प्रथमं मण्डलम् - सूक्तम् 167

11 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.167 - सम्पूर्णम्

1 / 11
ऋक्: 1.167.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.167.1
स॒हस्रं᳚ त इन्द्रो॒तयो᳚ नः स॒हस्र॒मिषो᳚ हरिवो गू॒र्तत᳚माः ।
स॒हस्रं॒ रायो᳚ माद॒यध्यै᳚ सह॒स्रिण॒ उप᳚ नो यन्तु॒ वाजा᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚म् । ते॒ । इ॒न्द्र॒ । ऊ॒तयः᳚ । नः॒ । स॒हस्र᳚म् । इषः᳚ । ह॒रि॒॑वः॒ । गू॒र्त॑त᳚माः ।
स॒हस्र᳚म् । रायः᳚ । मा॒द॒यध्यै᳚ । स॒ह॒स्रिणः᳚ । उप᳚ । नः॒ । य॒न्तु॒ । वाजाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेतवऊतयोरक्षाप्रकाराः सहस्रमपरिमिताइत्यर्थः नोस्मभ्यंउपयन्त्वितिसर्वत्रयोज्यं तथा हेहरिवः हरीइन्द्रस्याश्वौ ताभ्यां तद्वन्निन्द्र गूर्ततमाः अत्यन्तंगूर्णानि इषः इषणीयाः अन्नानिसहस्रं- बहूनित्वदीयानि तथासहस्रंरायः अपरिमितानिधनानिमणिमुक्तादीनिमादयध्यै अस्मान् मादयितुं- यानिसन्तितान्यस्मानुपयन्तु तथासहस्रिणोवाजाः गमनवन्तश्चतुष्पाद्रूपाः पशवोपिनोस्मानुपयन्तु समीपंप्राप्नुवन्तु ॥ १ ॥

1.167.2
आ नो॑वो᳚भिर्म॒रुतो᳚ या॒न्त्वच्छा॒ ज्येष्ठे᳚भिर्वा बृ॒हद्दि᳚वैः सुमा॒याः ।
अध॒ यदे᳚षां नि॒युतः᳚ पर॒माः स᳚मु॒द्रस्य᳚ चिद्ध॒नय᳚न्त पा॒रे ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अवः᳚॑भिः । म॒रुतः᳚ । या॒न्तु॒ । अच्छ᳚ । ज्येष्ठे᳚भिः । वा॒ । बृ॒हत्॑दि᳚वैः । सु॒॑मा॒याः ।
अध᳚ । यत् । ए॒षा॒म् । नि॒॑युतः᳚ । प॒र॒माः । स॒मु॒द्रस्य᳚ । चि॒त् । ध॒नय᳚न्त । पा॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेमरुतः अवोभीरक्षणैः सहितानोस्मानच्छ आभिमुख्येनायान्तु आगच्छन्तु सुमायाः मायेतिप्र- ज्ञानाम शोभनप्रज्ञाः एवंमरुतोज्येष्ठेभिः बृहद्दिवैः वा ज्येष्ठैः प्रशस्यतमैर्मणिमुक्तादिधनैश्चसहिता- आयान्तु वाशब्दःसमुच्चये आगमने कथमेषांसामर्थ्यमित्यतआह—अधअथैषांमरुतांयद्यस्मान्नियुतः एतन्नामकाः परमाः उत्कृष्टाः अश्वाः समुद्रस्यचित् चिच्छब्दोप्यर्थे समुद्रस्यापिपारेपरस्मिन् तीरे धनयन्त धनधारणंबहनंकुर्वन्ति तस्माद्रक्षणैर्धेनैश्चायान्त्वित्यर्थः ॥ २ ॥

1.167.3
मि॒म्यक्ष॒ येषु॒ सुधि᳚ता घृ॒ताची॒ हिर᳚ण्यनिर्णि॒गुप᳚रा॒ न ऋ॒ष्टिः ।
गुहा॒ चर᳚न्ती॒ मनु᳚षो॒ न योषा᳚ स॒भाव᳚ती विद॒थ्ये᳚व॒ सं वाक् ॥
▶ पदपाठः (Word-by-word)
मि॒म्यक्ष᳚ । येषु᳚ । सु॑धि᳚ता । घृ॒ताची᳚ । हिर᳚ण्य॑निर्निक् । उप᳚रा । न । ऋ॒ष्टिः ।
गुहा᳚ । चर᳚न्ती । मनु᳚षः । न । योषा᳚ । स॒भा॑व᳚ती । वि॒द॒थ्या᳚॑इव । सम् । वाक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुधिता सुष्ठुनिहिता सुष्ठुहितावा लोकेघृताचीघृतंक्षरणशीलमुदकंअञ्चन्ती हिरण्यनिर्णिक् हितर- मणीयरूपा निर्णिगितिरूपनाम एवं रूपऋष्टिः विद्युदाख्यायुधविशेशोवा उपरान मेघमालेव यषुम- रुत्सुसंमिम्यक्ष म्यक्षतिर्गतिकर्मा सङ्गताभूत् मेघपङ्गिविद्युताविमे अपि सङ्गते इत्यर्थः मेघपङि- ऋर्विद्युच्चोभेदृष्टान्तेनविशेष्येते गुहानिगूढागुहायां वान्तरिक्षेचरन्ती तत्रदृष्टान्तः—मानुषोनयोषा मनुष्यस्य परिवृढादेर्महिषीवत् सायथासुवेषान्तः पुरएवमध्येचरितद्वत् किंसर्वदिवमिति नेत्याह— सभावती सभाजनसङ्घस्तद्वतीवर्षकाले आविर्भवन्तीत्यर्थः तत्रदृष्टान्तः—विदथ्यावागिव विदथो- यज्ञः तदर्हतीतिविदथ्या प्रैषस्तोत्रादिरूपावाक् सायथायज्ञसभांप्राप्याविर्भवतितद्वत् यद्वा विद- थ्यावेदनार्हाविवदमानयोर्वाक् सायथाभवति तद्वत् सैवंरूपायेषुमिम्यक्ष तेमरुतो देवयजनमागच्छ- न्त्वित्यर्थः ॥ ३ ॥

1.167.4
परा᳚ शु॒भ्रा अ॒यासो᳚ य॒व्या सा᳚धार॒ण्येव᳚ म॒रुतो᳚ मिमिक्षुः ।
न रो᳚द॒सी अप᳚ नुदन्त घो॒रा जु॒षन्त॒ वृधं᳚ स॒ख्याय᳚ दे॒वाः ॥
▶ पदपाठः (Word-by-word)
परा᳚ । शु॒भ्राः । अ॒यासः᳚ । य॒व्या । सा॒धा॒र॒ण्या॑इ᳚व । म॒रुतः᳚ । मि॒मि॒क्षुः॒ ।
न । रो॒द॒सी इति᳚ । अप᳚ । नु॒द॒न्त॒ । घो॒राः । जु॒षन्त᳚ । वृध᳚म् । स॒ख्याय᳚ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुभ्राःशोभनालङ्काराअयासोभिगन्तारोमरुतः यव्यामिश्रणशीलयाविद्युतापरामिमिक्षुः प्रक- र्षेणसिञ्चन्तिउदकसंस्त्यायं साधारण्येव यथलोकेसधारण्यास्त्रियासङ्गतायुवानोरेतोमुञ्च न्तितद्वत् एवंकुर्वन्तोघोराःअतिवृष्टिप्रदानेनभयङ्कराः तेरोदसीद्यावाप्रुथिव्यौनापनुदन्त अपनोदनं वर्षणरूपं तिरस्कारंनकुर्वन्ति द्यावापृथिवीवचनोरोदसीशब्दःसर्वत्राद्युदात्तः अत्रतुव्यत्ययेनान्तोदात्तत्वमिति- द्रष्टव्यं यद्वा रोदसीशब्देनरोदनस्वभावोरुद्रः तस्यस्त्रीरोद्सीतिकेचिदाहुः अपरेतुमरुतांस्त्रियोरोदसी- तिनामधेयमित्याहुः अयमेवपक्षोयुक्तः उत्तरत्रैवंव्यवहारात् तत्पक्षेरोदसीरोदस्यांङीषन्तात् सप्तम्या- ईकारोलुग्वा ईदूतौचसप्तम्यर्थेइतिप्रगृह्यसंज्ञा तस्यां प्रियंधनंनमुञ्चन्ति किन्तु देवाःमोदयितारोमा- दयितारोवामरुतः सख्यायवृधंवृद्धिंजुषन्तसेवन्ते द्यावापृथिवीपक्षे सख्यायजगतांसखिभावायतयो- र्वृद्धिंकुर्वन्तीत्यर्थः ॥ ४ ॥

1.167.5
जोष॒द्यदी᳚मसु॒र्या᳚ स॒चध्यै॒ विषि᳚तस्तुका रोद॒सी नृ॒मणा᳚ः ।
आ सू॒र्येव᳚ विध॒तो रथं᳚ गात्त्वे॒षप्र᳚तीका॒ नभ᳚सो॒ नेत्या ॥
▶ पदपाठः (Word-by-word)
जोष᳚त् । यत् । ई॒म् । अ॒सु॒र्या᳚ । स॒चध्यै᳚ । विसि᳚त॑स्तुका । रो॒द॒सी । नृ॒॑मनाः᳚ ।
आ । सू॒र्या॑इ᳚व । वि॒ध॒तः । रथ᳚म् । गा॒त् । त्वे॒ष॑प्र᳚तीका । नभ᳚सः । न । इ॒त्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

रोदसीमरुत्पत्नी विद्युद्वा एतन्नामकेयमपि ईमेनंमरुत्सङ्घं जोषत् सेवते जुषेर्लेट्यडागमः किमर्थं सचध्यैसङ्गमनार्थं कीदृशीसा असुर्या असुराःक्षेप्तारोमरुतः तेषांस्वभूताविषितस्तुका विशिष्टकेशसं- घा विप्रकीर्णकेशसंघावा संभोगवशेन तथानृमणाः नृषुनेतृषुमरुत्सुमननवती मनुष्येषुवावृष्टिप्रदा- नमनोयुक्ता त्वेषप्रतीकादीप्तोपक्रमादीप्तावयवा ईदृशीदेवीविधतः परिचरतोमरुत्संघस्यरथमागात् आगच्छतिव्याप्नोति यागदेशंगन्तुंरथमारुह्यवायज्ञमागच्छति केव विधतःसूर्यस्यरथंत्वेषप्रतीकासूर्य- पत्नीव यद्वा सूर्यस्यदुहिताश्विनोरथमिव सायथारोहतितद्वत् आगमनेदृष्टान्तः—नभसइत्यान अन्त- रिक्षादित्ययोः साधरणोयंनभःशब्दः नभइतिषट्साधारणानीत्युक्तत्वादत्रादित्यवचनः तस्यगतिरिव सायथाशीघ्रातद्वत् ॥ ५ ॥

1.167.6
आस्था᳚पयन्त युव॒तिं युवा᳚नः शु॒भे निमि᳚श्लां वि॒दथे᳚षु प॒ज्राम् ।
अ॒र्को यद्वो᳚ मरुतो ह॒विष्मा॒न्गाय᳚द्गा॒थं सु॒तसो᳚मो दुव॒स्यन् ॥
▶ पदपाठः (Word-by-word)
आ । अ॒स्था॒प॒य॒न्त॒ । यु॒व॒तिम् । युवा᳚नः । शु॒भे । नि॑मि᳚श्लाम् । वि॒दथे᳚षु । प॒ज्राम् ।
अ॒र्कः । यत् । वः॒ । म॒रु॒तः॒ । ह॒विष्मा᳚न् । गाय᳚त् । गा॒थम् । सु॒त॑सो᳚मः । दु॒व॒स्यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

युवानोमिश्रयन्तः नित्यतरुणावामरुतः युवतिं मिश्रयन्तींनित्यतरुणींवाविद्युद्रूपांरोदस्यां स्त्रिय- मास्थापयन्त आस्थापयन्ति देवतात्वेनरथेधारयन्ति कीदृशींतां निमिश्लांनियमेनमिश्रयन्तींपज्रांप- ज्रोबलंतद्वतींशुभोभतेदीप्यतइतिशुबुदकंवृष्ट्युदकार्थंशुभेरथइतिवायोज्यं किंनिमित्तं विदथेषुयागे- षुनिमित्तभूतेषु कदायत् यदाहेमरुतोवोयुष्मान् अर्कः मत्वर्थोलुप्यते अर्चनसाधनमन्त्रोपेतः स्तोतावा हविष्मान्प्रदेयाज्यादिहविर्युक्तः सुतसोमः होमायाभिषुतः सोमोयंयजमानोदुवस्यन्परिचन् गाथंगा- तव्यंस्तोत्रंगायत् गायति तदेत्यर्थः ॥ ६ ॥

1.167.7 समानपद
प्र तं वि᳚वक्मि॒ वक्म्यो॒ य ए᳚षां म॒रुतां᳚ महि॒मा स॒त्यो अस्ति᳚ ।
सचा॒ यदीं॒ वृष᳚मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह᳚ते सुभा॒गाः ॥
▶ पदपाठः (Word-by-word)
प्र । तम् । वि॒व॒क्मि॒ । वक्म्यः᳚ । यः । ए॒षा॒म् । म॒रुता᳚म् । म॒हि॒मा । स॒त्यः । अस्ति᳚ ।
सचा᳚ । यत् । ई॒म् । वृष᳚॑मनाः । अ॒ह॒म्॑युः । स्थि॒रा । चि॒त् । जनीः᳚ । वह᳚ते । सु॒॑भा॒गाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषांमरुतांयोयोमहिमामहत्त्वातिशयः वक्म्यः सर्वैः स्तुत्यःअबाध्यःअस्ति तंप्रविवक्मि प्रवच्मि- वर्णयामि कथमेषांमहिमाप्राप्तइतिउच्यते—यद्यस्मात् ईंएतेषांसबन्धिनीरोदसी वृषमणावृष्ट्यादि- वर्षणमनस्काअहंयुःअहंकारवतीजगदुपकारकर्त्रीनमत्तः काचिदस्तीत्यहंकारः स्थिराचित् चिदितिपू- जायां अत्यन्तमविनश्वराईदृशीदेवीसुभगाः शोभनभाग्योपेताः जनीः जननशीलाःप्रजाः वृष्ट्युत्प- त्तीर्वावहतेधारयति वृष्टौसत्यांसर्वेप्राणिनउत्पद्यन्ते यस्मादेवंतस्मान्महिमास्ति तंमहिमानंस्तौमीत्य- र्थः ॥ ७ ॥

1.167.8
पान्ति᳚ मि॒त्रावरु᳚णावव॒द्याच्चय᳚त ईमर्य॒मो अप्र᳚शस्तान् ।
उ॒त च्य᳚वन्ते॒ अच्यु᳚ता ध्रु॒वाणि᳚ वावृ॒ध ईं᳚ मरुतो॒ दाति᳚वारः ॥
▶ पदपाठः (Word-by-word)
पान्ति᳚ । मि॒त्रावरु᳚णौ । अ॒व॒द्यात् । चय᳚ते । ई॒म् । अ॒र्य॒मो इति᳚ । अप्र᳚॑शस्तान् ।
उ॒त । च्य॒व॒न्ते॒ । अच्यु᳚ता । ध्रु॒वाणि᳚ । व॒वृ॒धे । ई॒म् । म॒रु॒तः॒ । दाति᳚॑वारः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः युष्मत्संबन्धिनोदेवाः मित्रावरुणौअहोरात्र्यभिमानिदेवौ अर्यमो अर्यमा उ इतिनिपात- समुदायात्मकमेकंपदं उशब्दोपिशब्दार्थे अर्यमापिएतेत्रयोपिईंअमुंलोकंयज्ञंवाअवद्यात् गर्ह्यात् अय- थानुष्ठानात् जगत्पक्षेव्यवहारप्रतिबन्धरूपात्पान्तिरक्षन्ती तथाएतेषांमध्ये अर्यमोऽप्रशस्तान् क्षीणा- नपिपदार्थान् चयतेचायन्तिनाशयन्ति उतअपिचएतैः प्रेरितानिअच्युताअच्युतानिअस्रावीणिएतए- वध्रुवाणिअविचलानिमेघस्थोदकानिच्यवन्ते च्यावयन्तिवा एते अहोरात्रेवैमित्रावरुणावहोरात्रा- भ्यांखलुवैपर्जन्योवर्षतीतिश्रुतेः । यद्वा अच्युतानिध्रुवाणिधनानिच्यवन्ते कदेतिउच्यते हेमरुतोयुष्म- दीयंईमयंकालोदातिवारः प्रदेयजलः खण्डितमेघोवायदाववृधेवर्धते तदामित्रायोदेवायुष्मदनुकूल- व्यापारेणजगद्रक्षन्तीत्यर्थः यद्वा दातिवारोदत्तवरणीयहविर्लक्षणधनोयजमानः हेमरुतः ईमेनान् युष्मान् ववृधेवर्धयतियदा तदेत्यर्थः ॥ ८ ॥

1.167.9
न॒ही नु वो᳚ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता᳚च्चि॒च्छव᳚सो॒ अन्त᳚मा॒पुः ।
ते धृ॒ष्णुना॒ शव᳚सा शूशु॒वांसो॑र्णो॒ न द्वेषो᳚ धृष॒ता परि᳚ ष्ठुः ॥
▶ पदपाठः (Word-by-word)
न॒हि । नु । वः॒ । म॒रु॒तः॒ । अन्ति᳚ । अ॒स्मे इति᳚ । आ॒रात्ता᳚त् । चि॒त् । शव᳚सः । अन्त᳚म् । आ॒पुः ।
ते । धृ॒ष्णुना᳚ । शव᳚सा । शू॒शु॒॑वांसः᳚ । अर्णः᳚ । न । द्वेषः᳚ । धृ॒ष॒ता । परि᳚ । स्थुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वःशवसोयुष्माकंसबन्धिनोबलस्य अन्तमवसानं अन्ति अन्तिके आरात्तात् चित् दूरादपि यद्वा चिदितिकुत्सायां अत्यन्तदूरात् अस्मे अस्मासुमध्येएकेपि नुक्षिप्रंनह्यायुः नैवखलुप्राप्नुवन्ति स- न्निधावसन्निधौचनप्राप्नुवन्तीत्यर्थः अथपरोक्षेप्राप्तबलत्वमाह—तेखलुमरुतोधृष्णुनाधर्षकेण शवसा- बलेनशूशुवांसोवर्धमानाः अतएवधृषतापराभिभावकेनसामर्थ्येनद्विषोद्वेष्टॄन् परिष्ठुःपरिभवन्तिवशी- कुर्वन्ति तत्रदृष्टान्तः—उर्णोन उदकमिव यथाउदकंस्वविरोधिरजआदिकमभिभवतितद्वत् यस्मादेवं- तस्मात् शवसोन्तंनापः ॥ ९ ॥ वयमद्येत्येतांदशमींअस्तमितेआदित्येजपेत् तथाचसूत्रम्—वयमद्येन्द्रस्यप्रेष्ठाइत्यस्तंयात्यादित्यइ- तिपाठस्तु ।

1.167.10
व॒यम॒द्येन्द्र᳚स्य॒ प्रेष्ठा᳚ व॒यं श्वो वो᳚चेमहि सम॒र्ये ।
व॒यं पु॒रा महि᳚ च नो॒ अनु॒ द्यून्तन्न᳚ ऋभु॒क्षा न॒रामनु᳚ ष्यात् ॥
▶ पदपाठः (Word-by-word)
व॒यम् । अ॒द्य । इन्द्र᳚स्य । प्रेष्ठाः᳚ । व॒यम् । श्वः । वो॒चे॒म॒हि॒ । स॒॑म॒र्ये ।
व॒यम् । पु॒रा । महि᳚ । च॒ । नः॒ । अनु᳚ । द्यून् । तत् । नः॒ । ऋ॒भु॒क्षाः । न॒राम् । अनु᳚ । स्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्दिनेवयंयष्टारइन्द्रस्यदेवस्यप्रेष्ठाः प्रियतमाः भवेम यद्वा प्रियतमवयमिन्द्रस्य महत्त्वं- वोचेमहि स्तोतुंसमर्थाभूयास्म किञ्च वयंश्वः परस्मिन्नपिदिनेसमर्थेसहमर्थामर्त्याऋत्विजोयस्मिन्स- मर्थोयज्ञः तस्मिन् सङ्ग्रामेवाइन्द्रस्यमहत्त्वंवोचेमहि किञ्च वयंपुरापूर्वस्मिन्नतीतेपिकालेमहिमहत् बलंनोस्मदर्थंवोचेमहि तथा द्यून् दिवसाननुप्रतिदिवसमित्यर्थः अतीते आगामिनिच दिवसे सर्वदा- वोचेमहि तत् तस्मादृभुक्षाः महन्नामैतत् ऋभुक्षाः उक्षाइतितन्नामसुपाठात् महानिन्द्रोनरांमनुष्या- णांमध्येनोस्माननुस्यात् अनुभवतु अनुकूलमभिमतप्रदोवाभवतु ॥ १० ॥

1.167.11
ए॒ष व॒ः स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य᳚ मा॒न्यस्य᳚ का॒रोः ।
एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वः॒ । स्तोमः᳚ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य᳚ । मा॒न्यस्य᳚ । का॒रोः ।
आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे᳚ । व॒याम् । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषइत्येकादशीव्याख्याता ॥ ११ ॥

यज्ञायज्ञेतिदशर्चंचतुर्थंसूक्तंआगस्त्यंमारुतं अन्त्यास्तिस्रस्त्रिष्टुभः शिष्टाःसप्त त्रिष्टुवन्तपरिभाषया- जगत्यः यज्ञायज्ञादशत्रिष्टुवन्तमित्यनुक्रान्तं विशेषविनियोगोलैङ्गिकः ।