प्रथमं मण्डलम् - सूक्तम् 83

6 ऋचः

ऋषिः: गोतमो राहूगणः देवता: इंद्रः छन्दः: जगती

सूक्तम् 1.83 - सम्पूर्णम्

1 / 6
ऋक्: 1.83.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.83.1
अश्वा᳚वति प्रथ॒मो गोषु᳚ गच्छति सुप्रा॒वीरि᳚न्द्र॒ मर्त्य॒स्तवो॒तिभि᳚ः ।
तमित्पृ᳚णक्षि॒ वसु᳚ना॒ भवी᳚यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे᳚तसः ॥
▶ पदपाठः (Word-by-word)
अश्व᳚॑वति । प्र॒थ॒मः । गोषु᳚ । ग॒च्छ॒ति॒ । सु॒प्र॒॑अ॒वीः । इ॒न्द्र॒ । मर्त्यः᳚ । तव᳚ । ऊ॒ति॑भिः᳚ ।
तम् । इत् । पृ॒ण॒क्षि॒ । वसु᳚ना । भवी᳚यसा । सिन्धु᳚म् । आपः᳚ । यथा᳚ । अ॒भितः᳚ । वि॑चे᳚तसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वावतीति षडृचं दशमं सूक्तं गोतमस्यार्षमैंद्रं जागतम् । तथा चानुक्रांतम् । अश्वावति जागतमिति । अतिरात्रे तृतियो पर्याये ब्राह्मणाच्छंसिशस्त्र इदं सूक्तम् । सूत्रितं च । अश्वावति प्रोग्रां पीतिं वृष्ण इयर्मि सत्यामिति याज्या (आ ६-४) इति ॥

हे इंद्र यो मर्त्यो मनुष्यस्तवोतिभिस्त्वदीयै रक्षणैः सुप्रावीः सुष्ठु प्ररक्षितो भवति स मर्त्योऽश्वावति बहुभिरश्वैर्युक्ते गृहे वर्तमानो गोषु प्राप्तव्येषु प्रथमो गच्छति । सर्वेभ्यो यजमानेभ्यः पूर्वमेव गोमान् भवतीत्यर्थः । त्वं तमित् तमेव पुरुषं भवीयसा बहुतरेण भवितृतमेन वा शतसहस्रादिसंख्यायुक्तेन वसुना धनेन पृणक्षि । संपृक्तं संपूर्ण करोषि । तत्र दृष्टांतः । विचेतसो विशिष्टज्ञानहेतुभूता आपो यथाभितः सर्वासु दिक्षु सिंधुं समुद्रं पूरयंति तद्वत् ॥ अश्वावति । मंत्रे सोमाश्वेति मतौ दीर्घत्वम् । सुप्रावीः । अवितृस्तृतंत्रिभ्य ईः (उ ३-१५८) इत्यवतेरीकारप्रत्ययः । ऊतिभिः । ऊतियूतीत्यादिना क्तिन उदात्तत्वम् । पृणक्षि । पृची संपर्के । रौधादिकः । भवीयसा । बहुशब्दादीयसुनि बहोर्लॊपो भू च बहोरिति बहुशब्दस्य भूभाव ईयसुन ईकारलोपश्च । अत्र तु च्छांदसत्वादीकारलोपो न क्रियते भूभावश्च क्रियते । अथवा भवितृशब्दात्तुश्छंदसीतीयसुन् । तुरिष्ठेमेयःस्विति तृलोपः ॥ १ ॥

1.83.2
आपो॒ न दे॒वीरुप᳚ यन्ति हो॒त्रिय᳚म॒वः प᳚श्यन्ति॒ वित᳚तं॒ यथा॒ रजः᳚ ।
प्रा॒चैर्दे॒वास॒ः प्र ण᳚यन्ति देव॒युं ब्र᳚ह्म॒प्रियं᳚ जोषयन्ते व॒रा इ᳚व ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । न । दे॒वीः । उप᳚ । य॒न्ति॒ । हो॒त्रिय᳚म् । अ॒वः । प॒श्य॒न्ति॒ । वि॑त᳚तम् । यथा᳚ । रजः᳚ ।
प्रा॒चैः । दे॒वासः᳚ । प्र । न॒य॒न्ति॒ । दे॒व॒॑युम् । ब्र॒ह्म॒॑प्रिय᳚म् । जो॒ष॒य॒न्ते॒ । व॒राः॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपोनप्त्रीये होतृचमसेऽद्भिः पूर्यमाण आपो न देवीरित्येषानुवक्तव्या । सूत्रितं च । आपो न देवीरुप यंति होत्रियमिति समाप्य (आ ५-१) इति ब्राह्मणं च भवति । आपो न देवीरुप यंति होत्रियमिति होतृचमसे सम वनीयमानास्वन्वाह । ऐ ब्रा । २-२० । इति ॥

होत्रियं होतुः स्वभूतं चमसं देवीर्देव्यो द्योतमाना आपो न यथाप उप यंति उपगच्छंति तद्वदुपरि वर्तमाना देवा एतमेव चमसमवोऽवस्तात्पश्यंति । होतृचमसेऽस्माकं सोमाभिषवायापः पूरिता इति तेषां दृष्टिरप्यस्मिन् संलग्नाभूत् । तत्र दृष्टांतः । विततं विस्तीर्णं रजो ज्योतिः सूर्यसंबंधि यथा निरंतरमवस्तात्पतति तद्वत् । देवयुं देवान् कामयमानमेतं चमसु प्राचैः प्राचीनं यद्वा प्रांचनैः प्रगमनैरुत्तरवेद्यभिमुखं होमकाले प्रणयंति । होमार्थे प्रणीतं बह्मप्रियं ब्रह्मणा सोमलक्षणेनान्ने प्रीतं संतृप्तम् । पूरितमित्यर्थः । जोषयंते । सर्वे देवास्तं चमसं सेवंते । वरा इव कन्यकाम् । यथा वरा ममेयं भविष्यति ममेयं भविष्यतीति कन्यकां सेवंते । एवं देवा अपि ममायं सोमो ममायं सोम इत्यस्य पार्श्वे वर्तंत इत्यर्थः । एवमपोनप्त्रियविनियोगानुसारेण योजितं मंत्रस्यानुष्ठेयार्थप्रकाशकत्वात् ॥ यदा तु रात्रिपर्याऽयेस्या विनियोगस्तदा त्वेवं व्याख्येयम् । हे इंद्र देव्य आपो यथा निम्न देशमुपगच्छंति एवं देवास्त्वदीयं स्तोत्रं शुश्रूषमाणा होत्रियं होतृसंबंधि धिष्ण्यस्थानमुपगच्छंति । उपगत्य चावस्तात्पश्यंति विततं ज्योतिरिव । देवयुं देवानात्मन इच्छंतमेतं शंसितारमागताः सर्वे देवाः प्राचीनं प्रणयंति । अग्रतो धारयंति । ब्रह्मप्रियं स्तोत्रप्रियं त्वां शंसंतं वराः कन्यका इव सेवंते ॥ होत्रियम् । होतृशब्दात्तस्येदमर्थे घप्रत्ययः अवः । पूर्वाधरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययांतोदात्तः । प्राचैः । उच्चैर्नीचैरितिवदव्ययम् । यद्वा । प्रपूर्वादंचतेर्घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थमितिपरिगणनस्योपलक्षणार्थत्वाद्भावे कप्रत्ययः । अनिदितामिति नलोपः । जोषयंतेजुषी प्रीतिसेवनयोः । स्वात्मनः प्रयोज्यत्वाद्धेतुमति णिच् ॥ २ ॥

1.83.3 समानपद
अधि॒ द्वयो᳚रदधा उ॒क्थ्यं१॒᳚ वचो᳚ य॒तस्रु᳚चा मिथु॒ना या स᳚प॒र्यतः᳚ ।
असं᳚यत्तो व्र॒ते ते᳚ क्षेति॒ पुष्य᳚ति भ॒द्रा श॒क्तिर्यज᳚मानाय सुन्व॒ते ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । द्वयोः᳚ । अ॒द॒धाः॒ । उ॒क्थ्य᳚म् । वचः᳚ । य॒त॑स्रु᳚चा । मि॒थु॒ना । या । स॒प॒र्यतः᳚ ।
अस᳚म्॑यत्तः । व्र॒ते । ते॒ । क्षे॒ति॒ । पुष्य᳚ति । भ॒द्रा । श॒क्तिः । यज᳚मानाय । सु॒न्व॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रवर्ग्याभिष्टवेऽधि द्वयोरित्येषा । स्पृष्ट्वोदकमिति खंडे सूत्रितम् । अधि द्वयोरदधा उक्थ्यं वचः शुक्रं ते अन्यद्यजतं ते अन्यत् (आ ४-६) इति ॥ हविर्धानप्रवर्तनेऽप्येषा । सूत्रितं च । यमे इव यतमाने यदैतमधिद्वयोरदध उक्थ्यं वच इत्यर्धर्च आरमेत् (आ ४-९) इति ॥

हे इंद्र द्वयोर्हविर्धानयोरुक्थ्यम् । उक्थ्यं शस्त्रम् । तद्योग्रं वचो युजे वामित्यादिमंत्ररूपं वचनमध्यदधाः । निहितवानसि । ननु हविर्धानयोर्ध्वयोः कथमेकमेव वचोऽधिनिधीयत इत्याशंक्य ब्राह्मणेनैवं व्याख्यातम् । अधिद्वयोरदधा उक्थ्यं वच इति द्वयोर्ह्येतत्तृतीयं छदिरधिनिधीयत उक्थ्यं वच इति यदाह यज्ञियं वै कर्मोक्थ्यं वचो यज्ञमेवैतेन समर्धयति । ऐ ब्रा १-२९ । इति । तत्र यथा हविर्धानद्वय एकमेव तृतीयं छदिरधिनिधीयते एवं स्तोत्रमप्युभयोरेकं युक्तम् । उक्थं नाम यज्ञ संबंधि शस्त्रं तद्योग्यं वचनमपि यज्ञियं कर्म । तस्य यज्ञ रूपयोर्हविर्धानयोर्यज्ञ त्वसंपादनायाधिनिधानाद्यज्ञोऽपि समृद्धो भवति । कीदृशयोर्हविर्धानयोः । यतस्रुचा । यताः संबद्धाः स्रुचो ग्रहचमसादिलक्षणानि पात्राणि ययोस्ते । मिथुना युगलरूपेण वर्तमाने या ये हविर्धाने त्वां सपर्यतः पूजयतस्तयोरित्यर्थः । किंच ईदृग्रूपहविर्धानयुक्तो यजमानोऽसंयत्तः शत्रुभिः सह युद्धार्थ मनभिगतः सन् ते व्रते त्वदीये कर्मणि क्षेति । निवसति । पुष्यति च । प्रजया पशुभिश्च पुष्टो भवति च । सुन्वते त्वद्देवत्ये यागे सोमाभिषवं कुर्वतो यजमानस्य भद्रा कल्याणिी शक्तिरुत्कृष्वं बलं भवति । एतत्सर्वं हविर्धानयोरुक्थ्यस्य वचसोऽधिनिधानेन त्वया कृतमित्यर्थः ॥ यतस्रुचा । यम उपरमे । निष्ठायामनुदात्तोपदेशेत्यादिनानुनासिकलोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इदमादिषु त्रिषु पदेषु सुपां सुलुगिति विभक्तेराकारः । सपर्यतः । सपर पूजायाम् । कंड्वादिभ्यो यक् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे तस्यैव स्वरः शिप्यते । क्षेति । क्षि निवासगत्योः । बहुलं छंदसीति विकरणस्य लुक् । सुन्वते । षष्ठ्यर्थे चतुर्थी वक्तव्येति चतुर्थी । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ ३ ॥

1.83.4
आदङ्गि᳚राः प्रथ॒मं द᳚धिरे॒ वय᳚ इ॒द्धाग्न᳚य॒ः शम्या॒ ये सु᳚कृ॒त्यया᳚ ।
सर्वं᳚ प॒णेः सम᳚विन्दन्त॒ भोज᳚न॒मश्वा᳚वन्तं॒ गोम᳚न्त॒मा प॒शुं नरः᳚ ॥
▶ पदपाठः (Word-by-word)
आत् । अङ्गि᳚राः । प्र॒थ॒मम् । द॒धि॒रे॒ । वयः᳚ । इ॒द्ध॑अ᳚ग्नयः । शम्या᳚ । ये । सु॒॑कृ॒त्यया᳚ ।
सर्व᳚म् । प॒णेः । सम् । अ॒वि॒न्द॒न्त॒ । भोज᳚नम् । अश्व᳚॑वन्तम् । गो॑म᳚न्तम् । आ । प॒शुम् । नरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदा पणिभिर्गावोऽपहृतास्तदानीमंगिरा अंगिरसः प्रथमं पूर्वमग्रतो वयो हविर्लक्षणमन्नं दधिरे । इंद्रार्थं संपादितवंतः । आदनंतरं तादृशा येऽंगिरस इद्धाग्नयः प्रज्वलिताग्नियुक्ताः संतः सुकृत्यया शोभनकरणोपेतया शम्या कर्मणा शोभनेन यागेनेंद्रमयजन्निति शेषः । ते नरो यज्ञस्य नेतारोऽंगिरसः पणेरेतन्नाम्नोऽसुरस्य संबंधि सर्वं भोजनं धनं समविंदंत । समलभंत । कीदृशम् । अश्वावंतं अश्वैर्युक्तं गोमंतं गोभिर्युक्तम् । आकारः समुच्चये । गवाश्वव्यतिरिक्तमन्यत्पशुजातं च समविंदंत ॥ अंगिराः । सुपां सुलुगिति जसः सुः । शम्या । शमीति कर्मनाम । शाम्यत्यनया क्रियया दोषजातमिति शमी । करणे घञ । नोदात्तोपदेशस्य मांतस्यानाचमेः (पा ७-३-३४) इति वृद्धिप्रतिषेधः । गौरादित्वात् ङीष् । व्यत्ययेनाद्युदात्तश्वम् । सुकृत्यया । शोभनं कृत्यं करणं यस्यां सा तथोक्ता । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ४ ॥

1.83.5
य॒ज्ञैरथ᳚र्वा प्रथ॒मः प॒थस्त᳚ते॒ तत॒ः सूर्यो᳚ व्रत॒पा वे॒न आज᳚नि ।
आ गा आ᳚जदु॒शना᳚ का॒व्यः सचा᳚ य॒मस्य᳚ जा॒तम॒मृतं᳚ यजामहे ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञैः । अथ᳚र्वा । प्र॒थ॒मः । प॒थः । त॒ते॒ । ततः᳚ । सूर्यः᳚ । व्र॒त॒॑पाः । वे॒नः । आ । अ॒ज॒नि॒ ।
आ । गाः । आ॒ज॒त् । उ॒शना᳚ । का॒व्यः । सचा᳚ । य॒मस्य᳚ । जा॒तम् । अ॒मृत᳚म् । य॒जा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पणिभिरपहृतासु गोष्वथर्वैतत्संज्ञ ऋषिर्यज्ञैरिंद्रदेवत्यैरनुष्ठितैर्यागैः पथो गोसंबंधिनो मार्गान् प्रथमस्तते । तनुते । सर्वेभ्य ऋषिभ्य पूर्वमेव कृतवानित्यर्थः । ततस्तदनंतरं व्रतपा व्रतानां कर्मणां पालयिता वेनः कांतः सूर्यः सूर्यरूप इंद्र आजनि । गवां प्रदर्शनायाविरभूत् । ततोऽथर्वा ता गा आजत् । आभिमुख्येन प्राप्नोत् । तादृशस्येंद्रस्य काव्यः कवेः पुत्र उशना भृगुः सचासुरनिरसनाय सहायोऽभूत् । यमस्यासुराणां नियमनार्थं जातं प्रादुर्भूतममृतं मरणरहितं तमिंद्रं यजामहे । हविर्भिः पूजयामः ॥ पथः । शसि भस्य टीर्लोप इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । तते । तनु विस्तारे । बहुलं छंदसीति विकरणस्य लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । अजनि । जनी प्रादुर्भावे । दीपजनबुधेत्यादिना । पा ३१-१-६१ । कर्तरि लुङि च्लेश्चिण् । आजत् । अज गतिक्षेपणयोः ॥ ५ ॥

1.83.6 समानपद
ब॒र्हिर्वा॒ यत्स्व᳚प॒त्याय᳚ वृ॒ज्यते॒॑र्को वा॒ श्लोक᳚मा॒घोष᳚ते दि॒वि ।
ग्रावा॒ यत्र॒ वद᳚ति का॒रुरु॒क्थ्य१॒᳚स्तस्येदिन्द्रो᳚ अभिपि॒त्वेषु᳚ रण्यति ॥
▶ पदपाठः (Word-by-word)
ब॒र्हिः । वा॒ । यत् । सु॒॑अ॒प॒त्याय᳚ । वृ॒ज्यते᳚ । अ॒र्कः । वा॒ । श्लोक᳚म् । आ॒॑घोष᳚ते । दि॒वि ।
ग्रावा᳚ । यत्र᳚ । वद᳚ति । का॒रुः । उ॒क्थ्यः᳚ । तस्य᳚ । इत् । इन्द्रः᳚ । अ॒भि॒॑पि॒त्वेषु᳚ । र॒ण्य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वपत्याय शोभनापतहेतुभूताय कर्मणे बर्हिर्वा यद्यदा वृज्यते छिद्यते अध्वर्युणा यागार्थमाह्रियते । अर्को वा स्तोत्रनिष्पादको होता वा श्लोकं स्तुतिरूपां वाचं दिवि द्योतमाने यज्ञे यदाघोषते उच्चारयति । यत्र यस्मिन्काले ग्रावाभिषवार्थं प्रवृत्त उपलो वदति शब्दं करोति । तत्र दृष्टांतः । कारुरुक्थ्यः । लुप्तोपममेतत् । उक्थ्यस्य शस्त्रस्य शंसिता कारुः स्तोता यथाभिमतशब्दं करोति तद्वत् । तस्य पूर्वोक्तस्य सर्वस्याभिपित्वेष्वभिप्राप्तिष्विंद्रो रण्यति । रमते । यद्वा । पूर्वोक्तानां बर्हिरादीनामभिप्राप्तिषु सतीष्विंद्रो रण्यति । अस्मदीयो यागो भविष्यतीति हर्पशब्दं करोति ॥ वृज्यते । वृजी वर्जने अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । आघोषते । घुषिर् विशब्दने । भौवादिकः । अत्रापि यदित्यस्य निपातस्यानुषंगान्निघाताभावः । रण्यति । रमु क्रीडायाम् । व्यत्ययेन श्यन् परस्मैपदं च । अंत्यविकारश्छांदसः । यद्वा । रण शब्दार्थः । व्यत्ययेन श्यन् ॥ ५ ॥