ त्वम॒द्याग्ने᳚ म॒न्द्रया᳚ जु॒ह्वा᳚ यजस्व ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । विप्र᳚स्य । मनु᳚षः । ह॒विः॑भिः᳚ । दे॒वान् । अय᳚जः । क॒वि॑भिः᳚ । क॒विः । सन् ।
ए॒व । हो॒त॒रिति᳚ । स॒त्य॒॑त॒र॒ । त्वम् । अ॒द्य । अग्ने᳚ । म॒न्द्रया᳚ । जु॒ह्वा᳚ । य॒ज॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकादशिनस्याग्नेयस्य पशोर्यथा विप्रस्येत्येषा पशुपुरोडाशस्य याज्या । सूत्रितं च प्रदानानामिति खंडे । यथा विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः (आ ३-७) इति ॥

कविः क्रांतदर्शी सन्कविभिर्मेधाविभिर्ऋत्विग्भिः सह विप्रस्य मेधाविनो मनुषो मनोर्यज्ञे हविर्भिश्चरुपुरोडाशादिभिर्हे अग्ने यथा देवानयजः एवमेव होतर्होमनिष्पादक सत्यतरातिशयेन सत्सु साधो अग्ने त्वमद्यास्मिन्यज्ञे मंद्रया हर्षयित्र्या जुह्वा होमसाधनभूतया स्रुचा यजस्व । देवान्हविर्भिः पूजय ॥ मनुषः । मन ज्ञाने । बहुलमन्यत्रापीति मनेरुसिन्प्रत्ययः ॥ ५ ॥