प्रथमं मण्डलम् - सूक्तम् 174

10 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.174 - सम्पूर्णम्

1 / 10
ऋक्: 1.174.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.174.1
त्वं राजे᳚न्द्र॒ ये च᳚ दे॒वा रक्षा॒ नॄन्पा॒ह्य᳚सुर॒ त्वम॒स्मान् ।
त्वं सत्प᳚तिर्म॒घवा᳚ न॒स्तरु᳚त्र॒स्त्वं स॒त्यो वस᳚वानः सहो॒दाः ॥
▶ पदपाठः (Word-by-word)
त्वम् । राजा᳚ । इ॒न्द्र॒ । ये । च॒ । दे॒वाः । रक्ष᳚ । नॄन् । पा॒हि । अ॒सु॒र॒ । त्वम् । अ॒स्मान् ।
त्वम् । सत्॑प᳚तिः । म॒घ॑वा᳚ । नः॒ । तरु᳚त्रः । त्वम् । स॒त्यः । वस᳚वानः । स॒हः॒॑दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंराजा अधिपतिः सर्वस्यजगतः किञ्च येदेवाः मरुदादयःसन्तितेषामपिविशेषेण अतोहे- असुर शत्रूणांनिरसितस्त्वंनॄनस्मान कर्मनेतॄन् यजमानान् रक्षपालय विशेषतोस्मानपिपाहिरक्ष त्वंच सत्पतिः सतांसतः कर्मफ्लस्यवापातामघवाधनवान् नोस्माकंतरुत्रः तारयितापापात् किञ्च त्वंस- त्यः अबाध्यः सत्यफलोवा वसवानः स्वतेजसार्वंछादयन् वसूनिवाकुर्वन् स्तोतृभ्यः सहोदाः सहसो- बलस्यदाताबवेतिशॆषः ॥ १ ॥

1.174.2
दनो॒ विश᳚ इन्द्र मृ॒ध्रवा᳚चः स॒प्त यत्पुर॒ः शर्म॒ शार᳚दी॒र्दर्त् ।
ऋ॒णोर॒पो अ᳚नव॒द्यार्णा॒ यूने᳚ वृ॒त्रं पु᳚रु॒कुत्सा᳚य रन्धीः ॥
▶ पदपाठः (Word-by-word)
दनः᳚ । विशः᳚ । इ॒न्द्र॒ । मृ॒ध्र॑वा᳚चः । स॒प्त । यत् । पुरः᳚ । शर्म᳚ । शार᳚दीः । दर्त् ।
ऋ॒णोः । अ॒पः । अ॒न॒व॒द्य॒ । अर्णाः᳚ । यूने᳚ । वृ॒त्रम् । पु॒रु॒॑कुत्सा᳚य । र॒न्धीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंवृत्रसंबंध्यसुराणांपुरभेदनसमयेमृध्रवाचः मर्षणवचनाः विशस्तदीयाःप्रजाः शर्मसुखं- यथाभदति तथा दनः अदमयः दमेरिदंरूपं यद्वा वर्णव्यत्ययःनदः अनदः अशब्दयः असुरप्रजाः अति- भयंकरशब्दमकरोः कदेत्याह यत् यदाशारदीःप्रत्यग्राः यद्वैतत्संवत्सरः लक्षकःसंवत्सरपर्यन्तं दृढीकृ- ताअपिसप्तपुरःएतत्संख्याकाः पुरीर्दर्त् अदारयः पुरुषव्यत्ययः दृणातेर्लङि छान्दसोविकरनस्यलुक् रात्सस्येतिनियमात्तलोपाभावः तथाकृत्वाहेअनवद्य अकातर यद्वा अनिंद्य हेइन्द्र अर्णा अरणशीलाः अपः तदीयदुर्गस्थान्युदकाश्रयाणि तटाकादीनिऋणोः अगमयः प्रावर्तयः भग्नान्यकरोः एवमुपद्रुत्य- पुरुकुत्सायएतन्नाम्नेराज्ञेयूनेनित्यतरुणायतदर्थं वृत्रमेतन्नामकमसुरंरन्धीः असाधयः अहनः अयमै- तिहासिकपक्षः निरुक्तरूढ्यातु हेइन्द्रमृधवाचोविशः मर्षणध्वनियुक्ताः वृष्टिरूपाः प्रजाः दनः अदम- यः अशब्दयोवाअवर्षयइत्यर्थः कदा यत् यदासप्तपुरः शारदीर्दर्त् सप्रणस्वभावाअपः ऋणोः अगमयः प्रावर्तयः कुल्यादिरूपेण अनन्तरंयूने पुरुकुत्सायवृत्रंमुख्यंमेघंरन्धीःअसाधयः अहनः अयमर्थः त्वंह- त्यदिन्द्रसप्तयुध्यन्नित्यादिमन्त्रान्तरेषुप्रसिद्धः । यास्कस्त्वेवंव्याख्यातवान्—दनोदानमनसोमनुष्या- निन्द्रमृदुवाचःकुर्विति ॥ २ ॥

1.174.3 समानपद
अजा॒ वृत᳚ इन्द्र॒ शूर᳚पत्नी॒र्द्यां च॒ येभि᳚ः पुरुहूत नू॒नम् ।
रक्षो᳚ अ॒ग्निम॒शुषं॒ तूर्व᳚याणं सिं॒हो न दमे॒ अपां᳚सि॒ वस्तो᳚ः ॥
▶ पदपाठः (Word-by-word)
अज᳚ । वृतः᳚ । इ॒न्द्र॒ । शूर᳚॑पत्नीः । द्याम् । च॒ । येभिः᳚ । पु॒रु॒॑हू॒त॒ । नू॒नम् ।
रक्षो॒ इति᳚ । अ॒ग्निम् । अ॒शुष᳚म् । तूर्व᳚याणम् । सिं॒हः । न । दमे᳚ । अपां᳚सि । वस्तोः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र शूरपत्नीः शूरैरक्षोभिः पालिताःवृतः वर्तन्तआस्वितिवृतः असुरपुरीः यद्वा शूरायजमाना- स्तैः पालिताः वृतोवेदिभूमीः अज गच्छ जेतुं तथा कृत्वाद्यांचनूनमवश्यमज किन्त्वमेकएव न हेपुरु- हूत बहुभिर्बहुधावा आहूतेन्द्र येभिर्मरुदादिभिर्नुगतोसितैः सहितःसन् तथाकृत्वाअशुषंआशोषयितारं अशान्तंवा तूर्वयाणंतूर्णगमनमग्निंवैद्युतंहोमाधारंवाग्निंरक्षस्वैव किमर्थं रक्षणमित्युच्यते दमेगृहेअपां- सिकर्माणिकुर्वन् वस्तोः वस्तुं यद्वा वासयितुंकारयितुमित्यर्थः यज्ञद्विट्सु हतेष्वग्नौसुस्थिरेसति या- गाद्यनुष्ठानपरःस्थास्यामीत्यर्थः रक्षणेदृष्टान्तः—सिंहोनसिंहइव सयथा स्वाश्रयभूतंवनंगजाद्युपद्र- वपरिहारेणरक्षतितद्वत् असुरपुरभङ्गगमनेवाद्रुष्टान्तः सिंहोयथानिर्भयोविरोधिमृगान् हन्तुंधाव- तितद्वत् ॥ ३ ॥

1.174.4
शेष॒न्नु त इ᳚न्द्र॒ सस्मि॒न्योनौ॒ प्रश᳚स्तये॒ पवी᳚रवस्य म॒ह्ना ।
सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी᳚ धृष॒ता मृ᳚ष्ट॒ वाजा᳚न् ॥
▶ पदपाठः (Word-by-word)
शेष᳚न् । नु । ते । इ॒न्द्र॒ । सस्मि᳚न् । योनौ᳚ । प्र॑श᳚स्तये । पवी᳚रवस्य । म॒ह्ना ।
सृ॒जत् । अर्णां᳚सि । अव᳚ । यत् । यु॒धा । गाः । तिष्ठ᳚त् । हरी॒ इति᳚ । धृ॒ष॒ता । मृ॒ष्ट॒ । वाजा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेशत्रवः सस्मिन् सर्वस्मिन्समानेवायोनौस्वकीयेस्थानेअन्तरिक्षेवा योनिरन्तरिक्षं नुक्षिप्रं- शेषन् शेरतां शीङोलेट्यडागमः व्यत्ययेनपरस्मैपदं सिब्बहुलमितिसिप् किमर्थं प्रशस्तये प्रशंसनाय त्वत्स्तुतयेत्वन्महिमाख्यापनायेत्यर्थः किंसेवनादिसाधनेन नेत्याह पवीरवस्यकुलिशस्यकुलिशशब्द- स्यवामह्नामहिम्ना त्वद्वज्रप्रहारेणहतामेघाः शत्रवोवातत्रैवशेरतेनिपतन्ति नपलायन्तइत्यर्थः किञ्च यत् यदायुधाप्रहरणसाधनेनायुधेनयुद्धेनवा गाः गच्छति तदार्णांस्युदकानि सृजः अवसृजः अवाङ्मु- खमपातयः पुरुषव्यत्ययः तदर्थंहरीअश्वौतिष्ठत् अध्यतिष्ठः अत्रापिपुरुषव्यत्ययः यद्वा यदाहरीअधि- तिष्ठसितदाअवसृजः अथैवंक्रुत्वावाजानन्नानिसस्यादिलक्षणानि धृषताधर्षकेणसामर्थ्येन मृष्टशोधय प्रवर्धयेत्यर्थः ॥ ४ ॥

1.174.5 समानपद
वह॒ कुत्स᳚मिन्द्र॒ यस्मि᳚ञ्चा॒कन्त्स्यू᳚म॒न्यू ऋ॒ज्रा वात॒स्याश्वा᳚ ।
प्र सूर᳚श्च॒क्रं वृ᳚हताद॒भीके॒॑भि स्पृधो᳚ यासिष॒द्वज्र᳚बाहुः ॥
▶ पदपाठः (Word-by-word)
वह᳚ । कुत्स᳚म् । इ॒न्द्र॒ । यस्मि᳚न् । चा॒कन् । स्यू॒म॒न्यू इति᳚ । ऋ॒ज्रा । वात᳚स्य । अश्वा᳚ ।
प्र । सूरः᳚ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके᳚ । अ॒भि । स्पृधः᳚ । या॒सि॒ष॒त् । वज्र᳚॑बाहुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र कुत्स्ंएतन्नामानमृषिंप्राप्तंस्यूमन्यू स्यूमकमितिसुखनाम तदिच्छन्तौसततगामिनौवाऋज्रा- ऋजुगामिनौवातस्यवायोः समानवेगौ अश्वा तदीयावश्वौवहप्रस्थापय यस्मिन्हविषि निमित्तभूतेस- तिकुत्संचाकन्कामयसेतर्पयसेवाहविरादिकंतदर्थंसूरः प्रेरकः सूर्यः चक्रंस्वमण्डलंस्वरथचक्रंवाअभीके- आसन्नदेशेप्रवृहतात् ऊर्ध्वंगमयतु प्रकाशयतु अथपरोक्षेणाह—वज्रबाहुरयमिन्द्रः स्पृधः सङ्ग्रामंकुर्व- तः शत्रूनभियासिषत् अभियातु ॥ ५ ॥

1.174.6
ज॒घ॒न्वा{4} इ᳚न्द्र मि॒त्रेरू᳚ञ्चो॒दप्र᳚वृद्धो हरिवो॒ अदा᳚शून् ।
प्र ये पश्य᳚न्नर्य॒मणं॒ सचा॒योस्त्वया᳚ शू॒र्ता वह᳚माना॒ अप᳚त्यम् ॥
▶ पदपाठः (Word-by-word)
ज॒घ॒न्वान् । इ॒न्द्र॒ । मि॒त्रेरू᳚न् । चो॒द॑प्र᳚वृद्धः । ह॒रि॒॑वः॒ । अदा᳚शून् ।
प्र । ये । पश्य᳚न् । अ॒र्य॒मण᳚म् । सचा᳚ । आ॒योः । त्वया᳚ । शू॒र्ताः । वह᳚मानाः । अप᳚त्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र हरिवः हरिभ्यांतद्वन् त्वंचोदप्रवृद्धः चोदनैःस्तोत्रैःप्रवृद्धःसन् अदाशून् अदातॄन् मित्रेरून्- मित्राणांयजमानांईरयितॄन् बाधकान् तद्वैरिणांमित्रत्वंगच्छतोवाजघन्वान् हतवानसि किञ्च येअर्य- मणंदातारंत्वात्वांप्रपश्यन् पश्यन्ति तेनराः आयोर्मनुष्यस्याध्वर्य्वादेः हविर्लक्षणान्नस्यवा सचासह- शूर्ताः क्षिप्राः हविः प्रदानेत्वरमाणाः त्वयाअपत्यंकुलस्यपालयितारंपुत्रंवहमानायेसन्ति तेप्रपश्यन् यद्वा येअर्यमणंत्वांपश्यन्तितेएवंभवन्ति यद्वा येनराअर्यमणंयंकिंचिद्दातारं पश्यन् पश्यन्तः त्वामय- जन्त अर्योमनुष्यस्यसचासहायभूताः त्वयाशुर्ताः क्षिप्रावर्जिताः अपत्यंपुत्रंवहमानायेसन्ति तान् ज- घन्वान् भवेत्यर्थः ॥ ६ ॥

1.174.7
रप᳚त्क॒विरि᳚न्द्रा॒र्कसा᳚तौ॒ क्षां दा॒सायो᳚प॒बर्ह᳚णीं कः ।
कर᳚त्ति॒स्रो म॒घवा॒ दानु᳚चित्रा॒ नि दु᳚र्यो॒णे कुय᳚वाचं मृ॒धि श्रे᳚त् ॥
▶ पदपाठः (Word-by-word)
रप᳚त् । क॒विः । इ॒न्द्र॒ । अ॒र्क॑सा᳚तौ । क्षाम् । दा॒साय᳚ । उ॒प॒॑बर्ह᳚णीम् । क॒रिति᳚ कः ।
कर᳚त् । ति॒स्रः । म॒घ॑वा᳚ । दानु᳚॑चित्राः । नि । दु॒र्यो॒णे । कुय᳚वाचम् । मृ॒धि । श्रे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वांकविः क्रान्तदर्श्यनूचानोवाहोतार्कसातौ अर्चनीयस्यान्नस्यलाभेनिमित्तभूतेसति रप- त्स्तौ ति यद्वा एतन्नामाऋषिः रपन् अस्तौन अन्नार्थंतस्यातिप्रभुतमन्नंप्रादाइत्यर्थः तथाच दासा- यप्राण्युपक्षपयित्रेअसुराय क्षांभूमिंउपबर्हणींशय्यांकःअकरोः हत्वाभूमावपातयइत्यर्थः तथाच दा- सायप्राण्युपक्षपयित्रेअसुराय क्षांभूमिंउपबर्हणींशय्यांकःअकरोः हत्वाभूमावपातयइत्यर्थः करोतेर्लुङि मन्त्रेघसेतिच्लेर्लुक् अथपरोक्षकृतः मघवाधनवानयमिन्द्रःतिस्रोभूमीः दार्शिकपाशुकसोमिकरूपाभू- मीः क्षित्यन्तरिक्षद्युरूपावाभूमीर्दानुचित्राः दानेनदेयैर्धनैर्वाचायनीयाः करत्करोति यद्वा तिस्रः अयोरजतहिरण्यमयाःपुरीर्दानुचित्राः खण्डनेनचित्राअकरोत् तथादुर्योणेदुष्टयोनौस्थानेएतन्नामक- स्यराज्ञः प्रीत्यर्थंवाकुयवाचंकुत्सितंशब्दयन्तं एतन्नामानमसुरंमृधिसङ्ग्रामेनिः क्षेत् हिंसितवान् ॥ ७ ॥

1.174.8
सना॒ ता त᳚ इन्द्र॒ नव्या॒ आगु॒ः सहो॒ नभो॑वि᳚रणाय पू॒र्वीः ।
भि॒नत्पुरो॒ न भिदो॒ अदे᳚वीर्न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ॥
▶ पदपाठः (Word-by-word)
सना᳚ । ता । ते॒ । इ॒न्द्र॒ । नव्याः᳚ । आ । अ॒गुः॒ । सहः᳚ । नभः᳚ । अवि᳚॑रणाय । पू॒र्वीः ।
भि॒नत् । पुरः᳚ । न । भिदः᳚ । अदे᳚वीः । न॒नमः᳚ । वधः᳚ । अदे᳚वस्य । पी॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेतवसंबन्धीनि सना सदातनानिनित्यानि ता तानि शौर्याणिनव्याःनवतराःइदानींतना- ऋषयः आगुः आगच्छन्ति स्तुतिव्याजेनप्रवन्तीत्यर्थः कानितानीतिउच्यते—पूर्वीर्बह्वीर्नभोहिंसाः नभेर्हिंसार्थाक्त्विप् तदन्तस्येदंरूपं ताहिंसाः अविरणायाविगतरणायसङ्ग्रामनाशनायसहः अभ्य- भवः तदर्थंभिदः भेत्रीर्घातिकाअदेवीः आसुरीः पुरोन पुरीःअपि भिनत् विदारितवानसि पुरुषव्य- त्ययः नशब्दश्चार्थे तथा अदेवस्यअस्तुत्यस्यपीयोः हिंसकस्यासुरस्यवधः वज्रं ननमः अनमयः अनुकू- लमकरोः यद्वा हेइन्द्र सनानित्यंतत्तत्कालेतेतवसबन्धिन्यः तातानि लिङ्गव्यत्ययः ताःपूर्वीःपुरात- न्यः आपः नव्याः नूत्नाः स्तुत्याः सत्यः आगुः आगच्छन्ति किमर्थं अविरणाय अविरमणायप्राणिना- मविनाशायतदर्थंनभः हिंसकान्बन्धकान्वामेघान् सहःमर्षणंअकरोः किञ्च अदेवीः पुरःअवर्षणेनादे- वनशीलान् उदकपुटबन्धान् भिनत् भिन्नानकरोः तथाअदेवस्यअदेवनशीलस्यपीयोः प्रतिकूलस्यवृ- त्रस्यवधर्वज्रंननमः अनमयः ॥ ८ ॥

1.174.9
त्वं धुनि᳚रिन्द्र॒ धुनि᳚मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः ।
प्र यत्स᳚मु॒द्रमति᳚ शूर॒ पर्षि᳚ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ॥
▶ पदपाठः (Word-by-word)
त्वम् । धुनिः᳚ । इ॒न्द्र॒ । धुनि᳚॑मतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव᳚न्तीः ।
प्र । यत् । स॒मु॒द्रम् । अति᳚ । शू॒र॒ । पर्षि᳚ । पा॒रय᳚ । तु॒र्वश᳚म् । यदु᳚म् । स्व॒स्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंधुनिः कम्पयिताशत्रूणामसि अतोधुनिमतीः कम्पनोपेततरङ्गवतीः अथवा धुनिर्नाम- जलप्रतिरोधकार्यसुरः सएवप्रतिबन्धकतयायासां तादृशीरपःऋणोः अगमयःभूमावपातयः तत्रदृष्टा- न्तः—भवन्तीःप्रवहन्तीःसीराःन नदीनामैतत् सरणवतीर्नदीरिव तद्वत्सन्तताइत्यर्थः एवंकृत्वा हेशूर यत् यदासमुद्रमतिपर्षि अतिक्रम्यपूरयस्युदकं तदानीं तुर्वशंयदुं उभावपिराजर्षी स्वस्ति अविनाशं- पारय अपालयः संपूर्णजलवर्षणेन तथाचमन्त्रान्तरं—त्वमपोयदवेतुर्वशायारमयइति ॥ ९ ॥

1.174.10
त्वम॒स्माक᳚मिन्द्र वि॒श्वध᳚ स्या अवृ॒कत᳚मो न॒रां नृ᳚पा॒ता ।
स नो॒ विश्वा᳚सां स्पृ॒धां स᳚हो॒दा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒स्माक᳚म् । इ॒न्द्र॒ । वि॒श्वध᳚ । स्याः॒ । अ॒वृ॒क॑त᳚मः । न॒राम् । नृ॒॑पा॒ता ।
सः । नः॒ । विश्वा᳚साम् । स्पृ॒धाम् । स॒हः॒॑दाः । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वमस्माकंविश्वध विश्वस्मिन्नपिकालेविश्वप्रकारैर्वाअवृकतमः अहिंसकतमः यद्वा दातृतम- इत्यर्थः स्याः भव तथानरांनृपाताअस्मदीयानांपुत्रभृत्यादिरूपाणांबहूनांमनुष्याणां सर्वदारक्षकोभव अपरोनृशब्दोनुवादः किञ्च सत्वंविश्वासांस्पृधांसर्वासांस्पर्धानिमित्तानांअस्मत्सेनानांसहोदाः तासा- मर्थायबलस्यदातभव विद्यामेतिगतम् ॥ १० ॥

मत्स्यपायीतिषळृचमेकादशंसूक्तंआगस्त्यमैन्द्रं आद्यास्कन्धोग्रीवीबृहती द्वितीयपादस्य द्वादशा- क्षरत्वात् इतरेषांत्रयाणामष्टाक्षरत्वाच्च द्वितीयश्चेन्न्यंकुसारिण्युरोवृहतीवास्कन्धोग्रीवीवेत्युक्तलक्षण- सद्भावात् अन्त्यात्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया आनुष्टुभन्त्वितिविशेषवचनेनापोहितत्वादनुष्टु- भः मत्सिषळानुष्टुबंतुत्रिष्टुबन्तंत्वाद्यास्कन्धोग्रीवीत्यनुक्रान्तम् । द्वितीयेस्वरसाम्नि आद्यस्तृचःस्तो- त्रियः अभिजिद्बृहत्पृष्ठइतिखण्डेसूत्रितम्—मत्स्यपायितेमहएमेनंप्रत्येतनेति ।