सर्वं᳚ प॒णेः सम᳚विन्दन्त॒ भोज᳚न॒मश्वा᳚वन्तं॒ गोम᳚न्त॒मा प॒शुं नरः᳚ ॥
पदपाठः (Word-by-word)
सर्व᳚म् । प॒णेः । सम् । अ॒वि॒न्द॒न्त॒ । भोज᳚नम् । अश्व᳚॑वन्तम् । गो॑म᳚न्तम् । आ । प॒शुम् । नरः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यदा पणिभिर्गावोऽपहृतास्तदानीमंगिरा अंगिरसः प्रथमं पूर्वमग्रतो वयो हविर्लक्षणमन्नं दधिरे । इंद्रार्थं संपादितवंतः । आदनंतरं तादृशा येऽंगिरस इद्धाग्नयः प्रज्वलिताग्नियुक्ताः संतः सुकृत्यया शोभनकरणोपेतया शम्या कर्मणा शोभनेन यागेनेंद्रमयजन्निति शेषः । ते नरो यज्ञस्य नेतारोऽंगिरसः पणेरेतन्नाम्नोऽसुरस्य संबंधि सर्वं भोजनं धनं समविंदंत । समलभंत । कीदृशम् । अश्वावंतं अश्वैर्युक्तं गोमंतं गोभिर्युक्तम् । आकारः समुच्चये । गवाश्वव्यतिरिक्तमन्यत्पशुजातं च समविंदंत ॥ अंगिराः । सुपां सुलुगिति जसः सुः । शम्या । शमीति कर्मनाम । शाम्यत्यनया क्रियया दोषजातमिति शमी । करणे घञ । नोदात्तोपदेशस्य मांतस्यानाचमेः (पा ७-३-३४) इति वृद्धिप्रतिषेधः । गौरादित्वात् ङीष् । व्यत्ययेनाद्युदात्तश्वम् । सुकृत्यया । शोभनं कृत्यं करणं यस्यां सा तथोक्ता । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ४ ॥