श्रवणम्

1.162.22 समानपद
सु॒गव्यं᳚ नो वा॒जी स्वश्व्यं᳚ पुं॒सः पु॒त्रा{4} उ॒त वि᳚श्वा॒पुषं᳚ र॒यिम् ।
अ॒ना॒गा॒स्त्वं नो॒ अदि᳚तिः कृणोतु क्ष॒त्रं नो॒ अश्वो᳚ वनतां ह॒विष्मा᳚न् ॥
▶ पदपाठः (Word-by-word)
सु॒॑गव्य᳚म् । नः॒ । वा॒जी । सु॒॑अश्व्य᳚म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्व॒॑पुष᳚म् । र॒यिम् ।
अ॒ना॒गाः॒॑त्वम् । नः॒ । अदि᳚तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः᳚ । व॒न॒ता॒म् । ह॒विष्मा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजीअश्वआलभ्यमानोऽस्माकं सुगव्यंशोभनेनगोसमूहेनयुक्तंविश्वापुषंरयिं विश्वस्य पोषकंधनं- कृणोतुकरोतु खलगोरथादितिसमूहार्थेयत् छान्दसमुत्तरपदाद्युदात्तत्वं यद्वा सामूहिकस्याणः प्रसंगेस- र्वत्रगोरजादिप्रत्ययप्रसंगेइतियत् तदंतस्याद्युदात्तंद्भ्यच् छन्दसीत्युत्तरपदाद्युदात्तत्वं तथास्वश्व्यं शॊ- भनाश्वसमूहयुक्तं तथा पुंसः पुत्रान् पुत्रशब्दः स्त्रीपुमपत्यसाधारणः अतः पुमपत्यानीत्यर्थः यद्वा पुं- सोबंध्वादीन् पुत्रान्पुरुरक्षकानात्मजान् स्त्र्यपत्यानिपुमपत्यानिचेत्यर्थः उत अपिच विश्वापुषंरयिं- विश्वपोषणसमर्थंधनं किंचनोऽस्मानदितिः अदीनोश्वः अनागास्त्वं कृणोतु सर्वतोनिष्पापत्वंकरोतु उक्तानांफलानांन्यूनातिरेकजनितपापक्षयाभावे असंभवादपापत्वंप्रार्थ्यते किंच हविष्मान् हविर्भूता- वयवोपेतोऽश्वोनोऽस्माकंक्षत्रंबलंक्षात्रंतेजोवनतां संभजतांकुरुताम् ॥ २२ ॥

यदक्रंदइतित्रयोदशर्चंसप्तमंसूक्तंदैर्घतमसंत्रैष्टुभं अश्वस्यस्तूयमानत्वात्तद्देवत्यं यदक्रंदः सप्तोनेत्य- नुक्रमणिका । आशमेधिकेमध्यमेहनिउपाकरणायावस्थितमश्वमाद्याभिरेकादशभिः स्तौति तथाच त्रीणिसुत्यानीतिखण्डेसूत्रितम्—तमवस्थितमुपाकरणाययदक्रंदइत्येकादशभिः स्तौत्यप्रणुवन्निति ।