प्रथमं मण्डलम् - सूक्तम् 79

12 ऋचः

ऋषिः: गोतमो राहूगणः देवता: अग्निरग्निर्मध्यमो वा छन्दः: त्रिष्टुप्

सूक्तम् 1.79 - सम्पूर्णम्

1 / 12
ऋक्: 1.79.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
1.79.1 समानपद
हिर᳚ण्यकेशो॒ रज᳚सो विसा॒रे॑हि॒र्धुनि॒र्वात᳚ इव॒ ध्रजी᳚मान् ।
शुचि᳚भ्राजा उ॒षसो॒ नवे᳚दा॒ यश᳚स्वतीरप॒स्युवो॒ न स॒त्याः ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑केशः । रज᳚सः । वि॒॑सा॒रे । अहिः᳚ । धुनिः᳚ । वातः᳚॑इव । ध्रजी᳚मान् ।
शुचि᳚॑भ्राजाः । उ॒षसः᳚ । नवे᳚दाः । यश᳚स्वतीः । अ॒प॒स्युवः᳚ । न । स॒त्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्यकेश इति द्वादशर्चं षष्ठं सूक्तम् । रहूगणपुत्रस्य गोतमस्यार्षम् । अत्रानुक्रम्यते । हिरण्यकेशो द्वादशाद्यौ तृचौ त्रैष्टुभौष्णिहौ पूर्वेऽग्नये वा मध्यमायेति । पूर्वत्र गायत्रं त्वित्युक्तद्वादिदमपि गायत्रं सूक्तम् । एतावांस्तु विशेषः । आद्यस्तृचस्त्रैष्टुभः । द्वितीयस्त्वौष्णिहः । प्रथमतृचस्य मध्यमस्थानो वैद्युतोऽग्निः शुद्धाग्निर्वा देवता । शिष्टा नवर्चः केवलाग्नि देवताकाः ॥ प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छंदस्याश्विनशस्त्रे चाद्यस्तृचः । सूत्रितं च । हिरण्यकेश इति शिस्रोऽपश्यमस्य महत इति सूक्ते (आ ४-१३) इति ॥ कारीर्यामग्नेर्धामच्छदो हिरण्यकेश इति द्वे ऋचौ याज्यानुवाक्ये । सूत्रितं च । हिरण्यकेशो रजसो विसार इति द्वे त्वं त्या चिदच्युता धामंते विश्वं भुवनमधि श्रितमिति वा । अ २-१३ । इति ॥

हिरण्यकेशो हितरमणीयाः केशस्थानीया ज्वाला यस्य स तथोक्तः सुवर्णवद्रोचमानज्वालो वा अहिरागत्य हंता मेघानां धुनिस्तेषां कंपयिता वात इव वायुरिव ध्रजीमान् शीघ्रगतियुक्तः एवंभूतो वैद्युतोऽग्नी रजस उदकस्य विसारे विसरणे मेघान्निर्गमने निमित्तभूते सति शुचिभ्राजाः शोभनदीप्तिः सन् मेघाज्जलानि निर्गमयितुं जानाति । उषस उषोदेवता नवेदाः । न विदंति इति नवेदाः । मेघादुदकस्य निःसारणमग्निरेव जानाति उषसस्तु न जानंतीत्यर्थः । अज्ञाने दृष्टांतः । यशस्वतीरन्न युक्ता अन्नवत्योऽपस्युवोऽपः कर्मात्मन इच्छंत्य सत्या अवितथारंभा न । एवंभूताः प्रजा इव । अत्रोषसामज्ञानेनाग्निः प्रशस्यते न तु ता निंद्यंते । न हि निंदा निंद्यं निंदितुं अपि तु स्तुत्यं स्तोतुमिति न्यायात् ॥ ध्रजीमान् । ध्रज गतौ । इन्सर्वधातुभ्य इति भाव इन्प्रत्ययः । ततो मतुप् । तस्य पित्त्वा दनुदात्तत्व इनो नित्त्वात्प्रातिपदिकस्याद्युदात्तत्वम् । नवेदाः । नञ्पूर्वाद्वेत्तेः पचाद्यच् । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । अपस्युवः । अपस्शब्दात्सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । तन्वादीनां छंदसि बहुलमुपसंख्यानम् । पा ६-४-७७-१ । इत्युवङ् ॥ १ ॥

1.79.2
आ ते᳚ सुप॒र्णा अ᳚मिनन्त{4}॒ एवै᳚ः कृ॒ष्णो नो᳚नाव वृष॒भो यदी॒दम् ।
शि॒वाभि॒र्न स्मय᳚मानाभि॒रागा॒त्पत᳚न्ति॒ मिहः᳚ स्त॒नय᳚न्त्य॒भ्रा ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । सु॒॑प॒र्णाः । अ॒मि॒न॒न्त॒ । एवैः᳚ । कृ॒ष्णः । नो॒ना॒व॒ । वृ॒ष॒भः । यदि᳚ । इ॒दम् ।
शि॒वाभिः᳚ । न । स्मय᳚मानाभिः । आ । अ॒गा॒त् । पत᳚न्ति । मिहः᳚ । स्त॒नय᳚न्ति । अ॒भ्रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तव सुपर्णाः शोभनपतना रश्मय एवृर्गंत्यभिर्मरुद्भिः सहामिनंत । आ समंतान्मेघं हिंसंति । वर्षणार्थं ताडयंति । प्रहृतश्च कृष्णः कृष्णवर्णो वृषभो वर्षिता मेघो नोनाव । भृशं शब्दमकरोत् । यदि यदेदमीदृशं कर्म तदानीं शिवाभिर्न सुखकारिणीभिः स्मयमानाभिर्हसनवतीभिः कांताभिरिव शुभ्रवर्णाभिः फेनयुक्ताभिरद्भिर्विद्युद्भिर्वा सहागात् । वैद्युताग्निप्रेरितः पर्जन्य आगच्छति । तदनंतरं मिह आपः पतंति । दिवः सकाशात्प्रवृष्टा भवंति । अभ्राभ्राण्यद्भिः पूर्णा मेघाः स्तनयंतिः । इतस्ततः शब्दं कुर्वंति ॥ अमिनंत । मीञ् हिंसायाम् । क्रैयादिकः । व्यत्ययेनांतादेशः । ईषाअक्षादित्वात्प्रकृतिभावः । अणोऽप्यगृहस्य (पा ८-४-५७) इति वैकल्पिकमवसाने विधीयमानमनुनासिकत्वं व्यत्ययेनात्र संहितायामपि द्रष्टव्यम् । नोनाव । नौतेर्यङ् लुगंताल्लिट्यमंत्रे (पा ३-१-३५) इति निषेधादाम्प्रत्ययाभावः । स्मयमानाभिः । स्मिङ् ईषद्धसने । शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । स्तनयंति । स्तन शब्दे । चुरादिरदंतः । पतंति स्तनयंतीत्यनयोः पादादित्वाद्वाक्यादित्वाच्च निघाताभावः ॥ २ ॥

1.79.3
यदी᳚मृ॒तस्य॒ पय᳚सा॒ पिया᳚नो॒ नय᳚न्नृ॒तस्य᳚ प॒थिभी॒ रजि᳚ष्ठैः ।
अ॒र्य॒मा मि॒त्रो वरु᳚ण॒ः परि᳚ज्मा॒ त्वचं᳚ पृञ्च॒न्त्युप᳚रस्य॒ योनौ᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । ई॒म् । ऋ॒तस्य᳚ । पय᳚सा । पिया᳚नः । नय᳚न् । ऋ॒तस्य᳚ । प॒थि॑भिः᳚ । रजि᳚ष्ठैः ।
अ॒र्य॒मा । मि॒त्रः । वरु᳚णः । परि᳚॑ज्मा । त्वच᳚म् । पृ॒ञ्च॒न्ति॒ । उप᳚रस्य । योनौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदीं यदायमग्निर्ऋतस्योदकस्य पयसा पयोवत्सारभूतेन रसेन पियानो जगदाप्यायनं कुर्वन् आप्यायितं च जगदृतस्योदकस्य संबंधिभी रजिष्ठैर्ऋजुतमैः पथिभिर्मार्गैः स्नानपानादिभिर्नयन् प्रापयन्वर्तते तदानीमर्यमा मित्रो वरुणश्च परिज्मा परितो गंता मरुद्गणश्चोपरस्य मेघस्य योनौ वृष्ट्युदकोत्पत्तिस्थाने त्वचं पृंचंति । वृष्ट्युदकस्याच्छादकं प्रदेशं स्वकीयैरायुधैः संयोजयंति । उद्भाटयंतीति यावत् ॥ पियानः । स्फायी ओप्यायी वृद्धौ । बहुलं छंदसीति शपो लुक् । धातोर्व्यत्ययेन पीभावः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । रजिष्ठैः । ऋजुशब्दादिष्ठनि विभाषर्जोश्छंदसि (पा ६-४-१६२) इत्यृकारस्य रत्वम् । टीरिति टलोपः । पृंचंति । पृची संपर्के । रौधादिकः ॥ ३ ॥

1.79.4
अग्ने॒ वाज᳚स्य॒ गोम᳚त॒ ईशा᳚नः सहसो यहो ।
अ॒स्मे धे᳚हि जातवेदो॒ महि॒ श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । वाज᳚स्य । गो॑म᳚तः । ईशा᳚नः । स॒ह॒सः॒ । य॒हो॒ इति᳚ ।
अ॒स्मे इति᳚ । धे॒हि॒ । जा॒त॒॑वे॒दः॒ । महि᳚ । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरनुवाकस्याग्नेये क्रतावौष्णिहे छंदस्याश्विनशस्त्रे चाग्ने वाजस्येत्याद्यास्तिस्र ऋचः । सूत्रितं च । अग्ने वाजस्येति तिस्रः पुरु त्वा त्वामग्ने (आ ४-१३) इति ॥

हे सहसो यहो बलस्य पुत्राग्ने गोमतो बहुभिर्गोभिर्युक्तस्य वाजस्यान्नस्येशान ईश्वरस्त्वमसि । अतोऽस्मे अस्मासु हे जातवेदो जातधन जातानां वेदितर्वाग्ने महि प्रभूतं श्रवोऽन्नं धेहि । स्थापय ॥ सहसो यहो । परांगवद्भावादामंत्रितस्य चेति षष्ठ्यामंत्रितसमुदायो निहन्यते । अस्मे । सुपां सुलुगिति सप्तम्याः शेआदेशः ॥ ४ ॥

1.79.5
स इ᳚धा॒नो वसु᳚ष्क॒विर॒ग्निरी॒ळेन्यो᳚ गि॒रा ।
रे॒वद॒स्मभ्यं᳚ पुर्वणीक दीदिहि ॥
▶ पदपाठः (Word-by-word)
सः । इ॒धा॒नः । वसुः᳚ । क॒विः । अ॒ग्निः । ई॒ळेन्यः᳚ । गि॒रा ।
रे॒वत् । अ॒स्मभ्य᳚म् । पु॒रु॒॑अ॒नी॒क॒ । दी॒दि॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निरिधानो दीपनशीलो वसुर्निवासयिता सर्वेषां कविः क्रांतदर्शनो मेधावी वा गिरा स्तोत्ररूपया वाचेळेन्यः स्तोतव्यो भवति । हे पुर्वणीक । अनीकम् । मुखम् । पुरुभिर्बह्वीभिरनीकस्थानीयाभिर्ज्वालाभिर्युक्ताग्ने अस्मभ्यं रेवद्धनयुक्तमन्नं यथा भवति तथा दीदिहि । दीप्यस्व ॥ इधानः । ञिइंधी दीप्तौ । ताच्छीलिकश्चानश् । बहुलं छंदसीति शपो लुक् । ईळेन्यः । ईड स्तुतौ । औणादिक एन्यप्रत्ययः । रेवत् । रयेर्मतौ बहुलमिति संप्रसारणम् । छंदसीर इति मतुपो वत्वम् । रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम् । का ६-१-१७६-१ । इति मतुप उदात्तत्वं ॥ दीदिहि । दीदेतिश्छांदसो दीप्तिकर्मा ॥ ५ ॥

1.79.6
क्ष॒पो रा᳚जन्नु॒त त्मनाग्ने॒ वस्तो᳚रु॒तोषसः᳚ ।
स ति᳚ग्मजम्भ र॒क्षसो᳚ दह॒ प्रति᳚ ॥
▶ पदपाठः (Word-by-word)
क्ष॒पः । रा॒ज॒न् । उ॒त । त्मना᳚ । अग्ने᳚ । वस्तोः᳚ । उ॒त । उ॒षसः᳚ ।
सः । ति॒ग्म॒॑ज॒म्भ॒ । र॒क्षसः᳚ । द॒ह॒ । प्रति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् राजनशीलाग्ने क्षपः । क्षपय । राक्षसादीन् स्वकीयैः पुरुषैर्दाधस्व । उतापि च त्मना न केवलमन्यैरेवात्मना च तन्बाधस्व । कदेति चेत् उच्यते । वस्तोः सर्वाण्यहानि उतापि चोषस उषःकालोपलक्षिता रात्रीः । अत्यंत संयोगे द्वितीया । सर्वेष्वहःसु सर्वासु रात्रिषु चेत्यर्थः । हे तिग्मजंभ तीक्ष्णमुखाग्ने रक्षसो राक्षसानुक्तप्रकारेण क्षपयित्वा स एव त्वं प्रति दह । प्रत्येकं दह । न किंचिद्दग्धव्यमित्युदास्वेत्यर्थः ॥ क्षपः । क्षप क्षांत्याम् । लोडर्थे छांदसो लङ् । छंदस्युभयथेति शप अर्धधातुकत्वाण्णेरनिटीति णिलोपः । उदात्तनिवृत्तिस्वरेण शप उदात्तत्वम् । त्मना । मंत्रेष्वाङ्यादेरात्मन इत्याकारलोपः । रक्षसः रक्ष पालने । रक्षितव्यमस्मादिति रक्षः । भीमादित्वात् (पा ३-४-७४) अपादानेऽसिप्रत्ययः । क्षरतेर्वा ण्यंतादसिप्रत्यये णिलोपो वर्णविपर्ययश्च । अस्य च रक्षः शब्दस्यासिप्रत्ययांतत्वात्प्रत्ययस्वर एव शिष्यते ॥ ६ ॥

1.79.7
अवा᳚ नो अग्न ऊ॒तिभि᳚र्गाय॒त्रस्य॒ प्रभ᳚र्मणि ।
विश्वा᳚सु धी॒षु व᳚न्द्य ॥
▶ पदपाठः (Word-by-word)
अव᳚ । नः॒ । अ॒ग्ने॒ । ऊ॒ति॑भिः᳚ । गा॒य॒त्रस्य᳚ । प्र॑भ᳚र्मणि ।
विश्वा᳚सु । धी॒षु । व॒न्द्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छंदस्यवा नो अग्न इत्याद्याः षडृचः । सूत्रितं च । अवानो अग्न इति षळग्निमीळेऽग्निं दूतम् (आ ४-१३) इति ॥ अश्विनशस्त्रे चैताः शंसनीयाः प्रातरनुवाकातिदेशात् ॥

विश्वासु धीषु सर्वेषु कर्मसु वंद्य स्तुत्य हे अग्ने गायत्रस्य गायत्र साम्नो गायत्रीच्छंदस्कस्य सूक्तस्य वा प्रभर्मणि प्रभरणे संपादने निमित्तभूते सति सोऽस्मानूतिभिस्त्वदियैः पालनैरव । रक्ष ॥ अव । द्वच्योऽतस्तिङ इति संहितायां दीर्घत्वं ॥ ७ ॥

1.79.8
आ नो᳚ अग्ने र॒यिं भ᳚र सत्रा॒साहं॒ वरे᳚ण्यम् ।
विश्वा᳚सु पृ॒त्सु दु॒ष्टर᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अ॒ग्ने॒ । र॒यिम् । भ॒र॒ । स॒त्रा॒॑सह᳚म् । वरे᳚ण्यम् ।
विश्वा᳚सु । पृ॒त्॑सु । दु॒स्तर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने रयिं धनं नोऽस्मभ्यमा भर । प्रयच्छ । कीदृशम् । सत्रासाहं सत्रा सह युगपदेव दारिद्र्यस्य नाशकम् । वरेण्यं सर्वैर्वरणीयं विश्वासु पृत्सु सर्वेषु संग्रामेषु दुष्टरं शत्रुभिस्तरीतुमशक्यं ॥ सत्रासाहम् । छंदसि सह इतिण्विः । वरेण्यम् । वृञ एण्यः । पृत्सु । पदादिषु मांस्पृत्सून्न नामुपसंख्यानमिति पृतनाशब्दस्य पृद्भावः सावेकाच इति विभक्तेरुदात्तत्वं ॥ ८ ॥

1.79.9
आ नो᳚ अग्ने सुचे॒तुना᳚ र॒यिं वि॒श्वायु᳚पोषसम् ।
मा॒र्डी॒कं धे᳚हि जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अ॒ग्ने॒ । सु॒॑चे॒तुना᳚ । र॒यिम् । वि॒श्वायु᳚॑पोषसम् ।
मा॒र्डी॒कम् । धे॒हि॒ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयुष्कामेष्व्यां प्रथमस्याज्यभागस्यानुवाक्या आ नो अग्न इति । सूत्रितं च । आयुष्कामेष्ट्यां जीवातुमंतावा नो अग्ने सुचेतुना (आ २-१०) इति ॥ महापितृयज्ञेऽप्येषैव प्रथमाज्यभागानुवाक्या । सूत्रितं च । जीवातुमंतौ सव्योत्तर्यपस्थाः । आ । २-१९ । इति ॥

हे अग्ने नोऽस्माकं जीवसे जीवनाय सुचेतुना शोभनेन ज्ञानेन युक्तं रयिं धनमा धेहि । अस्थापय । कीदृशम् । मार्डीकम् । मृडीकं सुखम् । तद्धेतुभूतम् । विश्वायुपोषसम् । विश्वमायुर्यस्मिन् शरीरादौ तद्विश्वायु । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । तत्पुष्णातीति विश्वायुपोषाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वम् । तत्पुष्णातीति विश्वायुपोषाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् पूर्वपद प्रकृतिस्वरत्वं च । सकारलोपश्छांदसः । दीर्घायुत्वाय वर्चस इति यथा ॥ ९ ॥

1.79.10
प्र पू॒तास्ति॒ग्मशो᳚चिषे॒ वाचो᳚ गोतमा॒ग्नये᳚ ।
भर᳚स्व सुम्न॒युर्गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । पू॒ताः । ति॒ग्म॑शो᳚चिषे । वाचः᳚ । गो॒त॒म॒ । अ॒ग्नये᳚ ।
भर᳚स्व । सु॒म्न॒॑युः । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गोतम सूक्तद्रष्टः सुम्नयुः सुम्नं धनमात्मन इच्छंस्त्वं तिग्मशोचिषे तीक्ष्णज्वालायाग्नये पूताः शुद्धा वाचोऽग्नेर्गुणान् सम्यगभिदधतीर्गिरः स्तुतीः प्रभरस्व । प्रकर्षेण संपादय ॥ तिग्मशोचिषे । तिज निशाने । युजिरुचितिजां कुत्वं च (उ १-१४५) इति मक् । तिग्मानि शोचींषि यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुम्नयुः । सुम्नशब्दात्क्यचि न छंदस्यपुत्रस्येतीत्वदीर्घयोः प्रतिषेधः । क्याच्छंदसीत्युप्रत्ययः ॥ १० ॥

1.79.11
यो नो᳚ अग्ने॑भि॒दास॒त्यन्ति᳚ दू॒रे प᳚दी॒ष्ट सः ।
अ॒स्माक॒मिद्वृ॒धे भ᳚व ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । अ॒ग्ने॒ । अ॒भि॒॑दास᳚ति । अन्ति᳚ । दू॒रे । प॒दी॒ष्ट । सः ।
अ॒स्माक᳚म् । इत् । वृ॒धे । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नोऽस्मान् अंत्यंतिके समीपे दूरे विप्रकृष्वदेशेऽवस्थितः सन् यः शत्रुरभिदासति उपक्षपयति स शत्रुः पदीष्व । पततु । नश्यतु । त्वं चास्माकमित् अस्माकमेव वृधे वर्धनाय भव ॥ अभिदासति । दसु उपक्षये । अस्माण्यंताल्लट च्छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । अंति । कादिलोपो बहुलमिति वक्तव्यमित्यंतिकशब्दस्य ककारलोपः । वृधे । वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ११ ॥

1.79.12
स॒ह॒स्रा॒क्षो विच᳚र्षणिर॒ग्नी रक्षां᳚सि सेधति ।
होता᳚ गृणीत उ॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒ह॒स्र॒॑अ॒क्षः । वि॑च᳚र्षणिः । अ॒ग्निः । रक्षां᳚सि । से॒ध॒ति॒ ।
होता᳚ । गृ॒णी॒ते॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्राक्षोऽसंख्यातज्वालो विचर्षणिर्विशेषेण सर्वस्य द्रष्टायमग्नी रक्षांसि सेधति । प्रतिषेधति । यज्ञान्निर्गमयति । स चाग्निरुक्थ्य उक्थ्यः शस्त्रैरस्माभिः स्तूयमानः सन् होता देवानामाह्वाता भूत्वा गृणीते । तान्स्तौति ॥ सहस्राक्षः । बहुव्रीहौ सक्थ्यक्ष्णोरिति षच् समासांतः । सति शिष्वत्वात्तस्यैव स्वरः शिष्यते । सेधति । षिधु गत्यां अत्र केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । गृणीते । गृ शब्दे । प्वादीनां ह्रस्व इति ह्रस्वत्वं ॥ १२ ॥