प्रथमं मण्डलम् - सूक्तम् 184

6 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 1.184 - सम्पूर्णम्

1 / 6
ऋक्: 1.184.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.184.1
ता वा᳚म॒द्य ताव᳚प॒रं हु᳚वेमो॒च्छन्त्या᳚मु॒षसि॒ वह्नि᳚रु॒क्थैः ।
नास᳚त्या॒ कुह᳚ चि॒त्सन्ता᳚व॒र्यो दि॒वो नपा᳚ता सु॒दास्त᳚राय ॥
▶ पदपाठः (Word-by-word)
ता । वा॒म् । अ॒द्य । तौ । अ॒प॒रम् । हु॒वे॒म॒ । उ॒च्छन्त्या᳚म् । उ॒षसि᳚ । वह्निः᳚ । उ॒क्थैः ।
नास᳚त्या । कुह᳚ । चि॒त् । सन्तौ᳚ । अ॒र्यः । दि॒वः । नपा᳚ता । सु॒दाः॑त᳚राय ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

द्वितीयाष्टकमध्यस्थश्चतुर्थोध्यायआदरात् । व्याख्यातः सायणार्येणपञ्चमोव्याकरिष्यते ॥ २ ॥

तत्रतावामितीदंप्रथममण्डलस्यचतुर्विंशेनुवाकेपञ्चमंसूक्तम् पूर्वसूक्तेषळित्युक्तत्वात् सूक्त- संख्यानुवर्ततेइतिपरिभाषितत्वात् षळृचं ऋषिश्चान्यस्मादितिपरिभाषयागस्त्यं तथाश्विनंवाइत्यु- क्तत्वात्तुह्यादिपरिभाषयेदमप्याश्विनं अनादेशपरिभाषयात्रैष्टुभम् तावामित्यनुक्रान्तम् युवोरजां- सीत्यादीनांपंचसूक्तानांतृतीयवर्जितानांप्रातरनुवाकाश्विनशस्त्रयोर्विनियोगउक्तः तत्रेदंपञ्चमं सूक्तम् ।

ता तारैक्षकत्वनेप्रसिद्धौवांयुवां अद्यास्मिन्यागदिनेहुवेम आह्वयामइत्याशीः तथा अपरं अपर- स्मिन्नपिदिनेतौयुवांहुवेम अपरमित्येतदपरस्मिन्नित्यर्थेसमभिव्याहारात् अद्याचनोमृळयतापरंचे- त्यादिमन्त्रान्तरेतथादर्शनाच्च अपरयागंप्रत्यपीतिवाकस्मिन्काले उषसि उषोदेवतायामुच्छन्त्यांतमो- विवासयन्त्यांसत्यां उषः कालेहिप्रातरनुवाकाश्विनशस्त्रेप्रयुज्येते उक्तेकालेहेनासत्या असत्यरहितौ दिवोनपाता द्युलोकस्यनपातयितारौनप्तृस्थानीयौवाकुहचित्संतौ कुत्रचिद्देशेवर्तमानौयुवांवह्निः स्तुतेर्वोढा अर्यईरयितास्तुतेः ईश्वरोवाईदृशोहंहोतासुदास्तराय अत्यर्थंशोभनहविर्दात्रेयजमाना यत- दर्थंतौयुवांउक्थैः शस्त्रैः हुवेमेतिसंबन्धः शस्त्राख्यतंपदमेकवचनतयानेतव्यं वह्निरर्यशब्दौवाबहुवच- नत्वेननेतव्यौ अथवावाक्यद्वयंयस्माद्वह्निरर्योहोताउक्तगुणकौयुवांशंसति तस्माद्वयंयजमानास्तौयु- वामाह्वयामइति ॥ १ ॥

1.184.2
अ॒स्मे ऊ॒ षु वृ᳚षणा मादयेथा॒मुत्प॒णी{4}र्ह᳚तमू॒र्म्या मद᳚न्ता ।
श्रु॒तं मे॒ अच्छो᳚क्तिभिर्मती॒नामेष्टा᳚ नरा॒ निचे᳚तारा च॒ कर्णै᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । ऊं॒ इति᳚ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् । प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद᳚न्ता ।
श्रु॒तम् । मे॒ । अच्छो᳚क्ति॑भिः । म॒ती॒नाम् । एष्टा᳚ । न॒रा॒ । नि॑चे᳚तारा । च॒ । कर्णैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषणा कामानांवर्षकावश्विनौ युवां अस्मेउ अस्मास्वेवसुमादयेथां सुष्ठुतृप्यतं अस्मभ्यं तर्पयत- मभिमतम् तथपणीन् वणिजोलुब्धकानयष्टृन् उत् उन्मूल्यहतंनाशयतम् कीदृशौयुवां ऊर्म्यारात्रिना- मितत् रात्रौमदन्ता माद्यन्तौ यद्वोर्मिरितिसोमनाम ऊर्मिर्यस्तेपवित्रआइत्यादिषुतथाप्रयोगात् अस्म- दीयेनसोमेनमदन्तौतादृशौयुवांमेममाच्छोक्तिभिराभिमुख्यकरैर्निर्मलवेदवाक्यैरचिताः मतीनां कर्म- णिषष्ठी मननसाधनाः स्तुतीःकर्णैराकर्णनसाधनैः श्रोत्रैः श्रुतंश्रृणुतं हेनरा नेतारौयुवांखलु एष्टा अन्वे- ष्टारावस्मत्स्तुतीनांतथाचनिचेतारालब्धानांतासांसञ्चयकर्तारौ निरित्येषसमित्येतस्यस्थाने यस्मादे- वंविधौतस्माच्छृणुतमिति ॥ २ ॥

1.184.3
श्रि॒ये पू᳚षन्निषु॒कृते᳚व दे॒वा नास᳚त्या वह॒तुं सू॒र्याया᳚ः ।
व॒च्यन्ते᳚ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु᳚णस्य॒ भूरे᳚ः ॥
▶ पदपाठः (Word-by-word)
श्रि॒ये । पू॒ष॒न् । इ॒षु॒कृता᳚॑इव । दे॒वा । नास᳚त्या । व॒ह॒तुम् । सू॒र्यायाः᳚ ।
व॒च्यन्ते᳚ । वा॒म् । क॒कु॒हाः । अ॒प्॑सु । जा॒ताः । यु॒गा । जू॒र्णा॑इ᳚व । वरु᳚णस्य । भूरेः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सवितासूर्यः दुहितरंसूर्याख्यांप्रदातुमनाः देवानाहूयसामर्थ्यसमीक्षणायाजिंपरिकल्प्य इमांजेष्य- तिसएतांकन्यकामृक्सहस्रकॢप्तंस्तोत्रंचलभेत इत्यकल्पयत् तामग्निःप्रथममजयत् तमन्वश्विनावपिजि- त्वाग्निंप्रधृष्यऋक्सहस्रंकन्यकांचालभेतां ततइन्द्रउषाश्चाजयतां तौचतैरग्न्यादिभिः प्रार्थितौस्वशस्त्र- स्यकंचित्कंचिद्भागंतेभ्यःपरिकल्प्य सूर्यांस्वरथेधारयतामिति अयमितिहासोब्राह्मणे प्रजापतिर्वैसो- मायराज्ञेइत्यत्राम्नातोस्माभिःप्रथमाष्टके आवांपतित्वंसख्यायेत्यत्रप्रपंचितः तत्राह—हेपूषन् पोषक- सूर्य एतच्चन्द्रस्याप्युपलक्षणम् सूर्याचन्द्रमसोरेवाश्वित्वात् सूर्याचन्द्रमसावित्येकइतियास्केनोक्तत्वात् अतःपूषन्नित्युक्तेपोषकावश्विनावित्युक्तंभवति हेपोषकौ हेनासत्या असत्यरहितौदेवादेवौ युवांश्रिये- श्रेयसेशस्त्रस्यकन्यायाश्चलाभायेत्यर्थः इषुकृतेव इवशब्दएवार्थे आजिधावनायेषुवच्छीघ्रमृजुगमिनौ- कृतावेवसन्तौ सूर्यायाः एतन्नामिकायाः सवितुःपुत्र्याः कर्मणिषष्ठी सूर्यांवहतुं रथेधारयितुमाजिमुद- जयतामित्यर्थः यस्मादेवंतस्मादप्सुजाताः कर्मसुसंपादिताः ककुहाः शस्त्ररूपाः स्तुतयः भूरेः अवि- च्छिन्नप्रवाहस्यवरुणस्यफलप्रतिबन्धकपापनिवारकस्ययागस्यसिद्भ्यर्थंतत्संबन्धिन्योवांप्रतिवच्यन्ते उच्यन्तेहोत्रादिभिः युवामेवशस्त्रगतमन्त्रैर्यागकालेचस्तुवन्तीत्यर्थः युगाजूर्णेवजीर्णानियुगानीव इव- शब्दःसंप्रत्यर्थे पुरातनाः यागकालायथातद्वदद्यतनाअपीत्यर्थः पूर्वकालेयथायुवामेवस्तुवन्ति तद्वदि- दानीमपीतितात्पर्यम् ॥ ३ ॥

1.184.4
अ॒स्मे सा वां᳚ माध्वी रा॒तिर᳚स्तु॒ स्तोमं᳚ हिनोतं मा॒न्यस्य᳚ का॒रोः ।
अनु॒ यद्वां᳚ श्रव॒स्या᳚ सुदानू सु॒वीर्या᳚य चर्ष॒णयो॒ मद᳚न्ति ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । सा । वा॒म् । मा॒ध्वी॒ इति᳚ । रा॒तिः । अ॒स्तु॒ । स्तोम᳚म् । हि॒नो॒त॒म् । मा॒न्यस्य᳚ । का॒रोः ।
अनु᳚ । यत् । वा॒म् । श्र॒व॒स्या᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू । सु॒॑वीर्या᳚य । च॒र्ष॒णयः᳚ । मद᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमाध्वी मधुपूर्णपात्रयुक्तौअश्विनौ वांयुवयोःसंबन्धिनीसाप्रसिद्धारातिर्दानमस्मेअस्माकमस्तुभ- वतु तदर्थंमान्यस्यमाननीयस्यकारोः स्तोतुरगस्त्यस्यस्तोमंस्तुतिंहिनोतंप्रीणयतं हेसुदानूशोभनफल- दानौ वांयुवांश्रवस्याकीर्तेरन्नस्यवाइच्छयायत् यस्मात् सुवीर्याययजमानाय शोभनबलायवा चर्षण- योमनुष्माऋत्विग्रूपाः अनुमदन्ति अनुक्रमेणमाद्यन्तियुवाभ्यांसहस्वयंवा ॥ ४ ॥

1.184.5 समानपद
ए॒ष वां॒ स्तोमो᳚ अश्विनावकारि॒ माने᳚भिर्मघवाना सुवृ॒क्ति ।
या॒तं व॒र्तिस्तन᳚याय॒ त्मने᳚ चा॒गस्त्ये᳚ नासत्या॒ मद᳚न्ता ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वा॒म् । स्तोमः᳚ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने᳚भिः । म॒घ॒॑वा॒ना॒ । सु॒॑वृ॒क्ति ।
या॒तम् । व॒र्तिः । तन᳚याय । त्मने᳚ । च॒ । अ॒गस्त्ये᳚ । ना॒स॒त्या॒ । मद᳚न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ हेमघवानाहविर्लक्षणान्नवन्तौ वांयुवाभ्यांएषस्तोमः स्तोत्रंसुवृक्तिसुष्ठुपापवजनं यथा- भवतितथा यद्वासुसमासि अकारिकृतः कीदृशोयंमानेभिर्मानैः हविः प्रदानरूपैः सहितः हेनासत्या- असत्यरहितौयुवां अगस्त्येएतन्नाम्निमहर्षौमयिमदन्तामाद्यन्तौ सन्तौ वर्तिर्गृहंयज्ञसंबन्धियातंप्राप्नुतं किमर्थंतनयायपुत्रादिलाभाय त्मनेआत्मनेचहिताय ॥ ५ ॥

1.184.6
अता᳚रिष्म॒ तम᳚सस्पा॒रम॒स्य प्रति᳚ वां॒ स्तोमो᳚ अश्विनावधायि ।
एह या᳚तं प॒थिभि᳚र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
अता᳚रिष्म । तम᳚सः । पा॒रम् । अ॒स्य । प्रति᳚ । वा॒म् । स्तोमः᳚ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ ।
आ । इ॒ह । या॒त॒म् । प॒थि॑भिः᳚ । दे॒व॒॑यानैः᳚ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अतारिष्मेतिषष्ठी व्याख्याता ॥ ६ ॥

कतरापूर्वेतिएकादशर्चंषष्ठंसूक्तं द्यावापृथिवीदेवताकं अगस्त्यंत्रैष्टुभं कतरैकादश द्यावापृथिवीय- मित्यनुक्रान्तम् आभिप्लविकेषष्ठेहनिवैश्वदेवशस्त्रेद्यावापृथिव्यनिविद्धानमिदं तृतीयस्येतिखण्डेसूत्रि- तम्—कतरापूर्वेषासानक्तेतिवैश्वदेवमिति महाव्रतेपिवैश्वदेवशस्त्रेइदमेवद्यावापृथिव्यनिविद्धानं उत्त- मादाभिप्लविकात्तृतीयसवनमित्यतिदेशात् ।