श्रवणम्

1.168.7 समानपद
सा॒तिर्न वो॑म᳚वती॒ स्व᳚र्वती त्वे॒षा विपा᳚का मरुत॒ः पिपि᳚ष्वती ।
भ॒द्रा वो᳚ रा॒तिः पृ᳚ण॒तो न दक्षि᳚णा पृथु॒ज्रयी᳚ असु॒र्ये᳚व॒ जञ्ज᳚ती ॥
▶ पदपाठः (Word-by-word)
सा॒तिः । न । वः॒ । अम᳚॑वती । स्वः᳚॑वती । त्वे॒षा । वि॑पा᳚का । म॒रु॒तः॒ । पिपि᳚ष्वती ।
भ॒द्रा । वः॒ । रा॒तिः । पृ॒ण॒तः । न । दक्षि᳚णा । पृ॒थु॒॑ज्रयी᳚ । असु॒र्या᳚॑इव । जञ्ज᳚ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्माकंसबन्धिनीसातिर्न संभक्तिरिव युष्मत् संभजनंयथाप्रशस्तगुणंतद्वद्वोरातिः वृ- ष्ट्यादिविषया अमवती अमात्यवती इन्द्रादिसहायवती यथाराजेवामवानित्यत्रामशब्दोमात्यवच- नः तद्वत् यद्वा वःसातिः संविभक्तिर्नामवतीरोगव्तीनभवति किन्तुस्वर्वतीसुखवतीत्वेषादीप्ताविपा- कापरिपक्वफलापिपिष्वतीपेषणवती कृषीवलैः कर्षणवतीवृष्टौसत्यांकर्षन्तीतिप्रसिद्धम् स्वविरोधिपे- षणवतीवाभद्राभन्दनीयास्तुत्या किञ्च पृणतोदातुर्धनिकस्यदक्षिणान दक्षिणेव तद्वत् सम्रुद्धकरी पृथु- ज्रयीपृथुजवाशीघ्रगामिनी किञ्च असुर्येव असुरस्यस्वभूता जञ्चतीसर्वानभिभवन्तीशक्तिरिव साय- थान्येभ्योपहृत्यान्यस्मैदातुंसमर्थातद्वदियमपिमेघस्थमुदकमपहृत्यजगतोदातुंशक्तेत्यर्थः ईदृशीराति- रस्मभ्यमस्त्वितिभावः ॥ ७ ॥