प्रथमं मण्डलम् - सूक्तम् 146

5 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.146 - सम्पूर्णम्

1 / 5
ऋक्: 1.146.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.146.1
त्रि॒मू॒र्धानं᳚ स॒प्तर᳚श्मिं गृणी॒षे॑नू᳚नम॒ग्निं पि॒त्रोरु॒पस्थे᳚ ।
नि॒ष॒त्तम᳚स्य॒ चर᳚तो ध्रु॒वस्य॒ विश्वा᳚ दि॒वो रो᳚च॒नाप᳚प्रि॒वांस᳚म् ॥
▶ पदपाठः (Word-by-word)
त्रि॒॑मू॒र्धान᳚म् । स॒प्त॑र᳚श्मिम् । गृ॒णी॒षे॒ । अनू᳚नम् । अ॒ग्निम् । पि॒त्रोः । उ॒प॑स्थे᳚ ।
नि॒॑स॒त्तम् । अ॒स्य॒ । चर᳚तः । ध्रु॒वस्य᳚ । विश्वा᳚ । दि॒वः । रो॒च॒ना । आ॒प॒प्रि॒॑वांस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयाग्निर्यज्ञरूपेणस्तूयते त्रिमूर्धानं सवनत्रयरूपमूर्धत्रयोपेतं द्वित्रिभ्यांपाद्दन्मूर्धसुबहुव्रीहावि- त्युत्तरपदात्तत्वम् किंच सप्तरश्मिं नियामकसप्तच्छन्दोयुक्तंअनूनं अविकलं संपूर्णफलं अग्निं अग्निसाध्यं अङ्गनादिगुणयुक्तंवा पित्रोरुपस्थे द्यावापृथिव्योरुत्संगे निषन्तं निषण्णं मध्येवर्तमानमित्यर्थः भूमि- स्थद्रव्येणद्युलोकस्थदेवताभिश्चसाध्यत्वादितियावत् किंच ध्रुवस्य निश्चलस्यचरतः हविर्भक्षयतोऽ– स्याग्नेः संबन्धिनं यज्ञं दिवः द्युलोकादागतानि विश्वानि रोचनानि देवविमानानि आपप्रिवांसं सर्वतः पूरयितारं गृणीषे गृणीहि स्तुहि यद्वा अयमग्निरेवोच्यते त्रिमूर्धानं मूर्धवदत्रक्षित्यन्तरिक्षद्युलोकाख्य- स्थानत्रयोपेतं लोकत्रयव्याप्तमित्यर्थः गार्हपत्यादिस्थानत्रयवर्तिनंवा सप्तरश्मिं सप्तज्वालं अनूनं पि- त्रोर्द्याव्यापृथिव्योरुपस्थेउत्संगे निषत्तं नसत्तनिषत्तेतिनिपातनान्निष्ठानत्वाभावः निषण्णंआपप्रिवांसं सर्वतः पूरयन्तंकामनां उक्तलक्षणविशिष्टमग्निं गृणीषेगृणीहि स्तुहि किंच चरतः सर्वत्रज्वालाभिर्ग- च्छतः ध्रुवस्यधृतत्वादविचलितस्यदिवोद्योतमानस्यास्याग्नेर्विश्वासर्वाणि रोचनारोचमानानितेजां- सि सर्वत्र व्याप्नुवन्तीतिशेषः ईदृशमग्निंस्तुहीत्यन्तरात्मनःप्रैषः ॥ १ ॥

1.146.2 समानपद
उ॒क्षा म॒हा{4} अ॒भि व᳚वक्ष एने अ॒जर᳚स्तस्थावि॒तऊ᳚तिरृ॒ष्वः ।
उ॒र्व्याः प॒दो नि द᳚धाति॒ सानौ᳚ रि॒हन्त्यूधो᳚ अरु॒षासो᳚ अस्य ॥
▶ पदपाठः (Word-by-word)
उ॒क्षा । म॒हान् । अ॒भि । व॒व॒क्षे॒ । ए॒ने॒ इति᳚ । अ॒जरः᳚ । त॒स्थौ॒ । इ॒तः॑ऊ᳚तिः । ऋ॒ष्वः ।
उ॒र्व्याः । प॒दः । नि । द॒धा॒ति॒ । सानौ᳚ । रि॒हन्ति᳚ । ऊधः᳚ । अ॒रु॒षासः᳚ । अ॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्षासेक्ता फलप्रदइत्यर्थः अतएवमहान् महिम्ना स्वरूपेणौद्वृत्तवृषभसदृशोयमग्निः एनेद्यावापृ- थिव्यौ अभिअभिक्रम्यव्याप्यववक्षे वहति व्याप्नोतीत्यर्थः वहतेर्लेटिछान्दसःशपःश्लुःलोपस्तआत्मने- पदेष्वितितलोपः सिब्बहुलमितिसिप् वृष्ट्यादिप्रदानेन हविर्वहनेनचलोकद्वयवासिनोदेवान्मनुष्यां- श्चरक्षतीत्यर्थः किंचायंअजरः जरारहितः ऋष्वःमहान् पूज्यः महन्नामैतत् ऋष्वः उक्षइतितन्नामसु- पाठात् तथाइतऊतिः प्राप्तरक्षणःसन् तस्थौ स्थितः वर्तते यद्वा उक्तगुणोयं इतऊतिः एतएवगमनवा- न् अस्मद्देवयजनाभिमुखगमनवान् तस्थौ वर्तते तदनन्तरं उर्व्याः विस्तृतायाः भूम्याः सानौसमुच्छ्रि- तेप्रदेशे वेदिलक्षणे पदोनिदधाति पदानि स्थापयति करोति किंचास्याग्नेः अरुषासः अरुषाआरोच- नाज्वालाः ऊधःस्थानीयमन्तरिक्षं रिहन्ति लिहंति यद्वा अस्योधः ऊधःस्थानीयं यज्ञं अरुषासःआरो- चनाः ब्रह्मवर्चसेनयजमानाः रिहन्ति अभिमतस्वर्गादीनिलिहन्ति ॥ २ ॥

1.146.3
स॒मा॒नं व॒त्सम॒भि सं॒चर᳚न्ती॒ विष्व᳚ग्धे॒नू वि च᳚रतः सु॒मेके᳚ ।
अ॒न॒प॒वृ॒ज्या{4} अध्व᳚नो॒ मिमा᳚ने॒ विश्वा॒न्केता{4}॒ अधि᳚ म॒हो दधा᳚ने ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । व॒त्सम् । अ॒भि । स॒ञ्चर᳚न्ती॒ इति᳚ स॒म्॑चर᳚न्ती । विष्व᳚क् । धे॒नू इति᳚ । वि । च॒र॒तः॒ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ ।
अ॒न॒प॒॑वृ॒ज्यान् । अध्व᳚नः । मिमा᳚ने॒ इति᳚ । विश्वा᳚न् । केता᳚न् । अधि᳚ । म॒हः । दधा᳚ने॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समानंएकमेववत्सं वत्सस्थानीयं पुत्रवद्धर्षहेतुमग्निमभि अभिमुखंसंचरन्ती संचरन्त्यौ द्वेधेनू अ- ग्निहितकरणेनप्रीणयित्र्यौ पत्नीयजमानलक्षणेधेनू विष्वग्विचरतः संचरतः स्तनपानदिसदृशेन्धनप्र- क्षेपसंमार्जनादिनासम्यक् वर्धयतइत्यर्थः कीदृश्यौते सुमेकेशोभनकर्माणैशोभनमेहनेवापरिचरणकुश- लेइत्यर्थः किंच अनपवृज्यान् अपवर्जनीयरहितान् नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् अध्वनः मार्गान् अग्नेःप्रान्तप्रदेशान् केशाद्यमेध्यरहितान् मिमाने संपादयित्र्यौ किंच विश्वान् केतान् सर्वाणि- प्रज्ञानानि प्रवर्धनविषयाणि महोमहान्ति अधिअधिकंदधानेधारयन्त्यौ ईदृश्यावध्वर्युयजमानरूपे जायापतिरूपेवाधेनू विष्वग्विचरतः ॥ ३ ॥

1.146.4
धीरा᳚सः प॒दं क॒वयो᳚ नयन्ति॒ नाना᳚ हृ॒दा रक्ष᳚माणा अजु॒र्यम् ।
सिषा᳚सन्त॒ः पर्य᳚पश्यन्त॒ सिन्धु᳚मा॒विरे᳚भ्यो अभव॒त्सूर्यो॒ नॄन् ॥
▶ पदपाठः (Word-by-word)
धीरा᳚सः । प॒दम् । क॒वयः᳚ । न॒य॒न्ति॒ । नाना᳚ । हृ॒दा । रक्ष᳚माणाः । अ॒जु॒र्यम् ।
सिसा᳚सन्तः । परि᳚ । अ॒प॒श्य॒न्त॒ । सिन्धु᳚म् । आ॒विः । ए॒भ्यः॒ । अ॒भ॒व॒त् । सूर्यः᳚ । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीरासोधीराः धीमन्तः प्रयोगज्ञाः अध्वर्य्वादयः अजुर्यं अजर्यं अजीर्णं एनमग्निं पदं स्थानंवेदिल- क्षणंनयन्तिप्रापयन्ति मथनदेशाद्गार्हपत्याद्वा अथवा वक्ष्यमाणलक्षणायजमानादयः पदंआस्पदं सर्व- कामानामास्पदमेनंगमयन्ति कीदृशाः ते कवयः क्रान्तदर्शिनोमेधाविनः अनूचानावा येवाअनूचाना- स्तेवाकवयइतिश्रुतेः । किंच नानाहृदाबहुप्रकारयाबुद्भ्या रक्षमाणाः धारयमाणाः किंचैवंरूपास्ते सिंधुंस्यंदमानं यज्ञद्वाराफलानिस्रवंतमग्निं सिषासन्तः संभुक्तुमिच्छन्तः सनितेःसनि सनीवंतर्धेतिवि- कल्पनादिडभावः जनसनखनामित्यात्वं पर्यपश्यन्त परितः पश्यन्ति शुश्रूषन्त इत्यर्थः किंच सूर्यः सर्वस्यप्रसवितायमग्निः एभ्यः एवंकुर्वद्भ्योनॄन्नृभ्यः नेतृभ्यः आविरभवत् तेषामनुग्रहेणप्रत्यक्षोभवत् नॄनित्यत्रविभक्तिव्यत्ययः नॄन्प्राणिनोऽनुग्रहीतुमिति वायोज्यम् ॥ ४ ॥

1.146.5
दि॒दृ॒क्षेण्य॒ः परि॒ काष्ठा᳚सु॒ जेन्य᳚ ई॒ळेन्यो᳚ म॒हो अर्भा᳚य जी॒वसे᳚ ।
पु॒रु॒त्रा यदभ᳚व॒त्सूरहै᳚भ्यो॒ गर्भे᳚भ्यो म॒घवा᳚ वि॒श्वद᳚र्शतः ॥
▶ पदपाठः (Word-by-word)
दि॒दृ॒क्षेण्यः᳚ । परि᳚ । काष्ठा᳚सु । जेन्यः᳚ । ई॒ळेन्यः᳚ । म॒हः । अर्भा᳚य । जी॒वसे᳚ ।
पु॒रु॒॑त्रा । यत् । अभ᳚वत् । सूः । अह᳚ । ए॒भ्यः॒ । गर्भे᳚भ्यः । म॒घ॑वा᳚ । वि॒श्व॑द᳚र्शतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः काष्ठासुपरस्परंव्यावर्तमानासुदशदिक्षुदिदृक्षेण्यः अनुग्रहदृष्ट्यादर्शनयुक्तोभवति यद्वा द्रष्टुमेष्टव्यः दर्शनेच्छाविषयभूतः दृशेःसन्नन्तात्कृत्यार्थेतवैकेन्केन्येतिकेन्यप्रत्ययः अतएवजेन्यः सर्वत्र- प्रादुर्भवनशीलोभवतिजयशीलोवा किंच प्रदानसमयेईळेन्यः स्तुत्योभवति किमर्थमेवंमहोमहतोदे- वादेः अर्भायअर्भकस्याल्पस्य यजमानादेर्वाजीवसेजीवनाय हविर्वहनेनप्रधनप्रदानेनेतिविविकःतत्रो- पपत्तिमाह—यदह यसमात्खलु पुरुत्रा बहुषु देशेषु देवमनुष्येत्यादिना त्राप्रत्ययःमघवा हविर्लक्षणा- न्नवान् विश्वदर्शतः सर्वद्रष्टव्यविषयवानयमग्निः एभ्योगर्भेभ्यः षष्ठ्यर्थेचतुर्थी एषामृत्विजांगर्भव- च्छिशुवदत्यन्तरक्षणीयानांसूरभवत् प्रसविता उत्पादयिताभवत् भवति तस्मान्नानाहृदारक्षमाणाः कवयः पदंनयन्तीतिपूर्वत्रसंबन्धः ॥ ५ ॥

कथातइतिपंचर्चंसप्तमंसूक्तंदैर्घतमसमाग्नेयंत्रैष्टुभं कथेत्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोर- स्यसूक्तस्यविनियोगः त्रिमूर्धानमितित्रीणीत्यनेनोक्तः ।