प्रथमं मण्डलम् - सूक्तम् 82

6 ऋचः

ऋषिः: गोतमो राहूगणः देवता: इंद्रः छन्दः: पंक्तिः

सूक्तम् 1.82 - सम्पूर्णम्

1 / 6
ऋक्: 1.82.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.82.1
उपो॒ षु शृ᳚णु॒ही गिरो॒ मघ᳚व॒न्मात᳚था इव ।
य॒दा नः᳚ सू॒नृता᳚वत॒ः कर॒ आद॒र्थया᳚स॒ इद्योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ॥
▶ पदपाठः (Word-by-word)
उपो॒ इति᳚ । सु । शृ॒णु॒हि । गिरः᳚ । मघ᳚॑वन् । मा । अत᳚थाः॑इव ।
य॒दा । नः॒ । सू॒नृता᳚॑वतः । करः᳚ । आत् । अ॒र्थया᳚से । इत् । योज᳚ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उपो ष्विति षड्बचं नवमं सूक्तं गोतमस्यार्षमैंद्रम् । अंत्या जगती । आद्याः पंक्तयः । अनुक्रांतं च । उपोषु षट् जगत्यंतमिति ॥ सूक्तविनियोगो लैंगिकः ॥ षोडशिशस्त्र आद्या सुसंदृशमित्यादिके द्वे ऋचौ च विनियुज्यते । अथ षोडशीति खंडे सूत्रितम् । उपो षु शृणुही गिरः सुसंदृशं त्वा वयं मघवन्नित्येका द्वे च पंक्ती । (आ । ६-२) इति

हे मघवन् धनवन्निंद्र गिरोऽस्मदीयाः स्तुतीरुपो उपैव सु शृणुहि । उपगत्य सम्यक् शृणु । अतथा इव पूर्वं यथाविधस्त्वं तद्विपरीतो मा भूः । अस्मासु पूर्वं यथानुग्रहबुद्धियुक्तस्तथाविध एव भवेत्यर्थः । अपि च नोऽस्मान् सूनृतावतः । प्रियसत्यात्मिका वाक् सूनृता । तया स्तुतिरूपया वाचा युक्तान्यदा करः करोषि आदनंतरं त्वमप्यर्थयास इत् । अर्थयस एव । याचयस एव । न तूदास्से । अस्माभिः प्रयुक्ताः स्तुतीस्त्वमपि स्वीकरोषीत्यर्थः । अतो हे इंद्र ते हरी त्वदीयावश्वौनु क्षिप्रं योज । रथे योजय ॥ शृणुहि । उतश्च प्रत्ययाच्छंदसि वा वचनमिति वचनादुतश्च प्रत्ययादिति हेर्लुगभावः । अतथा इव । तथेवाचरति तथाति । सर्वप्रातिपदिकेभ्य इत्येके । का ३-१-११-२ । इति क्विप् । तथातेरप्रत्ययः । न तथा इव अतथा इव । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । करः । डुकृञ् करणे । लुङि कृमृदृरुहिभ्यश्छंदसीति च्लेरङादेशः । नन्वङः सति शिष्टत्वात् चित्स्वरेणांतोदात्तेन भवितव्यम् । तर्हि लङिव्यत्ययेन शप् । ननु डुकृञ् करण इति भूवादौ पठ्यते । अतो व्यत्ययः कस्मात् क्रियत इति चेत् नैवम् । यस्मादस्य धातोस्तत्र पाठोऽनार्षः । तथा हि । कः करत्करतीत्यत्र यदाहतुर्न्यासकारहरदत्तौ व्यत्ययेन शबिति तस्मादस्य धातोर्भूवादौ पाठो नास्तीति गम्यते । किंच यद्ययं पठ्येत करदित्येवमादिरूपसिद्ध्यर्थं कृमृदृरुहिभ्यश्छंदसीति करोतेरङ् विधानमनर्थकं स्यात् । अस्माल्लङि शप्यस्य रूपस्य सिद्धिः । लङ् लुङोरर्थभेदाल्लुङ्येतद्रूपसिद्धये कर्तव्यमङ्विधानमिति चेन्न । छंदसि लुङ् लङ् लिट इति लुङादीनामेकत्र विधानेनार्थभेदाभावादित्यनेन प्रकारेणास्माभिर्धातुवृत्तावयं धातुर्निराकृतः । अतो व्यत्ययेनेति सिद्धम् । अर्थयासे । अर्थ याज्ञायाम् । चुरादिरात्मनेपदी । लेट्याडागमः । योज । युजिर् योगे । ण्यंताल्लोट छंदस्युभयथेति शप अर्धधातुकत्वाण्णेरनिटीति णिलोपः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वं ॥ १ ॥

1.82.2
अक्ष॒न्नमी᳚मदन्त॒ ह्यव᳚ प्रि॒या अ᳚धूषत ।
अस्तो᳚षत॒ स्वभा᳚नवो॒ विप्रा॒ नवि᳚ष्ठया म॒ती योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ॥
▶ पदपाठः (Word-by-word)
अक्ष᳚न् । अमी᳚मदन्त । हि । अव᳚ । प्रि॒याः । अ॒धू॒ष॒त॒ ।
अस्तो᳚षत । स्व॑भा᳚नवः । विप्राः᳚ । नवि᳚ष्ठया । म॒ती । योज᳚ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वया दत्तान्यन्नान्यक्षन् । यजमाना भुक्तवंतः । भुक्त्वा चामीमदंत हि । तृप्ताश्चासन् । प्रियाः स्वकीयास्तनूरवाधूषत । अकंपयन् । अतिशयितरसास्वादनेन वक्तुमशक्नुवंतः शरीराण्यकंपयन् । तदनंतरं स्वभानवः स्वायत्तदीप्तयो विप्रा मेधाविनस्ते नविष्ठया नवितृतमया मती मत्या स्तुत्याऽस्तोषत । अस्तुवन् । अन्यत्पूर्ववद्योज्यं ॥ अक्षन् । अदेर्लुङि लुङ् सनोर्घस्लृ (पा २-४-३७) इति घस्लादेशः । मंत्रे घसेत्यादिना च्लेर्लुक् । गमहनेत्यादिनोपधालोपः । खरि चेति चर्त्वम् । शासिवसिघसीनां चेति षत्वम् । अडागम उदात्तः । अमीमदंत । मद तृप्तियोगे । चुरादिरात्मनेपदी । लुङि च्लेश्चङि णिलोपोपधाह्रस्वत्वद्विर्भावसन्वद्भावेत्वदीर्घाः । अधूषत । धूञ् कंपने । लुङि सिचि व्यत्ययेन गुणाभावः । यद्वा । छंदस्युभयथेति सिचः सार्वधातुकत्वेन ङित्त्वात् क्ङिति चेति प्रतिषेधः । अथवा धू विधूनने । तौदादिकः । कुटादिः । अस्मात्कर्मणि लुङि गाङ् कुटादिभ्य इति सिचो ङित्त्वाद्गुणाभावः नविष्ठया । णुस्तुतौ । करणभूताया अपि स्तुतेः स्वव्यापारे कर्तृत्वात्तृच् । तदंतात् तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयःस्स्विति तृलोपः । मती । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । मंत्रे वृषेषपचमनेति क्तिन उदात्तत्वं ॥ २ ॥

1.82.3
सु॒सं॒दृशं᳚ त्वा व॒यं मघ᳚वन्वन्दिषी॒महि᳚ ।
प्र नू॒नं पू॒र्णव᳚न्धुरः स्तु॒तो या᳚हि॒ वशा{4}॒ अनु॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒॑स॒न्दृश᳚म् । त्वा॒ । व॒यम् । मघ᳚॑वन् । व॒न्दि॒षी॒महि᳚ ।
प्र । नू॒नम् । पू॒र्ण॑व᳚न्धुरः । स्तु॒तः । या॒हि॒ । वशा᳚न् । अनु᳚ । योज᳚ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महापितृ यज्ञे सुसंदृ शमित्येषाहवनीयोपस्थापने विनियुक्ता । सूत्रितं च । आहवनीयं सुसंदृशं त्वेति पंक्त्या (आ २-१९) इति ॥

हे मघवन्निंद्र सुसंदृशं सुष्ट्वनुग्रहदृष्व्या सर्वस्य द्रष्टारं त्वा त्वां वयं वंदिषीमहि । स्तवामहि । स्तुतिकर्तारो भूयास्मेत्याशास्यते । अस्माभिर्वंदिभिः स्तुतस्त्वं पूर्णवंधुरः स्तोतृभ्यो देयैर्धनैः पूरितेन रथेन युक्तः सन् वशान् कामयमानानन्यान्यजमानान्प्रति नूनं प्र याहि । अवश्यं प्रतिष्ठस्व । योजेत्यादि पूर्ववत् ॥ वंदिषीमहि । वदि अभिवादनस्तुत्योः । आशीर्लिङ् । लिङ्चाशिषि (पा ३-४-११६) इति तस्यार्धधातुकत्वेन लसार्वधातुकस्वराभावे प्रत्ययाद्युदात्तत्वम् । मघवन्नित्यस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वे सति पादादित्वान्निघाताभावः ॥ ३ ॥

1.82.4
स घा॒ तं वृष᳚णं॒ रथ॒मधि᳚ तिष्ठाति गो॒विद᳚म् ।
यः पात्रं᳚ हारियोज॒नं पू॒र्णमि᳚न्द्र॒ चिके᳚तति॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ॥
▶ पदपाठः (Word-by-word)
सः । घ॒ । तम् । वृष᳚णम् । रथ᳚म् । अधि᳚ । ति॒ष्ठा॒ति॒ । गो॒॑विद᳚म् ।
यः । पात्र᳚म् । हा॒रि॒॑यो॒ज॒नम् । पू॒र्णम् । इ॒न्द्र॒ । चिके᳚तति । योज᳚ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स घ स खल्विंद्रो वृषणं कामाभिवर्षकं गोविदं गवां लंभयितारं तं रथमधि तिष्ठाति । ईदृशे रथेऽधितिष्ठतु । आरूढो भवतु । हे इंद्र यो रथो हारियोजनमेतत्संज्ञकं धानामिश्रितं पूर्णं सोमेन पूर्णं पात्रं चिकेतति ज्ञापयति । तं रथमधितिष्ठेति पूर्वेणान्वयः । अधिष्ठाय च त्वदीयावश्वौ क्षिप्रं योजय ॥ घ ऋचि तनुघेति दीर्घः । रथम् । अधिशीङ् स्थासां कर्म (पा १-४-४६) इत्यधिकरणस्य कर्मसंज्ञा । तिष्ठाति । तिष्ठतेर्लेट्याडागमः । चिकेतति । कित ज्ञाने । लेट्यडागमः । जुहोत्यादित्वाच्छपः श्लुः । बहुलं छंदसीति वक्तव्यम् । का ७-३-८७ १ । इति वचनान्नाभ्यस्तस्याचि पितीति लघूपधगुणप्रतिषेधो न भवति ॥ ४ ॥

1.82.5
यु॒क्तस्ते᳚ अस्तु॒ दक्षि᳚ण उ॒त स॒व्यः श᳚तक्रतो ।
तेन᳚ जा॒यामुप᳚ प्रि॒यां म᳚न्दा॒नो या॒ह्यन्ध᳚सो॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒क्तः । ते॒ । अ॒स्तु॒ । दक्षि᳚णः । उ॒त । स॒व्यः । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
तेन᳚ । जा॒याम् । उप᳚ । प्रि॒याम् । म॒न्दा॒नः । या॒हि॒ । अन्ध᳚सः । योज᳚ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो बहुकर्मवन्निंद्र ते त्वदीये रथे दक्षिणो दक्षिणपार्श्वस्थोऽश्वो युक्तोऽस्तु । उतापि च सव्यो वामपार्श्वस्थोऽपि युक्तोऽस्तु । तेन रथेनांधसः सोमलक्षणस्यान्नस्य पानेन मंदानो मत्तस्त्वं प्रियां प्रीणयित्रीं जायामुप याहि । सा यत्र वर्तते तत्र गच्छेत्यर्थः । तदर्थं हे इंद्र त्वदीयावश्वौ रथे क्षिप्रं योजय । अनयोत्तरया च पीतसोमस्येंद्रस्य स्वगृहं प्रति प्रस्थानं प्रतिपाद्यते ॥ मंदानः । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । लिटः कानच् । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यमिति द्विर्वचनाभावः । अंधसः । अद भक्षणे । अदेर्नुम् धश्च उ ४-२०५ । इत्यसुन् । धातोर्नुमागमो धकारांतादेशश्च ॥ ५ ॥

1.82.6
यु॒नज्मि᳚ ते॒ ब्रह्म᳚णा के॒शिना॒ हरी॒ उप॒ प्र या᳚हि दधि॒षे गभ᳚स्त्योः ।
उत्त्वा᳚ सु॒तासो᳚ रभ॒सा अ᳚मन्दिषुः पूष॒ण्वान्व᳚ज्रि॒न्त्समु॒ पत्न्या᳚मदः ॥
▶ पदपाठः (Word-by-word)
यु॒नज्मि᳚ । ते॒ । ब्रह्म᳚णा । के॒शिना᳚ । हरी॒ इति᳚ । उप᳚ । प्र । या॒हि॒ । द॒धि॒षे । गभ᳚स्त्योः ।
उत् । त्वा॒ । सु॒तासः᳚ । र॒भ॒साः । अ॒म॒न्दि॒षुः॒ । पू॒ष॒ण्॑वान् । व॒ज्रि॒न् । सम् । ऊं॒ इति᳚ । पत्न्या᳚ । अ॒म॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंत्येष्वहःसु हारियोजनस्य युनज्मीत्येषा याज्या । सूत्रितम् । युनज्मिते ब्रह्मणा केशिना हरी इति याज्यानुवाक्ये अंत्येष्वहःसु (आ ६-११) इति ॥

हे इंद्र केशिना केशयुक्तौ शिखावंतौ ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्ररूपेण मंत्रेण युनज्मि । रथे संयोजयामि । तेन रथेनोप प्र याहि । त्वद्गृहमुपगच्छ । गभस्त्योः । बाहुनामैतत् । बाह्वोरश्वबंधकान् रश्मीन् दधिषे । धारयस्व । त्वा त्वां सुतासो यज्ञेऽभिषुताः सोमा रभसा वेगवंतः । तीव्राः क्षिप्रं मदकारिण इत्यर्थः । उदमंदिषुः । उत्कृष्टमदयुक्तमकार्षुः । हे वज्रिन् अतस्त्वं स्वगृहं गत्वा पूषण्वान् । अत्र पूषन् शब्दः पुष्टौ वर्तते । पुष्टिर्वै पूषा पुष्टिमेवावरुंद्ध इति श्रुतेः । सोमपानजनितया पुष्ट्या युक्तः सन् पत्ना स्वभार्यया सह समु अमदः । सम्यगेव तृप्तो भव ॥ केशिना केशशब्दान्मत्वर्थीय इनिः । सुपां सुलुगिति विभक्तेराकारः । रभसाः । अर्श आदित्वा दच् । अमंदिषुः । व्यत्ययेन परस्मैपदम् । पूषण्वान् । पुष पुष्टौ । श्वन्नुक्षन्नित्यादौ पूषन्निति निपात्यते । तच्चात्र भावसाधनं द्रष्टव्यम् । पूषाऽस्यास्तीति पूषण्वान् । मादुपधाया इति मतुपो वत्वम् । नलोपेऽनो नुट् (पा ८-२-१६) इति नुट् । ह्रस्वनुड्छ्यां मतुबिति मतुप उदात्तत्वम् । अमदः । मदी हर्षे । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लङ् । श्यनि प्राप्ते व्यत्ययेन शप् ॥ ६ ॥