श्रवणम्

1.79.9
आ नो᳚ अग्ने सुचे॒तुना᳚ र॒यिं वि॒श्वायु᳚पोषसम् ।
मा॒र्डी॒कं धे᳚हि जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अ॒ग्ने॒ । सु॒॑चे॒तुना᳚ । र॒यिम् । वि॒श्वायु᳚॑पोषसम् ।
मा॒र्डी॒कम् । धे॒हि॒ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयुष्कामेष्व्यां प्रथमस्याज्यभागस्यानुवाक्या आ नो अग्न इति । सूत्रितं च । आयुष्कामेष्ट्यां जीवातुमंतावा नो अग्ने सुचेतुना (आ २-१०) इति ॥ महापितृयज्ञेऽप्येषैव प्रथमाज्यभागानुवाक्या । सूत्रितं च । जीवातुमंतौ सव्योत्तर्यपस्थाः । आ । २-१९ । इति ॥

हे अग्ने नोऽस्माकं जीवसे जीवनाय सुचेतुना शोभनेन ज्ञानेन युक्तं रयिं धनमा धेहि । अस्थापय । कीदृशम् । मार्डीकम् । मृडीकं सुखम् । तद्धेतुभूतम् । विश्वायुपोषसम् । विश्वमायुर्यस्मिन् शरीरादौ तद्विश्वायु । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । तत्पुष्णातीति विश्वायुपोषाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वम् । तत्पुष्णातीति विश्वायुपोषाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् पूर्वपद प्रकृतिस्वरत्वं च । सकारलोपश्छांदसः । दीर्घायुत्वाय वर्चस इति यथा ॥ ९ ॥