पु॒रु॒प्रै॒षस्ततु᳚रिर्यज्ञ॒साध॒नो॑च्छि᳚द्रोति॒ः शिशु॒राद᳚त्त॒ सं रभः᳚ ॥
पदपाठः (Word-by-word)
पु॒रु॒॑प्रै॒षः । ततु᳚रिः । य॒ज्ञ॒॑साध᳚नः । अच्छि᳚द्र॑ऊतिः । शिशुः᳚ । आ । अ॒द॒त्त॒ । सम् । रभः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
जुह्वः अस्मदीयाजुहूपभृदादयः तमित् तमेवोद्दिश्यआज्युपूर्णाः सत्योगच्छन्ति प्रीणयितुं यद्वा हूयन्तइति जुह्वःआहुतयः सोमादिरूपाः अथवाजुह्वादिषुस्थितान्याज्यान्यपि आश्रयाश्रयिणोरभे- देनजुह्वैत्युच्यन्ते मंचाःक्रोशन्तीतिवत् ताअपितमेवगच्छन्ति अस्यसर्वदेवतात्मकत्वात् अत्रैवेतरदे- तार्थमपिहूयमानंचेतिभावः किंच अर्वतीः प्राप्तिमत्यः स्तुतयः तमित् तमेवाग्निंगच्छन्ति सर्वदेवता- त्मकत्वादेव सएवएकोयमग्निः विश्वानि मे मदीयानिवचांसि स्तोत्ररूपाणि श्रृणवत् श्रृणोति अग्नेः सर्वदेवतात्मकत्वं तैत्तिरीयाआहुः—तेदेवाबिभ्यतोऽग्निंपाविशन् तस्मादाहुरग्निःसर्वादेवतेति । तथा- त्रैवपरस्तादाम्नास्यते—त्वमग्नेवरूणोजायसेयत्त्वंमित्रइत्यदिकोऽस्यविशेषइत्युच्यते पुरुप्रैषः बहुप्रैष- भाक् यद्वा बहुप्रेषणः सर्वस्याज्ञापयितेत्यर्थः ततुरिःतारयिता तरतेरन्तर्ण्यर्थादादृगमहनइतिकिन् प्र- त्ययः बहुलंछन्दसीत्युत्वं यज्ञसाधनः यज्ञसाधकः अग्नयधीनत्वद्यज्ञस्य अच्छिद्रोतिः अविच्छिन्नरक्ष- णः शिशुः शिशुवत्प्रियकारी शोचयितावाशत्रूणां एवंभूतोऽग्निः संरभः यज्ञादिसंरंभवान् सन् आदत्त- आदत्ते हविरादिकंस्वीकरोति ॥ ३ ॥