यथा॒ विप्र᳚स्य॒ मनु᳚षो ह॒विर्भि᳚र्दे॒वा{4} अय᳚जः क॒विभि᳚ः क॒विः सन् ।
ए॒वा हो᳚तः सत्यतर॒ त्वम॒द्याग्ने᳚ म॒न्द्रया᳚ जु॒ह्वा᳚ यजस्व ॥
ए॒वा हो᳚तः सत्यतर॒ त्वम॒द्याग्ने᳚ म॒न्द्रया᳚ जु॒ह्वा᳚ यजस्व ॥
पदपाठः (Word-by-word)
यथा᳚ । विप्र᳚स्य । मनु᳚षः । ह॒विः॑भिः᳚ । दे॒वान् । अय᳚जः । क॒वि॑भिः᳚ । क॒विः । सन् ।
ए॒व । हो॒त॒रिति᳚ । स॒त्य॒॑त॒र॒ । त्वम् । अ॒द्य । अग्ने᳚ । म॒न्द्रया᳚ । जु॒ह्वा᳚ । य॒ज॒स्व॒ ॥
ए॒व । हो॒त॒रिति᳚ । स॒त्य॒॑त॒र॒ । त्वम् । अ॒द्य । अग्ने᳚ । म॒न्द्रया᳚ । जु॒ह्वा᳚ । य॒ज॒स्व॒ ॥
सायणभाष्यम् (Sayana Commentary)
एकादशिनस्याग्नेयस्य पशोर्यथा विप्रस्येत्येषा पशुपुरोडाशस्य याज्या । सूत्रितं च प्रदानानामिति खंडे । यथा विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः (आ ३-७) इति ॥
कविः क्रांतदर्शी सन्कविभिर्मेधाविभिर्ऋत्विग्भिः सह विप्रस्य मेधाविनो मनुषो मनोर्यज्ञे हविर्भिश्चरुपुरोडाशादिभिर्हे अग्ने यथा देवानयजः एवमेव होतर्होमनिष्पादक सत्यतरातिशयेन सत्सु साधो अग्ने त्वमद्यास्मिन्यज्ञे मंद्रया हर्षयित्र्या जुह्वा होमसाधनभूतया स्रुचा यजस्व । देवान्हविर्भिः पूजय ॥ मनुषः । मन ज्ञाने । बहुलमन्यत्रापीति मनेरुसिन्प्रत्ययः ॥ ५ ॥