तस्मि᳚न्त्सन्ति प्र॒शिष॒स्तस्मि᳚न्नि॒ष्टय॒ः स वाज᳚स्य॒ शव᳚सः शु॒ष्मिण॒स्पति᳚ः ॥
पदपाठः (Word-by-word)
तस्मि᳚न् । स॒न्ति॒ । प्र॒॑शिषः᳚ । तस्मि᳚न् । इ॒ष्टयः᳚ । सः । वाज᳚स्य । शव᳚सः । शु॒ष्मिणः᳚ । पतिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेयजमानाः तमग्निंपृच्छत यत् स्वर्गादिविषयंप्रष्टव्यमस्ति तत्तस्यैवप्रष्टव्यमस्ति तस्यैव प्रष्टव्य- त्वेतिशयमाह—सजगामससर्वत्रगच्छति अतएवसवेदसचप्रष्टव्यंजानाति किमितरसाधारण्येननेत्या- ह—सचिकितान् सएवचेतनावान् सविशॆषज्ञइत्यर्थः सएवईयते ज्ञेयसकाशंगच्छति पुनर्गतिरेवविशॆ- ष्यते सः सोऽग्निरेव नु क्षिप्रंईयते यद्यजमानस्य ज्ञेयमस्ति तमर्थं ज्ञातुं शीघ्रमेवगच्छतीत्यर्थः यद्वा ज्ञानार्थंईयते सेव्यते तथा शीघ्रं अनुसेव्यते यस्मादयमुक्तरूपः तस्मात्तमेव पृच्छतेत्यर्थः तत्रापेक्षिताः कामाःसन्तीत्याह तस्मिन्नग्नौ प्रशिषः प्रशासनानि नियमनसामर्थ्यानिसंति असाध्यंनियम्यापि सा- धयितुंशक्तइत्यर्थः किंच तस्मिन्नेवाग्नौ इष्टयएष्टव्याभोगाः सर्वफलसाधकायागावा संति किंच सोऽ– ग्निर्वाजस्य अन्नस्य शवसोबलस्यचपतिः पालयिता दाता किंच शुष्मिणोबलवतोराजादेरपि पतिः स्वामी यस्मादयं महानुभावः तस्मात्तमेव पृष्ट्वापुरुषार्थंसाधयतेति ॥ १ ॥