श्रवणम्

1.168.8 समानपद
प्रति᳚ ष्टोभन्ति॒ सिन्ध᳚वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच᳚मुदी॒रय᳚न्ति ।
अव᳚ स्मयन्त वि॒द्युतः᳚ पृथि॒व्यां यदी᳚ घृ॒तं म॒रुतः᳚ प्रुष्णु॒वन्ति᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । स्तो॒भ॒न्ति॒ । सिन्ध᳚वः । प॒वि॑भ्यः᳚ । यत् । अ॒भ्रिया᳚म् । वाच᳚म् । उ॒त्॑ई॒रय᳚न्ति ।
अव᳚ । स्म॒य॒न्त॒ । वि॒॑द्युतः᳚ । पृ॒थि॒व्याम् । यदि᳚ । घृ॒तम् । म॒रुतः᳚ । प्रु॒ष्णु॒वन्ति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पविभ्योमरुत्संबन्धिवज्रेभ्यः सिन्धवः स्यन्दनशीलाआपः प्रतिष्टोभन्ति प्रतिचलन्ति कदा यत्- यदाअभ्रियांअभ्रभवांवाचंशब्दंस्तनितलक्षणंउदीरयन्त्युच्चारयन्तिवज्राणि किञ्च विद्युताः विद्योतमा- नाः तडितः पृथव्यांअन्तरिक्षेपृथिवीत्यन्तरिक्षनाम पृथिव्यामित्येतदुत्तरत्रवायोज्यं यदि यदा पृथि- व्यांभूम्यांघृतंक्षरदुदकंमरुतः प्रुष्णुवन्तिप्रुष्णन्ति सिञ्चन्ति प्रुषेःक्रैयादिकस्यव्यत्ययेनश्नुः यदैवंतदेत्य- र्थः ॥ ८ ॥