इन्द्रं॒ विश्वे᳚ स॒जोष᳚सो दे॒वासो᳚ दधिरे पु॒रः ।
इन्द्रा᳚य॒ विश्वा॒ सव᳚नानि॒ मानु᳚षा रा॒तानि᳚ सन्तु॒ मानु᳚षा ॥
पदपाठः (Word-by-word)
इन्द्र᳚म् । विश्वे᳚ । स॒॑जोष᳚सः । दे॒वासः᳚ । द॒धि॒रे॒ । पु॒रः ।
इन्द्रा᳚य । विश्वा᳚ । सव᳚नानि । मानु᳚षा । रा॒तानि᳚ । स॒न्तु॒ । मानु᳚षा ॥
सायणभाष्यम् (Sayana Commentary)
द्यौः द्योतनशीलोद्युलोकः तन्निवासीदेवसंघोवा सचासुरोनिरसनशीलः शत्रूणामपुण्यकृतामेव तन्निवासात् इन्द्रायहि इन्द्रायैव अनम्नतस्वयमेवप्रह्वोभवति नमेश्छान्दसेलङि कर्मकर्तर्यात्मनेपदं नदुहस्नुनमामितियागभावः छान्दसःशपःश्लुःहलादिशेषाभावश्च अनुनासिकलोपः हिशब्दःप्रसिद्भ्य- र्थोवा तथा इन्द्रायेन्द्रार्थं महीमहतीपृथिवीभूमिः तत्रत्यः सर्वोजनोवा अनम्नतउभयत्राश्रयवाचिश- ब्देनाश्रयीलक्ष्यते ग्रामआगच्छति इतिवत् केनसाधनेनेतितदुच्यते—वरीमभिर्वरणीयैःस्तोत्रैर्हविर्भि- र्वा किंच द्युम्नसाताद्युम्नसातौ अन्नस्ययशसोवालाभनिमित्ते सति वरीमभिः वरणीयैर्हविर्भिर्युक्ताय- जमानाः प्रह्वाभवन्ति किंच इन्द्रमेवविश्वे सर्वेदेवासोदेवाः सजोषसः समानप्रीतियुक्ताः ऎकमत्य- भाजः पूर्वंअसुरजयार्थं पुरोदधिरे पुरतः स्थापितवन्तः इन्द्रमुखेनैवासुराञ्चितवन्तइत्यर्थः तथा विश्वा विश्वानिसर्वाणिमनुषा सवनानिमनुष्याणां संबन्धीन्यभिषवयुक्तानिप्रातरादिसवनानि इन्द्राय सन्तु इन्द्रायैवभवन्तु तथा मानुषा मनुष्याणां ऋत्विजां संबन्धीनि रातानि दातव्यानिपुरोडाशादीनि इन्द्रायहि इन्द्रायैव सन्तु इन्द्रं प्रीणयितुंसमर्थानिभवन्त्वित्यर्थः ॥ १ ॥