आ वो॒॑र्वाचः᳚ सुवि॒ताय॒ रोद᳚स्योर्म॒हे व᳚वृत्या॒मव᳚से सुवृ॒क्तिभि᳚ः ॥
पदपाठः (Word-by-word)
आ । वः॒ । अ॒र्वाचः᳚ । सु॒वि॒ताय᳚ । रोद᳚स्योः । म॒हे । व॒वृ॒त्या॒म् । अव᳚से । सु॒वृ॒क्ति॑भिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः वः समनासमीकृतिर्न्यूनाधिकाभावलक्षणा यज्ञायज्ञा सर्वेष्वपियज्ञेषुतुर्वणिः तूर्णवनिः त्वरमाणासंजभमानाभवति तुर्वणिस्तूर्णवनिरितियास्कः । तत्तद्यागावसरेआगत्यहविः स्वीक्रुत्य- वैकल्यपरिहारेणसमंकुरुथेत्यर्थः किञ्च वोयूयंधियंधियंयुष्मत्संबन्धिवृष्टिप्रदानादिरूपं सर्वंकर्मदेव- याउ देवान् प्रापयितारएवसन्तोदधिध्वे धारयथधारयध्वेवा देवार्थंहविराद्युत्पादनाय वृष्टिंकुरुथे- त्यर्थः यस्मादेवंकुरुथ तस्माद्वोयुष्मानर्वाचोस्मदभिमुखान् आववृत्यांआवर्तयामि किमर्थंरोदस्यो- र्द्यावापृथिव्योर्महेमहतेअवसेरक्षणायप्रीणनायवा तदपिकिमर्थमितिउच्यते—सुवितायसुष्ठुव्यापनाय कैःसाधनैः सुवृक्तिभिः शोभनावर्जनैः स्तोत्रैः ॥ १ ॥