अ॒स्मे सा वां᳚ माध्वी रा॒तिर᳚स्तु॒ स्तोमं᳚ हिनोतं मा॒न्यस्य᳚ का॒रोः ।
अनु॒ यद्वां᳚ श्रव॒स्या᳚ सुदानू सु॒वीर्या᳚य चर्ष॒णयो॒ मद᳚न्ति ॥
अनु॒ यद्वां᳚ श्रव॒स्या᳚ सुदानू सु॒वीर्या᳚य चर्ष॒णयो॒ मद᳚न्ति ॥
पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । सा । वा॒म् । मा॒ध्वी॒ इति᳚ । रा॒तिः । अ॒स्तु॒ । स्तोम᳚म् । हि॒नो॒त॒म् । मा॒न्यस्य᳚ । का॒रोः ।
अनु᳚ । यत् । वा॒म् । श्र॒व॒स्या᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू । सु॒॑वीर्या᳚य । च॒र्ष॒णयः᳚ । मद᳚न्ति ॥
अनु᳚ । यत् । वा॒म् । श्र॒व॒स्या᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू । सु॒॑वीर्या᳚य । च॒र्ष॒णयः᳚ । मद᳚न्ति ॥
सायणभाष्यम् (Sayana Commentary)
हेमाध्वी मधुपूर्णपात्रयुक्तौअश्विनौ वांयुवयोःसंबन्धिनीसाप्रसिद्धारातिर्दानमस्मेअस्माकमस्तुभ- वतु तदर्थंमान्यस्यमाननीयस्यकारोः स्तोतुरगस्त्यस्यस्तोमंस्तुतिंहिनोतंप्रीणयतं हेसुदानूशोभनफल- दानौ वांयुवांश्रवस्याकीर्तेरन्नस्यवाइच्छयायत् यस्मात् सुवीर्याययजमानाय शोभनबलायवा चर्षण- योमनुष्माऋत्विग्रूपाः अनुमदन्ति अनुक्रमेणमाद्यन्तियुवाभ्यांसहस्वयंवा ॥ ४ ॥