पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
शुक्र इति द्वैपदं दशर्चमध्ययनतः पंचर्चं पंचमं सूक्तं पराशरस्यार्षमाग्नेयम् । शुक्र इत्यनुक्रांतं ॥ विनियोगो लैंगिकः ॥
Sayana bhashya empty
10 ऋचः
शुक्र इति द्वैपदं दशर्चमध्ययनतः पंचर्चं पंचमं सूक्तं पराशरस्यार्षमाग्नेयम् । शुक्र इत्यनुक्रांतं ॥ विनियोगो लैंगिकः ॥
Sayana bhashya empty
शुक्रः शुभ्रवणोऽयमग्निरुषो न जार उषसो जरयिता सूर्य इव शुशुक्वान् शोचयिता सर्वस्य प्रकाशयिता भवति । तथा समीची संगते द्यावापृथिव्यौ दिवो न ज्योतिर्द्योतमानस्य सूर्यस्य ज्योतिरिव पप्रा । स्वतेजसा पूरयिता । हे अग्ने अतस्त्वं प्रजातः प्रादुर्भूतः सन् क्रत्वा कर्मणा यद्वा ज्ञानहेतुना प्रकाशेनोक्तप्रकारेण सर्वं जगत्परि बभूव । परितो व्याप्नोषि । दिव्यंतीति देवा ऋत्विजः । तेषां पुत्रः सन् पुन्नामो नरकात्त्रायकः सन् पिता भुवः । पालयिता भवसि । यद्वा । देवानामिंद्रादीनामेव पुत्रः सन् पुत्र इव दूतो भूत्वा पिताहविर्भिः पालयिता भवसि ॥ शुशुक्वान् । शुच दीप्तौ । लिटः क्वसु । व्यत्ययेन कुत्वम् । पप्रा । पृ पालनपूरणयोरित्यस्मादादृगमहनजन इति किप्रत्ययः । सुपां सुलुगिति सोर्डादेशः । समीची । संपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । समः समि (पा ६-३-९३) इति सम्यादेशः । अंचतेश्चेति वक्तव्यमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घत्वम् । उदात्त निवृत्तिस्वरेण ङीप उदात्तत्वम् । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । यदि तु संऽईची इति पदविभागः क्रियते तर्ह्युद ईत् (पा ६-४-१३९) इति विधीयमानमित्वं सम उत्तरस्यापि द्रष्टव्यम् । बभूथ । बभूथा ततंथ (पा ७-२-६४) इति निपातनादिडभावः ॥ १ ॥ २ ॥
Sayana bhashya empty
वेधाः । मेधाविनामैतत् । मेधावी । यद्वा । विधाता सर्वस्य कर्ता । अदृप्तो दर्परहितो विजानन् कर्तव्याकर्तव्यविभागं जानन्नग्निर्गोनां गवामूधर्न गोसंबंधिपयस आश्रयभूतं स्थानमिव पितूनामन्नानां स्वाद्म स्वादयिता रसयिता । यथा गोरूधः पयःप्रदानेन सर्वाण्यन्नानि स्वादूनि करोति तद्वदग्निरपि सम्यक्पाकेन सर्वाण्यन्नानि स्वादूनि करोतीत्यर्थः । अपि अचैवंभूतोऽग्निर्जने न शेवो जनपदे लोकसुखकरः पुरुष इव मध्ये यज्ञेषु मध्य आहूर्य आह्वातव्यः सन् दुरोणे यज्ञगृहे निषत्तो निषण्णो रण्वो रमयिता स्तुत्यो वा भवति ॥ गोनाम् । गोः पादांते (पा ७-१-५७) इत्यपादांतेऽपि नुट् । स्वाद्म । स्वाद आस्वादन् । अंतर्भावितण्यर्थादन्येभ्योऽपि दृश्यंत इति मनिन् । सुपां सुलुगिति सोर्लुक् । पितूनाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । आहूर्यः आङ् पूर्वात् ह्वयतेरचो यदिति यत् । बहुलम् । छंदसीति संप्रसारणम् । हल इति दीर्घः । रेपोपजनश्छांदसः । यतोऽनाव इत्याद्युदात्तत्वं ॥ ३ ॥ ४ ॥
Sayana bhashya empty
पुत्रो न पुत्र इव जातः प्रादुर्भूतोऽग्निर्दुरोणे गृहे रण्वो रमयिता भवति । वाजी न अश्व इव प्रीतो हर्षयुक्तः सन्विशः संग्रामे वर्तमानाः शत्रुःभूताः प्रजा वि तारीत् । विशेषेण तरति । अतिक्रामति । अपि च नृभिर्ऋत्विग्लक्षणैर्मनुष्यैः सहितोऽहं सनीळाः समाननिवासस्थाना विशो दैवीः प्रजा यद्यदाह्वे आह्वयामि तदानीमयमग्निर्विश्वानि सर्वाणि देवत्वा देवत्वान्यश्याः । अश्नुते । प्राप्नोति । स्वयमेव तत्तद्देवतारूपो भवतीत्यर्थः । तथा च मंत्रांतर माम्नास्यते । त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्ध इत्यादि । ऋग्वे ५-३-१ ॥ अश्याः । अशू व्याप्तौ । लिङि व्यत्ययेन परस्मैपदमध्यमौ । बहुलं छंदसीति विकरणस्य लुक् ॥ ५ ॥ ६ ॥
Sayana bhashya empty
हे अग्ने ते तव संबंधीन्येता व्रता एतानि परिदृश्यमानानि दर्शपूर्णमासादीनि कर्माणि नकिर्मिनंति । राक्षसादयो बाधका न हिंसंति । यद्यस्मात्त्वमेभ्यः कर्मसु वर्तमाानेभ्योः नृभ्यो यज्ञस्य नेतृभ्यो यजमानेभ्यः श्रुष्टिम् । शु आश्वश्नुते व्याप्नोतीति श्रुष्टिर्यज्ञफलरूपं सुखम् । तच्चिकर्थ कृतवानसि । सति हि तव व्रतानां बाधक एतन्नोपपद्यते । अतोऽवगम्यते तव व्रतानां हिंसका न संतीति । हे अग्ने ते त्वदीयं तत्तु दंसस्तदेव कर्म यद्यदि राक्षसादिरहन् हंति नाशयति कदानीं समानै सप्तगणरूपेण सदृशैर्नृभिर्नेतृभिर्मरुद्भिः युक्तस्त्वं रपांसि भादकानि राक्षसादीनि यद्यस्मात्त्वं विवेः गमयसि पलायनं प्रापयसि । तस्मात्तव व्रतानि न हिंसंतीति योज्यं ॥ मिनंति । मीञ् हिंसायम् । क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । विवेः । छंदसी लुङ् लङ् लिट इति वर्तमाने लङ् । वी गत्यादिषु । सिप्यदादित्वाच्छपो लुकि प्राप्ते बहुलं छंदसीति शपः श्लुः ॥ ७ ॥ ८ ॥
Sayana bhashya empty
उषो न जार उषसो जरयितादित्य इव विभावा विशिष्टप्रकाशयुक्त उस्रो निवासयिता संज्ञातरूपः सर्वैः प्राणाभिरवगतस्वरूपः । देवतांतरवदप्रत्यक्षो न भवतीत्यर्थः । एवंभूतोऽग्नि रस्मै यजमानाय चिकेतत् । जानातु । अभिमतफलं ददात्वित्यर्थः । यद्वा । विभक्तिव्यत्ययः । अस्मा इदं सूक्तरूपं स्तोत्रं चिकेतत् । जानातु । तथास्य रश्मयस्त्मनात्मनैव स्वयमेव वहंतो हविर्वहनं कुर्वंतो दुरो यज्ञगृहद्वाराणि व्यृण्वन् । विशेषेण गच्छंति । व्याप्नुवंतीत्यर्थः । तदनंतरं दृशीके दर्शनीये स्वर्नभसि विश्वे सर्वे ते रश्मयो नवंत । गच्छंति । नवतिर्गतिकर्मा । देवान्प्राप्नुवंतीत्यर्थः ॥ उस्रः । वस निवासे । स्भायितंचीत्यादिना रक् । यजादित्वात्संप्रसारणम् । चिकेतत् । कित ज्ञाने । जौहोत्यादिकः । लेट्यडागमः । बहुलं छंदसीति वक्तव्यम् । का ७-३-८७-१ । इति वचनान्नाभ्यस्तस्याचि पीतिति लघूपधगुणप्रतिषेधाभावः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । ऋण्वन् । इवि रिवि रवि धवि गत्यर्थाः । इदित्त्वान्नुम् । छांदसो लङ् । व्यत्ययेन रेफस्य संप्रसारणम् । यद्वा ऋणु गतौ । तनोत्यादिः ॥ ९ ॥ १० ॥