श्रवणम्

1.162.5
होता᳚ध्व॒र्युराव᳚या अग्निमि॒न्धो ग्रा᳚वग्रा॒भ उ॒त शंस्ता॒ सुवि᳚प्रः ।
तेन᳚ य॒ज्ञेन॒ स्व᳚रंकृतेन॒ स्वि᳚ष्टेन व॒क्षणा॒ आ पृ᳚णध्वम् ॥
▶ पदपाठः (Word-by-word)
होता᳚ । अ॒ध्व॒र्युः । आ॑व᳚याः । अ॒ग्नि॒म्॑इ॒न्धः । ग्रा॒व॒॑ग्रा॒भः । उ॒त । शंस्ता᳚ । सु॑वि᳚प्रः ।
तेन᳚ । य॒ज्ञेन᳚ । सु॑अ᳚रङ्कृतेन । सु॑इ᳚ष्टेन । व॒क्षणाः᳚ । आ । पृ॒ण॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होता देवानामाह्वाता एतन्नामकऋत्विक् अध्वर्युरध्वरयुः अध्वरस्यनेता सोऽपिआवयाः आभिमुख्येनहविषांगमयिताअध्वर्योर्विशेषणमेतत् आङ्पूर्वाद्वेतेरसुन् पूर्वपदप्रकृतिस्वरत्वंच यद्वा आभिमुख्येनावयष्टाप्रतिप्रस्थातोच्यते अवेयजइतिण्विन् अवाप्योरुपसर्गयोरित्यल्लोपः अग्निमिंधो- ग्नीत् भाष्ट्राग्न्योरिंधेइतिमुम् ग्रावग्राभः ग्राव्णःस्तुत्यागृह्णातीति ग्रावस्तुत् कर्मण्यण् उत अपिच शंस्ताप्रशास्ता सुविप्रइतिमेधाविनाम शोभनमेधोपेतोब्रह्मोच्यते ब्रह्मात्वोवदतिजातविद्यामित्यत्र ब्रह्मैकोजातेजातेविद्यांवदतिब्रह्मासर्वविद्यः सर्वंवेदितुमर्हतीत्युक्तत्वात् ब्रह्मैवसुविप्रशब्देनाभिधेयः सचानुक्तऋत्विगुपलक्षकः एतेसर्वेयूयंतेनप्रसिद्धेनस्वरंकृतेनसुष्ठुअरणीयंकृतेनस्वलंकृतेनवा उच्चारसौ- ष्ठवादिनासुष्ठुसंपादितेनस्विष्टेनसुष्ठुइष्टेनयज्ञेनवक्षणाः अभितोघृतकुल्यादीन्प्रवहणस्वभावाः प्रसिद्धा- नदीर्वा आपृणध्वं सर्वतःपूरयत यज्ञंसम्यक् निवर्त्यफलंसाधयतेत्यर्थः ॥ ५ ॥