अव॒ स्वयु᳚क्ता दि॒व आ वृथा᳚ ययु॒रम᳚र्त्या॒ः कश᳚या चोदत॒ त्मना᳚ ।
अ॒रे॒णव᳚स्तुविजा॒ता अ᳚चुच्यवुर्दृ॒ळ्हानि᳚ चिन्म॒रुतो॒ भ्राज᳚दृष्टयः ॥
अ॒रे॒णव᳚स्तुविजा॒ता अ᳚चुच्यवुर्दृ॒ळ्हानि᳚ चिन्म॒रुतो॒ भ्राज᳚दृष्टयः ॥
पदपाठः (Word-by-word)
अव᳚ । स्व॑यु᳚क्ताः । दि॒वः । आ । वृथा᳚ । य॒युः॒ । अम᳚र्त्याः । कश᳚या । चो॒द॒त॒ । त्मना᳚ ।
अ॒रे॒णवः᳚ । तु॒वि॒॑जा॒ताः । अ॒चु॒च्य॒वुः॒ । दृ॒ळ्हानि᳚ । चि॒त् । म॒रुतः᳚ । भ्राज᳚त्॑ऋष्टयः ॥
अ॒रे॒णवः᳚ । तु॒वि॒॑जा॒ताः । अ॒चु॒च्य॒वुः॒ । दृ॒ळ्हानि᳚ । चि॒त् । म॒रुतः᳚ । भ्राज᳚त्॑ऋष्टयः ॥
सायणभाष्यम् (Sayana Commentary)
एतेमरुतः स्वयुक्ताः स्वैर्युक्ताः परस्परंसंयुक्ताः स्वेनधनेनवा युक्ताः सन्तोदिवोद्युलोकाद्वृथा अनायासेनावाययुः अवाङ्मुखमागच्छन्ति हेअमर्त्यामरुतोयूयंत्मनाआत्मनास्वयमेवकशयावाङ्गा- मैतत् वाचास्तुतिरूपया चोदत प्रेरयत स्तोतुमितिशेषः तेचमरुतः अरेणवःअपापाः तुविजाताः बहुयज्ञेषु प्रादुर्भूताः भ्राजदृष्टयः दीप्ताः एवंभूताः सन्तोदृह्ळानिचित् दृढान्यपिपर्वतादीनिअचुच्यवुः च्यावयन्तिचालयन्ति ॥ ४ ॥