प्रथमं मण्डलम् - सूक्तम् 162

22 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अश्वः छन्दः: त्रिष्टुप्

सूक्तम् 1.162 - सम्पूर्णम्

1 / 22
ऋक्: 1.162.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (22)
1.162.1
मा नो᳚ मि॒त्रो वरु᳚णो अर्य॒मायुरिन्द्र᳚ ऋभु॒क्षा म॒रुत॒ः परि᳚ ख्यन् ।
यद्वा॒जिनो᳚ दे॒वजा᳚तस्य॒ सप्ते᳚ः प्रव॒क्ष्यामो᳚ वि॒दथे᳚ वी॒र्या᳚णि ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । मि॒त्रः । वरु᳚णः । अ॒र्य॒मा । आ॒युः । इन्द्रः᳚ । ऋ॒भु॒क्षाः । म॒रुतः᳚ । परि᳚ । ख्य॒न् ।
यत् । वा॒जिनः᳚ । दे॒व॑जा᳚तस्य । सप्तेः᳚ । प्र॒॑व॒क्ष्यामः᳚ । वि॒दथे᳚ । वी॒र्या᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्मानश्वंस्तोतुंप्रवृत्तान्मित्रादयोदेवाः मापरिख्यन् परिख्यानं माकुर्वन्तु परिख्यानं नामनिंदा महानुभावंदेवजातमश्वं तुच्छानराःस्तुवंतीतिमाकुर्वन्तु ख्यातेर्माङिलुङिअस्यतिवक्तीत्यादिनाच्लेरङ् अहरभिमानीदेवोमित्रः रात्र्यभिमानीवरुणः अर्यमा तयोरन्तरालाभिमानी आदित्यःआयुः सततग- न्तावायुः वकारलोपोवा इन्द्रःप्रसिद्धः ऋभुक्षाः देवानांनिवासभूतः प्रजापतिः यद्वैतन्महन्नामेंद्रविशे- षणं ऋभुक्षाउक्षाइतितन्नामसुपाठात् मरुतः इन्द्रभ्रातरः निन्दायाः प्रसक्तिंदर्शयति यद्यस्माद्वाजिनो- वेजनवतोबह्वन्नवतोवा देवजातस्य बहुदेवतास्वरूपेणोत्पन्नस्य उषादीनामस्यशिरआद्यवयवत्वा- दितिभावः उषावाअश्वस्यमेध्यस्यशिरइत्यादिश्रुतेः । यद्वा देवेभ्योजातस्यगंधर्वकुलेउत्पन्नत्वात् । सप्तेः सर्पणशीलस्य अश्वनामैतत् एवंविधस्याश्वस्य महानुभावस्यवीर्याणिवीरकर्माणिसामर्थ्यानि- विदधे वेदनसाधनेयज्ञेप्रवक्ष्यामः प्रकर्षेणब्रूमः अतोमापरिख्यन् प्रत्युतानुगृह्णन्त्वित्यर्थः ॥ १ ॥

1.162.2
यन्नि॒र्णिजा॒ रेक्ण᳚सा॒ प्रावृ᳚तस्य रा॒तिं गृ᳚भी॒तां मु᳚ख॒तो नय᳚न्ति ।
सुप्रा᳚ङ॒जो मेम्य᳚द्वि॒श्वरू᳚प इन्द्रापू॒ष्णोः प्रि॒यमप्ये᳚ति॒ पाथः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । निः॒॑निजा᳚ । रेक्ण᳚सा । प्रावृ᳚तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय᳚न्ति ।
सु॑प्रा᳚ङ् । अ॒जः । मेम्य᳚त् । वि॒श्व॑रू᳚पः । इ॒न्द्रा॒पू॒ष्णोः । प्रि॒यम् । अपि᳚ । ए॒ति॒ । पाथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् यस्मात् निर्निजा निर्निगितिरूपनाम निर्णिक् वव्रिरिति रूपनामसुपाठात् रेक्णसा रेक्णइति- धननाम रेक्णः रिक्थमितितन्नामसूक्तत्वात् उभयत्रमत्वर्थोलुप्यते रूपवता हिरण्यवता आभरणेन- प्रावृतस्य सर्वतोवेष्टितस्याश्वस्यमुखतः पुरस्ताद्गृभीतां गृहीतांरातिंदातव्यां दातव्यत्वेनगृहीतामजां नयन्तिऋत्विजः सतादृशोजः सुप्राङ् सुष्ठुप्रशस्यगमनः मेम्यत् हन्यमानः मीञ् हिंसायां अस्माद्यङ्लु- गन्तात्कर्मणिव्यत्ययेनशतृ यद्वा तस्यशब्दानुकरणं मेमेशब्दंकुर्वन् विश्वरूपः बहुवर्णोपेतः कृष्णग्रीवः कृष्णललाटइत्येवमनेकवर्णइत्यर्थः एवंरूपोयः इन्द्रापूष्णोः इन्द्रःप्रसिद्धः पूषापोषकोदेवोऽग्निः तयोः प्रियं आग्नेयः कृष्णग्रीवइत्युक्तत्वात् अग्नेः प्रियत्वं सर्वेपींद्रस्येतींद्रप्रियत्वं एवंरूपंपाथोन्नमप्येतिप्राप्नो- तु ॥ २ ॥

1.162.3 समानपद
ए॒ष च्छागः᳚ पु॒रो अश्वे᳚न वा॒जिना᳚ पू॒ष्णो भा॒गो नी᳚यते वि॒श्वदे᳚व्यः ।
अ॒भि॒प्रियं॒ यत्पु᳚रो॒ळाश॒मर्व᳚ता॒ त्वष्टेदे᳚नं सौश्रव॒साय᳚ जिन्वति ॥
▶ पदपाठः (Word-by-word)
ए॒षः । छागः᳚ । पु॒रः । अश्वे᳚न । वा॒जिना᳚ । पू॒ष्णः । भ॒गः । नी॒य॒ते॒ । वि॒श्व॑दे᳚व्यः ।
अ॒भि॒॑प्रिय᳚म् । यत् । पु॒रो॒ळाश᳚म् । अर्व᳚ता । त्वष्टा᳚ । इत् । ए॒न॒म् । सौ॒श्र॒व॒साय᳚ । जि॒न्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषःछागः शृंगरहितोऽजः अश्वेन वाजिनाशीघ्रव्यापकेनाश्वेनसहपूष्णः पोषकस्याग्नेर्भागोभज- नीयः विश्वदेव्यः सर्वदेवार्हः अग्नेः सर्वदेवात्मकत्वात् तदर्हत्वेनसर्वदेवप्रियत्वं एवंविधोऽजः पुरः पुर- स्तान्नीयतेप्राप्यते यत् यस्मादेवंक्रियते तस्मात्प्रियंप्रीणयितारं पुरोडाशंपुरस्ताद्दातव्यमेनमजं त्वष्टा- सर्वस्योत्पादकोदेवः त्वष्टारूपाणिविकरोतीतिश्रुतेः । तूर्णव्यापकोऽग्निर्वाउभेत्वष्टुर्बिभ्यतुरित्युक्तत्वा- त् अहोरात्रेइतिवारणीइतिवेतियास्केनारणीबिभ्यतुरित्युक्तत्वात् अरणिसंबन्धोग्नेरेवेतिगम्यते अर्व- ताअरणवताश्वेनसहसौश्रवसाय देवानांशोभनान्नायतन्निमित्तं अभिजिन्वति प्रीतिहेतुकंकरोति ॥ ३ ॥

1.162.4 समानपद
यद्ध᳚वि॒ष्य᳚मृतु॒शो दे᳚व॒यानं॒ त्रिर्मानु᳚षा॒ः पर्यश्वं॒ नय᳚न्ति ।
अत्रा᳚ पू॒ष्णः प्र᳚थ॒मो भा॒ग ए᳚ति य॒ज्ञं दे॒वेभ्य᳚ः प्रतिवे॒दय᳚न्न॒जः ॥
▶ पदपाठः (Word-by-word)
यत् । ह॒वि॒ष्य᳚म् । ऋ॒तु॒॑शः । दे॒व॒॑यान᳚म् । त्रिः । मानु᳚षाः । परि᳚ । अश्व᳚म् । नय᳚न्ति ।
अत्र᳚ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञम् । दे॒वेभ्यः᳚ । प्र॒ति॒॑वे॒दय᳚न् । अ॒जः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हविषांहविर्योग्यंदेवयानंदेवानांप्रापणीयमश्वंयत् यदामानुषाः ऋत्विजः ऋतुशः ऋतावृतौ का- लेकाले त्रिःपरिणयन्ति पर्यग्निकुर्वन्तीत्यर्थः अत्रास्मिन्समये ऋचितुनुघेतिदीर्घः पूष्णः पोषकस्याग्ने- र्भागोऽजःप्रथमः एतिपुरोगामीसन् गच्छति किंकुर्वन् यज्ञंदेवेभ्यःप्रतिवेदयन् प्रख्यापयन् ॥ ४ ॥

1.162.5
होता᳚ध्व॒र्युराव᳚या अग्निमि॒न्धो ग्रा᳚वग्रा॒भ उ॒त शंस्ता॒ सुवि᳚प्रः ।
तेन᳚ य॒ज्ञेन॒ स्व᳚रंकृतेन॒ स्वि᳚ष्टेन व॒क्षणा॒ आ पृ᳚णध्वम् ॥
▶ पदपाठः (Word-by-word)
होता᳚ । अ॒ध्व॒र्युः । आ॑व᳚याः । अ॒ग्नि॒म्॑इ॒न्धः । ग्रा॒व॒॑ग्रा॒भः । उ॒त । शंस्ता᳚ । सु॑वि᳚प्रः ।
तेन᳚ । य॒ज्ञेन᳚ । सु॑अ᳚रङ्कृतेन । सु॑इ᳚ष्टेन । व॒क्षणाः᳚ । आ । पृ॒ण॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होता देवानामाह्वाता एतन्नामकऋत्विक् अध्वर्युरध्वरयुः अध्वरस्यनेता सोऽपिआवयाः आभिमुख्येनहविषांगमयिताअध्वर्योर्विशेषणमेतत् आङ्पूर्वाद्वेतेरसुन् पूर्वपदप्रकृतिस्वरत्वंच यद्वा आभिमुख्येनावयष्टाप्रतिप्रस्थातोच्यते अवेयजइतिण्विन् अवाप्योरुपसर्गयोरित्यल्लोपः अग्निमिंधो- ग्नीत् भाष्ट्राग्न्योरिंधेइतिमुम् ग्रावग्राभः ग्राव्णःस्तुत्यागृह्णातीति ग्रावस्तुत् कर्मण्यण् उत अपिच शंस्ताप्रशास्ता सुविप्रइतिमेधाविनाम शोभनमेधोपेतोब्रह्मोच्यते ब्रह्मात्वोवदतिजातविद्यामित्यत्र ब्रह्मैकोजातेजातेविद्यांवदतिब्रह्मासर्वविद्यः सर्वंवेदितुमर्हतीत्युक्तत्वात् ब्रह्मैवसुविप्रशब्देनाभिधेयः सचानुक्तऋत्विगुपलक्षकः एतेसर्वेयूयंतेनप्रसिद्धेनस्वरंकृतेनसुष्ठुअरणीयंकृतेनस्वलंकृतेनवा उच्चारसौ- ष्ठवादिनासुष्ठुसंपादितेनस्विष्टेनसुष्ठुइष्टेनयज्ञेनवक्षणाः अभितोघृतकुल्यादीन्प्रवहणस्वभावाः प्रसिद्धा- नदीर्वा आपृणध्वं सर्वतःपूरयत यज्ञंसम्यक् निवर्त्यफलंसाधयतेत्यर्थः ॥ ५ ॥

1.162.6
यू॒प॒व्र॒स्का उ॒त ये यू᳚पवा॒हाश्च॒षालं॒ ये अ᳚श्वयू॒पाय॒ तक्ष᳚ति ।
ये चार्व᳚ते॒ पच᳚नं स॒म्भर᳚न्त्यु॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ॥
▶ पदपाठः (Word-by-word)
यू॒प॒॑व्र॒स्काः । उ॒त । ये । यू॒प॒॑वा॒हाः । च॒षाल᳚म् । ये । अ॒श्व॒॑यू॒पाय᳚ । तक्ष᳚ति ।
ये । च॒ । अर्व᳚ते । पच᳚नम् । स॒म्॑भर᳚न्ति । उ॒तो इति᳚ । तेषा᳚म् । अ॒भि॑गू᳚र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यूपव्रस्काः यूपार्हवृक्षस्यव्रश्चनकर्तारः छेत्तारः उत येच यूपवाहाः छिन्नस्यवोढारः येच चषालं यूपस्योपरिस्थाप्यंयूपाग्रभागंचषालमाहुः अश्वयूपाय अश्वबंधनयूपायतक्षतीति वचनव्यत्ययः तक्ष- णेनतनूकुर्वंति येचार्वते अरणवतेऽश्वायपचनं पाकसाधनं काष्ठभांडादिकं संभरंति साधुसंपादयंति उतो अपिच नोऽस्मत्संबंधिनां तेषामृत्विजामभिगूर्तिः संकल्पः सर्वथाकरणीयमितिबुद्धिरिन्वतुव्या- प्नोतु इन्वतिर्व्याप्तिवचनः इन्वति ननक्ष इतितद्वचनेषुपाठात् यद्वा तेषामभिगूर्तिर्नोऽस्मानिन्वतु यागं साधुपारं प्रापय्यफलेनयोजयत्वित्यर्थः ॥ ६ ॥

1.162.7
उप॒ प्रागा᳚त्सु॒मन्मे᳚॑धायि॒ मन्म᳚ दे॒वाना॒माशा॒ उप᳚ वी॒तपृ᳚ष्ठः ।
अन्वे᳚नं॒ विप्रा॒ ऋष᳚यो मदन्ति दे॒वानां᳚ पु॒ष्टे च᳚कृमा सु॒बन्धु᳚म् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । प्र । अ॒गा॒त् । सु॒॑मत् । मे॒ । अ॒धा॒यि॒ । मन्म᳚ । दे॒वाना᳚म् । आशाः᳚ । उप᳚ । वी॒त॑पृ᳚ष्ठः ।
अनु᳚ । ए॒न॒म् । विप्राः᳚ । ऋष᳚यः । म॒द॒न्ति॒ । दे॒वाना᳚म् । पु॒ष्टे । च॒कृ॒म॒ । सु॒॑बन्धु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्ममननीयंफलंसुमत् उपप्रागात् उपप्रैतु सुमत् स्वयमित्यर्थइतियास्कः । यद्वा स्वयमेव माद- यितृतमे मयि अधायि धीयते फलभूतोऽश्वआगतः सचमयाधृतइत्यर्थः किमर्थंबीतपृष्ठः साधुपोषणे- नप्राप्तपार्श्वभागः कांतपृष्ठोवा अत्यंतंदृप्तइत्यर्थः तादृशोयं देवानामाशाः पूरयितुंउपगच्छतु यागार्थ- मागतमेनं सुबंधुं शोभनबंधनमश्वं देवानामाशास्यमानानां पुष्टे पोषणायचकृम कुर्मः तंच विप्रामेधा- विनऋत्विजः ऋषयोतींद्रियद्रष्टारः अन्येवाविप्राऋषयश्चानुमदंति अनुमोदन्तां सम्यक् कृतमिति परितुष्यन्तु ॥ ७ ॥

1.162.8
यद्वा॒जिनो॒ दाम᳚ सं॒दान॒मर्व᳚तो॒ या शी᳚र्ष॒ण्या᳚ रश॒ना रज्जु᳚रस्य ।
यद्वा᳚ घास्य॒ प्रभृ᳚तमा॒स्ये॒३॒᳚ तृणं॒ सर्वा॒ ता ते॒ अपि᳚ दे॒वेष्व᳚स्तु ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒जिनः᳚ । दाम᳚ । स॒म्॑दान᳚म् । अर्व᳚तः । या । शी॒र्ष॒ण्या᳚ । र॒श॒ना । रज्जुः᳚ । अ॒स्य॒ ।
यत् । वा॒ । घ॒ । अ॒स्य॒ । प्र॑भृ᳚तम् । आ॒स्ये᳚ । तृण᳚म् । सर्वा᳚ । ता । ते॒ । अपि᳚ । दे॒वेषु᳚ । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनोवेगवतः अर्वतः अरणवतः ग्मनवतोश्वस्ययद्दामग्रीवाबद्धारज्जुः यच्चसंदानं सम्यगवच्छे- दकं बंधकंपादबंधनंदामास्ति याचस्य शीर्षण्याशिरसि बद्धारशनामेखलाइव खलीनरज्जुरस्ति शिरः शब्दाद्भवेछन्दसीतियत् येचतद्धितेइतिशीर्षन्भावः तित्स्वरितः यद्वा घास्याश्वस्यास्ये मुखे प्रभृतं प्रहृतं प्रक्षिप्तं तृणमस्ति तृणमस्ति घशब्दोहार्थे सचप्रसिद्भ्यर्थः सर्वा सर्वाणि ता तानि सर्वाण्यपि हेअश्व ते तव संबंधीनि देवेष्वस्तुसंतु देवेषुमध्येभवंतु देवत्वंप्राप्नुवंतुवा वचनव्यत्ययः अत्रोपयुक्ता- नांसर्वेषां देवत्वंकिल अश्वस्यतत्प्राप्तिर्नाशासनीया ॥ ८ ॥

1.162.9
यदश्व᳚स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि᳚तौ रि॒प्तमस्ति᳚ ।
यद्धस्त᳚योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि᳚ दे॒वेष्व᳚स्तु ॥
▶ पदपाठः (Word-by-word)
यत् । अश्व᳚स्य । क्र॒विषः᳚ । मक्षि᳚का । आश᳚ । यत् । वा॒ । स्वरौ᳚ । स्व॑धि᳚तौ । रि॒प्तम् । अस्ति᳚ ।
यत् । हस्त᳚योः । श॒मि॒तुः । यत् । न॒खेषु᳚ । सर्वा᳚ । ता । ते॒ । अपि᳚ । दे॒वेषु᳚ । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वस्य तदवयवभूतस्य क्रविषः आममांसस्य यत् यदंगं मक्षिका आशाभक्षयत् अशभोजने यद्वा कर्मणिषष्ठी अश्वस्ययन्मांसं भक्षयति वा अथवा स्वरौ पश्वंजनकाले यत् रिप्तंलिप्तमस्ति स्वरुणापशु- मनक्तीतिश्रुतेः । अथवा स्वधितौछेदनकाले अवदानकाले यद्रिप्तमस्ति शमितुर्हस्तयोर्लिप्तमस्ति वि- शसनकालेयच्चनखेषु लिप्तं तासर्वा तानिसर्वाणि हेअश्व तेतवसंबंधीनिदेवेष्वस्तु देवेषुसंतोषार्थायभ- वन्तु ॥ ९ ॥

1.162.10
यदूव᳚ध्यमु॒दर᳚स्याप॒वाति॒ य आ॒मस्य᳚ क्र॒विषो᳚ ग॒न्धो अस्ति᳚ ।
सु॒कृ॒ता तच्छ᳚मि॒तारः᳚ कृण्वन्तू॒त मेधं᳚ शृत॒पाकं᳚ पचन्तु ॥
▶ पदपाठः (Word-by-word)
यत् । ऊव᳚ध्यम् । उ॒दर᳚स्य । अ॒प॒॑वाति᳚ । यः । आ॒मस्य᳚ । क्र॒विषः᳚ । ग॒न्धः । अस्ति᳚ ।
सु॒॑कृ॒ता । तत् । श॒मि॒तारः᳚ । कृ॒ण्व॒न्तु॒ । उ॒त । मेध᳚म् । शृ॒त॒॑पाक᳚म् । प॒च॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उदरस्य संबंधियदूवध्यं ईषज्जीर्णंतृणं पुरीषमपवातिअपगच्छति यश्चामस्यापक्वस्यक्रविषोमांस- स्यगंधोऽस्तिलेशोस्ति पाकस्यसमयेयत्किंचिदूबध्यं अपक्वस्यचलेशोऽस्तिआमगंधोस्ति तत्सर्वंशमि- तारोविशसनकर्तारः सुकृताकृण्वन्तु सुकृतंउक्तदोषरहितं कुर्वंतु उतअपिच मेधं मेध्यं यज्ञार्हं पश्व- वयवं श्रृतपाकं देवयोग्यपाकोपेतंयथाभवतितथापचंतु पितृमनुष्यादियोग्यमतिपक्वमीषत्पक्वंचमा- कुर्वन्त्वित्यर्थः ॥ १० ॥

1.162.11
यत्ते॒ गात्रा᳚द॒ग्निना᳚ प॒च्यमा᳚नाद॒भि शूलं॒ निह᳚तस्याव॒धाव᳚ति ।
मा तद्भूम्या॒मा श्रि᳚ष॒न्मा तृणे᳚षु दे॒वेभ्य॒स्तदु॒शद्भ्यो᳚ रा॒तम᳚स्तु ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । गात्रा᳚त् । अ॒ग्निना᳚ । प॒च्यमा᳚नात् । अ॒भि । शूल᳚म् । नि॑ह᳚तस्य । अ॒व॒॑धाव᳚ति ।
मा । तत् । भूम्या᳚म् । आ । श्रि॒ष॒त् । मा । तृणे᳚षु । दे॒वेभ्यः᳚ । तत् । उ॒शत्॑भ्यः᳚ । रा॒तम् । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्व तेतवाग्निनापच्यमानाद्गात्राद्यदूष्मरूपं रसोवायत्किंचिदवधावति तथानिहतस्य निःशेषे- णहतस्य तव यदंगंरसरूपंशूलमभिलक्ष्यावधावति निर्गच्छति तत्तदंगंभूम्यामाश्रिषत् आश्लिष्टंमाभूत् श्लिषेःपुषादित्वादङ् पाकसमयेतथा मा तृणेषु विशसनसमये दर्भेषु मापगच्छतु तर्हितत्पतितं कुत्रग- च्छत्वितिचेत् उच्यते—तत्तादृशं उशद्भ्यः कृत्स्नंहविः कामयमानेभ्योदेवेभ्योरातं दत्तमस्तु ॥ ११ ॥

1.162.12
ये वा॒जिनं᳚ परि॒पश्य᳚न्ति प॒क्वं य ई᳚मा॒हुः सु᳚र॒भिर्निर्ह॒रेति᳚ ।
ये चार्व᳚तो मांसभि॒क्षामु॒पास᳚त उ॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ॥
▶ पदपाठः (Word-by-word)
ये । वा॒जिन᳚म् । प॒रि॒॑पश्य᳚न्ति । प॒क्वम् । ये । ई॒म् । आ॒हुः । सु॒र॒भिः । निः । ह॒र॒ । इति᳚ ।
ये । च॒ । अर्व᳚तः । मां॒स॒॑भि॒क्षाम् । उ॒प॒॑आस᳚ते । उ॒तो इति᳚ । तेषा᳚म् । अ॒भि॑गू᳚र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येपक्वंवाजिनमश्वंअश्वावयवंपरिपश्यंति परितःपावनबुद्भ्येक्षंते यईं येचैनंसुरभिः शोभनगंधःअतो- निर्हर किंचिदप्यस्मभ्यंदेहीप्याहुः यद्वा निःशेषेणदेवेभ्योहरेत्याहुः यतः सुरभिः अतोदेवयोग्यमिति किंच येचार्वतोमांसभिक्षामुपासते येनराः अस्यार्वतोऽश्वस्य हुतशिष्टमांसयाचनांउपासते कांक्षन्ते उ- तोअपिच तेषामुक्तविधानाम भिगूर्तिः अभितः उद्यमनंनोऽस्मानिन्वतु व्याप्नोतु यथास्माभिरश्वउपा- लब्धः एवंस्पृहयंति तथायज्ञोनिर्वाहयत्वित्यर्थः यद्वा मंत्रोदेवपरोव्याख्येयः येदेवाः वाजिनंपक्वंपरि- पश्यंतिकदाहोष्यतीतिविलंबंदृष्ट्वा येच सुरभिः ईमेनंनिर्हर निःशेषेणास्मभ्यंदेहीत्याहुः येचार्वतः अश्वस्यमांसभिक्षामुपासतेतेषामभिगूर्तिर्नः इन्वतु तेषांद्यमः सफलोभवत्वित्यर्थः ॥ १२ ॥

1.162.13 समानपद
यन्नीक्ष᳚णं मा{4}॒स्पच᳚न्या उ॒खाया॒ या पात्रा᳚णि यू॒ष्ण आ॒सेच᳚नानि ।
ऊ॒ष्म॒ण्या᳚पि॒धाना᳚ चरू॒णाम॒ङ्काः सू॒नाः परि᳚ भूष॒न्त्यश्व᳚म् ॥
▶ पदपाठः (Word-by-word)
यत् । नि॒॑ईक्ष᳚णम् । मां॒स्पच᳚न्याः । उ॒खायाः᳚ । या । पात्रा᳚णि । यू॒ष्णः । आ॒॑सेच᳚नानि ।
ऊ॒ष्म॒ण्या᳚ । अ॒पि॒॑धाना᳚ । च॒रू॒णाम् । अ॒ङ्काः । सू॒नाः । परि᳚ । भू॒ष॒न्ति॒ । अश्व᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मांस्पचन्याः मांसपचन्याः पचतेरधिकरणेल्युड् मांसस्यपचियुड्घञोरित्यंतलोपः उखायाः स्था- ल्यायत् नीक्षणंपाकपरीक्षासाधनं काष्ठं तथा या यानि पात्राणि पूष्णोरसस्व्यक्वथितस्य आसेचनानि आसेचनसधनानि तथाऊष्मण्या ऊष्मनिवारणार्हाणिपात्राणि तथाचरूणांपात्राणां मांसपूर्णानां अ- पिधाना पिधानानितत्साधनानि तथा अंकाः हृदयाद्यबयवांकनसाधनाः वेतसशाखाः सूनाः अवदा- नसाधनाः स्वधित्यादयः एतमश्वंअश्वावयवं परिभूषति परितोभूषयंति स्वस्वव्यापारेणसाधयन्ती- त्यर्थः भूषअलंकारे भौवादिकः ॥ १३ ॥

1.162.14
नि॒क्रम᳚णं नि॒षद᳚नं वि॒वर्त᳚नं॒ यच्च॒ पड्बी᳚श॒मर्व᳚तः ।
यच्च᳚ प॒पौ यच्च᳚ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि᳚ दे॒वेष्व᳚स्तु ॥
▶ पदपाठः (Word-by-word)
नि॒॑क्रम᳚णम् । नि॒॑सद᳚नम् । वि॒॑वर्त᳚नम् । यत् । च॒ । पड्बी᳚शम् । अर्व᳚तः ।
यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास᳚ । सर्वा᳚ । ता । ते॒ । अपि᳚ । दे॒वेषु᳚ । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् निक्रमणं नितरांक्रमतेयत्रतन्निक्रमणंस्थानं नितरांसीदत्यत्रेतिनिषदनं विवर्तनं विविधवर्तनं इतस्ततोलुंठनंयत्रतत् सर्वत्राधिकरणेल्युट् यच्चार्वतोऽश्वस्य पड्वीशंपादबंधनं यद्वा बंधनंपट् तद्वान्प्र- देशः अत्रसर्वत्रदेवार्थस्याश्वस्यरोमादीनामपिनिरर्थकत्वाभावायतत्स्थानमपि स्वीक्रियते यद्वा क्रि- यापरावगंतव्या आलंभसमयेनिग्रहेणयानिक्रमणादयश्चेष्टाःसंति ताइत्यर्थः यच्चपपौ यदुदकमपिबत् तच्चघासिंअदनीयंतृणादिकंजघासअभक्षयत् हेअश्व तेतवतातानिसार्वाणिनिक्रमणादिनि देवेष्वस्तु- संतु देवेषुव्याप्नोतु तान्यपिनिरर्थकानिमाभूवन्नित्यर्थः ॥ १४ ॥

1.162.15
मा त्वा॒ग्निर्ध्व᳚नयीद्धू॒मग᳚न्धि॒र्मोखा भ्राज᳚न्त्य॒भि वि᳚क्त॒ जघ्रि᳚ः ।
इ॒ष्टं वी॒तम॒भिगू᳚र्तं॒ वष᳚ट्कृतं॒ तं दे॒वास॒ः प्रति᳚ गृभ्ण॒न्त्यश्व᳚म् ॥
▶ पदपाठः (Word-by-word)
मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यी॒त् । धू॒म॑ग᳚न्धिः । मा । उ॒खा । भ्राज᳚न्ती । अ॒भि । वि॒क्त॒ । जघ्रिः᳚ ।
इ॒ष्टम् । वी॒तम् । अ॒भि॑गू᳚र्तम् । वष᳚ट्॑कृतम् । तम् । दे॒वासः᳚ । प्रति᳚ । गृ॒भ्ण॒न्ति॒ । अश्व᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्वत्वात्वां धूमगंधिः धूमेनव्याप्तोऽग्निः माध्वनयीत् माध्वनयतु धूमंदृष्ट्वाशब्दंमाकुर्वित्यर्थः अश्वस्यशब्देनप्रायश्चित्तविधानात् यद्वा हेपच्यमानाश्वावयव त्वात्वांधूमगंधिरग्निर्माध्वनयीत् ध्व- नौसति भांडभंगः स्यात् नोनयतीत्यादिनाचङ्प्रतिषेधः ह्न्यंतक्षणेतिवृद्भ्यभावः किंचभ्रा जंतीअत्यं- ताग्निसंयोगेनदीप्ताउखास्थाली मा अभिविक्त अभितोमाचीचलत् तापातिशयेनमानीनशदित्यर्थः ओविजीभयचलनयोः छांदसोविकरणस्यलुक् लुङिवाझलोझलीतिसलोपः स्थालीविशेष्यते जघ्रिः जिघ्रतीतापेन घ्रागंधोपादाने आदृगमहनइतिकिन्प्रत्ययः तंतादृशमश्वं इष्टंहोतुमिषितं वीतंहोमा- यानीतं अभिगूर्तंआभिमुख्येनप्रदानायोद्यतं यद्वा इष्टंप्रयाजैराप्रीतंवीतं पर्यग्निक्रुतंअभिगूर्तं येयजा- महेइत्यागूरित्योक्तम् वषट्कृतं वषट्कारेणदेवसंस्कृतं एवंभूतं तंदेवासोदेवाः प्रतिगृभ्णंति प्रति- गृह्णन्ति ॥ १५ ॥

1.162.16
यदश्वा᳚य॒ वास᳚ उपस्तृ॒णन्त्य᳚धीवा॒सं या हिर᳚ण्यान्यस्मै ।
सं॒दान॒मर्व᳚न्तं॒ पड्बी᳚शं प्रि॒या दे॒वेष्वा या᳚मयन्ति ॥
▶ पदपाठः (Word-by-word)
यत् । अश्वा᳚य । वासः᳚ । उ॒प॒॑स्तृ॒णन्ति᳚ । अ॒धी॒वा॒सम् । या । हिर᳚ण्यानि । अ॒स्मै॒ ।
स॒म्॑दान᳚म् । अर्व᳚न्तम् । पड्बी᳚शम् । प्रि॒या । दे॒वेषु᳚ । आ । य॒म॒य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वायसंज्ञप्यमानाय अधीवासंउपर्याच्छादनयोग्यं यत् वासउपस्तृणन्ति सर्वतआच्छादयन्ति स्तृञ् आच्छादने क्रैयादिकः तथास्मैअश्वाय या यानिहिरण्यानि सौवर्णराजतकांस्यानिपात्राणिक- ल्पयन्ति तथाअर्वतं षष्ठ्यर्थेद्वितीया अर्वतोश्वस्यसंदानं शिरोबंधनं पड्वीशंपादेषु प्रविष्टंपादबंधनं एतानिप्रिया देवानां प्रियतराणिचात्वालेबद्ध्वा स्थापितानि देवेष्वायामयन्ति प्रापयन्ति ॥ १६ ॥

1.162.17
यत्ते᳚ सा॒दे मह᳚सा॒ शूकृ᳚तस्य॒ पार्ष्ण्या᳚ वा॒ कश᳚या वा तु॒तोद᳚ ।
स्रु॒चेव॒ ता ह॒विषो᳚ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म᳚णा सूदयामि ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । सा॒दे । मह᳚सा । शूकृ᳚तस्य । पार्ष्ण्या᳚ । वा॒ । कश᳚या । वा॒ । तु॒तोद᳚ ।
स्रु॒चा॑इ᳚व । ता । ह॒विषः᳚ । अ॒ध्व॒रेषु᳚ । सर्वा᳚ । ता । ते॒ । ब्रह्म᳚णा । सू॒द॒या॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महसाबलेनशूक्रुतस्य शब्दानुकरणमेतत् शूत्कारंकुर्वतः तेतवसादेसदने गमने निमित्तभूते गमने निमित्तभूते सति सदेर्भावेघञ् कर्षात्वतइत्यन्तोदात्तत्वं अर्थतोगमनं कुर्वन् शूत्कारंकुर्वतस्ते त्वां पा- ष्णर्यावाकशयावातुतोद व्यथयति यद्यस्मात्तस्मात्तेतव ता तानि सर्वा सर्वाणि अध्वरेषुयागेषु ब्रह्म- णामंत्रेणसूदयामि क्षरामि आहुतित्वेन कल्पयामीत्यर्थः तत्रदृष्टान्तः—अध्वरेषुयागेषु ब्रह्मणामंत्रेण- सूदयामि क्षरामि आहुतित्वेन कल्पयामीत्यर्थः तत्रदृष्टान्तः—अध्वरेषु यागेषु हविषः हविराज्यादिकं स्रुचेव स्रुचायथा सूदयंति तद्वत् ॥ १७ ॥

1.162.18 समानपद
चतु᳚स्त्रिंशद्वा॒जिनो᳚ दे॒वब᳚न्धो॒र्वङ्क्री॒रश्व᳚स्य॒ स्वधि᳚ति॒ः समे᳚ति ।
अच्छि᳚द्रा॒ गात्रा᳚ व॒युना᳚ कृणोत॒ परु᳚ष्परुरनु॒घुष्या॒ वि श᳚स्त ॥
▶ पदपाठः (Word-by-word)
चतुः᳚॑त्रिंशत् । वा॒जिनः᳚ । दे॒व॑ब᳚न्धोः । वङ्क्रीः᳚ । अश्व᳚स्य । स्व॑धि᳚तिः । सम् । ए॒ति॒ ।
अच्छि᳚द्रा । गात्रा᳚ । व॒युना᳚ । कृ॒णो॒त॒ । परुः᳚॑परुः । अ॒नु॒॑घुष्य᳚ । वि । श॒स्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनोऽश्वस्यदेवबंधोः देवानांप्रियस्य चतुस्त्रिंशद्वंक्रीः एतत्संख्यान्युभयपार्श्वास्थीनि स्वधितिः छेदनसाधनोऽसिः समेति सम्यग्गच्छति छेदनायइतरेषांअजादीनांषड्विंशतिरेव षड्विंशतिरस्यवं- क्रयइतिप्रैषात् हेविशसनकर्तः अस्याश्वस्यगात्राणिशरीरावयवान् अच्छिद्राणियथाभवन्तितथाव- युना वयुनानि प्रज्ञानानि वयुनमितिप्रज्ञानाम वयुनंअभिख्येतितन्नामसूक्तत्वात् कृणोत कुरुत तप्त- नप्तनथनाश्चेतितबादेशः हृदयजिह्वावक्षः प्रभृतीनिप्रज्ञायमध्येछिन्नानि माकुरुतेत्यर्थः तदर्थंपरुःपरुः प्रतिर्वप्रतिहृदयाद्यवयवं अनुघृष्यइदमवद्यमिति संशब्द्यैवविशस्त विशासनंकुरुत शसुहिंसायां छांद- सःशपोलुक् गात्रंगात्रमस्यानूनंकृणुतादितिप्रैषात् ॥ १८ ॥

1.162.19
एक॒स्त्वष्टु॒रश्व᳚स्या विश॒स्ता द्वा य॒न्तारा᳚ भवत॒स्तथ᳚ ऋ॒तुः ।
या ते॒ गात्रा᳚णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा᳚नां॒ प्र जु᳚होम्य॒ग्नौ ॥
▶ पदपाठः (Word-by-word)
एकः᳚ । त्वष्टुः᳚ । अश्व᳚स्य । वि॒॑श॒स्ता । द्वा । य॒न्तारा᳚ । भ॒व॒तः॒ । तथा᳚ । ऋ॒तुः ।
या । ते॒ । गात्रा᳚णाम् । ऋ॒तु॒॑था । कृ॒णोमि᳚ । ता॑ता᳚ । पिण्डा᳚नाम् । प्र । जु॒हो॒मि॒ । अ॒ग्नौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वष्टुरस्यदीप्तस्याश्वस्य विशस्ताविशसनस्यकर्ता एकएव सकः ऋतुः एतदुपलक्षितः कालात्मा तस्यैवसर्वेषामपिपर्यवसितृत्वात् यद्वा ऋतुः निःशंकंविशसनायगंताशमिता तथा द्वा द्वौ यंतारा नियमयितारौअहोरात्रेदेवौ द्यावापृथिव्यौवा ऋत्विक्षुभवतः तथाक्रतुरित्यत्र ऋत्यकइतिप्रकृतिभा- वोह्रस्वत्वंच हेअश्व तेतवगात्राणांमध्येयायानि हृदयाद्यवयवजातानि ऋतुथाकालेकृणोमिछिनद्भि संपादयामि पिण्डानांमध्ये ताता तानितानि प्रज्ञाना नुरोधेनाग्नौजुहोमि प्रकर्षेणहुतंकरोमि ॥ १९ ॥

1.162.20
मा त्वा᳚ तपत्प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि᳚तिस्त॒न्व१॒᳚ आ ति᳚ष्ठिपत्ते ।
मा ते᳚ गृ॒ध्नुर᳚विश॒स्ताति॒हाय᳚ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू᳚ कः ॥
▶ पदपाठः (Word-by-word)
मा । त्वा॒ । त॒प॒त् । प्रि॒यः । आ॒त्मा । अ॒पि॒॑यन्त᳚म् । मा । स्व॑धि᳚तिः । त॒न्वः᳚ । आ । ति॒स्थि॒प॒त् । ते॒ ।
मा । ते॒ । गृ॒ध्नुः । अ॒वि॒॑श॒स्ता । अ॒ति॒॑हाय᳚ । छि॒द्रा । गात्रा᳚णि । अ॒सिना᳚ । मिथु᳚ । क॒रिति᳚ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्वत्वात्वां अपियंतं देवान्प्रति गच्छ्न्तं प्रियआत्माभोगायतनत्वात् तवप्रियतरोदेहोमातपत् तप्तंमाकार्षीत् स्थापयतेर्लुङि तिष्ठतेरिदितीत्वं तथा तेतवगात्राणि गृध्रुः केवलमांसग्रहणेप्सुः अविश- स्ता विशसने अकुशलः शमिता अतिहाय न्यूनातिरेकभावेन तत्तदंगमतिक्रम्य मध्ये मिथु मिथ्याव्यर्थं असिनाछिद्रा छिद्राणि तिर्यक् छिन्नानिमाकः माकार्षीत् करोतेर्लुङि मंत्रेघसेतिच्लेर्लुक् गुणः हल् ङ्याब्भ्यइतितलोपः ॥ २० ॥

1.162.21
न वा उ᳚ ए॒तन्म्रि᳚यसे॒ न रि᳚ष्यसि दे॒वा{4} इदे᳚षि प॒थिभि᳚ः सु॒गेभि᳚ः ।
हरी᳚ ते॒ युञ्जा॒ पृष᳚ती अभूता॒मुपा᳚स्थाद्वा॒जी धु॒रि रास᳚भस्य ॥
▶ पदपाठः (Word-by-word)
न । वै । ऊं॒ इति᳚ । ए॒तत् । म्रि॒य॒से॒ । न । रि॒ष्य॒सि॒ । दे॒वान् । इत् । ए॒षि॒ । प॒थि॑भिः᳚ । सु॒॑गेभिः᳚ ।
हरी॒ इति᳚ । ते॒ । युञ्जा᳚ । पृष᳚ती॒ इति᳚ । अ॒भू॒ता॒म् । उप᳚ । अ॒स्था॒त् । वा॒जी । धु॒रि । रास᳚भस्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवाउ नैवखलु एतन्म्रियसे वाशब्दएवकारार्थः उइत्यवधारणे नैवेदानीं इतराश्ववन्मृतोभवसि देवत्वप्राप्तेर्वक्ष्यमाणत्वात् अतएवनरिष्यसि नहिंस्यसे व्यर्थहिंसायाअभावात् ननुप्रत्यक्षतोमृतिरवय- वनाशश्चदृश्यते कथमेवमुच्यतइति उच्यते सुगेभिः शोभनगमनसाधनैः पथिभिः मार्गैः देवयानलक्ष- णैः देवानिदेषि देवानेवप्राप्नोषि अतोयुक्तैषोक्तिः कैःसाधनैरितितत्राह—तेत्वंवोढुं हरीएतन्नामाना- विंद्रस्याश्वौ तेतवयुंजा रथेयुक्तावभूतां भविष्यतः आशंसारूपत्वात् भूतार्थनिर्देशः हरीइंद्रस्येतिनिरु- क्तम् । तथापृषती पृषत्योमरुतांवाहनभूतौ युंजाअभूतां युक्तौभविष्यतः पृषत्योमरुतामितिचनिरुक्तम् । युजेरृत्विगित्यादिनाक्विन् युजेरसमासेइतिनुम् सुपांसुलुगित्याकारः तथारासभस्यअश्विवाहनस्य ए- तन्नामकस्याश्वस्य धुरिस्थानेवर्तमानः कश्चिद्वाजीउपास्थात् उपस्थास्यति वहतीत्यर्थः यद्वा रासभ- स्यभानोर्धुरिवर्त्मनियुक्तोवाजी अश्वः उपस्थास्यति देवत्वंगच्छतस्तवगमनाय इन्द्रादयः स्वस्ववाह- नानि प्रेषयन्तीत्यर्थः यद्वा तत्तद्देवभावमापन्नं त्वांतानितानिवाहनानिवहंति ॥ २१ ॥ उपाकरणकाले अवघ्राणावर्तने यद्यश्वोनकुर्यात् तदैषानैमित्तिकीयजमानवाचनार्थाभवति तथा- चसूत्रितम्—सुगव्यंनोवाजीस्वश्व्यमितियजमानंवाचयेदिति ।

1.162.22 समानपद
सु॒गव्यं᳚ नो वा॒जी स्वश्व्यं᳚ पुं॒सः पु॒त्रा{4} उ॒त वि᳚श्वा॒पुषं᳚ र॒यिम् ।
अ॒ना॒गा॒स्त्वं नो॒ अदि᳚तिः कृणोतु क्ष॒त्रं नो॒ अश्वो᳚ वनतां ह॒विष्मा᳚न् ॥
▶ पदपाठः (Word-by-word)
सु॒॑गव्य᳚म् । नः॒ । वा॒जी । सु॒॑अश्व्य᳚म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्व॒॑पुष᳚म् । र॒यिम् ।
अ॒ना॒गाः॒॑त्वम् । नः॒ । अदि᳚तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः᳚ । व॒न॒ता॒म् । ह॒विष्मा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजीअश्वआलभ्यमानोऽस्माकं सुगव्यंशोभनेनगोसमूहेनयुक्तंविश्वापुषंरयिं विश्वस्य पोषकंधनं- कृणोतुकरोतु खलगोरथादितिसमूहार्थेयत् छान्दसमुत्तरपदाद्युदात्तत्वं यद्वा सामूहिकस्याणः प्रसंगेस- र्वत्रगोरजादिप्रत्ययप्रसंगेइतियत् तदंतस्याद्युदात्तंद्भ्यच् छन्दसीत्युत्तरपदाद्युदात्तत्वं तथास्वश्व्यं शॊ- भनाश्वसमूहयुक्तं तथा पुंसः पुत्रान् पुत्रशब्दः स्त्रीपुमपत्यसाधारणः अतः पुमपत्यानीत्यर्थः यद्वा पुं- सोबंध्वादीन् पुत्रान्पुरुरक्षकानात्मजान् स्त्र्यपत्यानिपुमपत्यानिचेत्यर्थः उत अपिच विश्वापुषंरयिं- विश्वपोषणसमर्थंधनं किंचनोऽस्मानदितिः अदीनोश्वः अनागास्त्वं कृणोतु सर्वतोनिष्पापत्वंकरोतु उक्तानांफलानांन्यूनातिरेकजनितपापक्षयाभावे असंभवादपापत्वंप्रार्थ्यते किंच हविष्मान् हविर्भूता- वयवोपेतोऽश्वोनोऽस्माकंक्षत्रंबलंक्षात्रंतेजोवनतां संभजतांकुरुताम् ॥ २२ ॥

यदक्रंदइतित्रयोदशर्चंसप्तमंसूक्तंदैर्घतमसंत्रैष्टुभं अश्वस्यस्तूयमानत्वात्तद्देवत्यं यदक्रंदः सप्तोनेत्य- नुक्रमणिका । आशमेधिकेमध्यमेहनिउपाकरणायावस्थितमश्वमाद्याभिरेकादशभिः स्तौति तथाच त्रीणिसुत्यानीतिखण्डेसूत्रितम्—तमवस्थितमुपाकरणाययदक्रंदइत्येकादशभिः स्तौत्यप्रणुवन्निति ।