श्रवणम्

1.168.3
सोमा᳚सो॒ न ये सु॒तास्तृ॒प्तांश᳚वो हृ॒त्सु पी॒तासो᳚ दु॒वसो॒ नास᳚ते ।
ऐषा॒मंसे᳚षु र॒म्भिणी᳚व रारभे॒ हस्ते᳚षु खा॒दिश्च᳚ कृ॒तिश्च॒ सं द᳚धे ॥
▶ पदपाठः (Word-by-word)
सोमा᳚सः । न । ये । सु॒ताः । तृ॒प्त॑अं᳚शवः । हृ॒त्॑सु । पी॒तासः᳚ । दु॒वसः᳚ । न । आस᳚ते ।
आ । ए॒षा॒म् । अंसे᳚षु । र॒म्भिणी᳚॑इव । र॒र॒भे॒ । हस्ते᳚षु । खा॒दिः । च॒ । कृ॒तिः । च॒ । सम् । द॒धे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतःसुताः अभिषुताः तृप्तांशवः तर्पितावयवाः सोमासोन सोमाइव यथावल्लीरूपाः सोमाः अभिषवात्पूर्वं आप्यायनेनतृप्तावयवाः सन्तः पश्चात्सुताः अभिषुताः रसभूताः पीतासः पीताः स- न्तोहृत्सुपातॄणां हृदयेषुदुवसोनासते परिचरन्तइवासते तद्वत् येमरुतः यज्ञेआहूतास्तृप्तावयवाभवन्ति ध्यायमानाःसन्तोहृत्सुहृदयेषुदुवसोन परिचरन्तइवासते यद्वा प्राणादिरूपेणशरीरे स्थितादुवसः परिचरन्तइवगमनादिचेष्टाःकुर्वन्तः आसते एषामंसेषुरम्भिणीव युवतमांसावलम्बिनीयोषिदिवारा- रभे आश्लिष्यति अवलम्बते सामर्थ्यात् शक्त्याख्यायुधविशेषोभुजलक्ष्मीर्वा किञ्च हस्तेषुखादिः हस्त- त्राणकश्चकृतिः कर्तनीचखड्गलतावृष्टिश्चसन्दधे सन्धीयते सम्यक् धृताभवति परस्परसमुच्चयार्थाश्च- काराः येमरुतउक्तरूपास्तेआविर्भवन्तीत्यर्थः ॥ ३ ॥