श्रवणम्

1.168.9
असू᳚त॒ पृश्नि᳚र्मह॒ते रणा᳚य त्वे॒षम॒यासां᳚ म॒रुता॒मनी᳚कम् ।
ते स᳚प्स॒रासो᳚॑जनय॒न्ताभ्व॒मादित्स्व॒धामि᳚षि॒रां पर्य᳚पश्यन् ॥
▶ पदपाठः (Word-by-word)
असू᳚त । पृश्निः᳚ । म॒ह॒ते । रणा᳚य । त्वे॒षम् । अ॒यासा᳚म् । म॒रुता᳚म् । अनी᳚कम् ।
ते । स॒प्स॒रासः᳚ । अ॒ज॒न॒य॒न्त॒ । अभ्व᳚म् । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि᳚ । अ॒प॒श्य॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृश्निर्मरुन्माता नानावर्णा पृश्नियैवैपयसोमरुतोजाताः पृश्नेःपुत्राउपमासइतिश्रुतेः । तामेवान्तरि- क्षदेवतां केचिदाहुः सादेवी त्वेषंदीप्तंअयासां गन्तॄणांमरुतामनीकंसमूहं एकोनपञ्चाशत्सख्याकमसूत उत्पादितवती किमर्थं महतेरणायसङ्ग्रामायमेघजयायेत्यर्थः तेचमरुतः सप्सरासः समानरूपाः हिं- सकावामेघानां अभ्वंमेघंजनयन्ति उत्पादितवन्तः आदित् अनन्तरमेव इषिरांसर्वैरिष्टव्यांस्वधामन्नं सस्यादिसमृद्धिलक्षणंपर्यपश्यन् परिपश्यन्तिसर्वेजनाः ॥ ९ ॥