प्रथमं मण्डलम् - सूक्तम् 122

15 ऋचः

ऋषिः: कक्षीवान् दैर्घतमस औशिजः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 1.122 - सम्पूर्णम्

1 / 15
ऋक्: 1.122.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.122.1
प्र व॒ः पान्तं᳚ रघुमन्य॒वो॑न्धो᳚ य॒ज्ञं रु॒द्राय᳚ मी॒ळ्हुषे᳚ भरध्वम् ।
दि॒वो अ᳚स्तो॒ष्यसु᳚रस्य वी॒रैरि᳚षु॒ध्येव᳚ म॒रुतो॒ रोद᳚स्योः ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । पान्त᳚म् । र॒घु॒॑म॒न्य॒वः॒ । अन्धः᳚ । य॒ज्ञम् । रु॒द्राय᳚ । मी॒ळ्हुषे᳚ । भ॒र॒ध्व॒म् ।
दि॒वः । अ॒स्तो॒षि॒ । असु᳚रस्य । वी॒रैः । इ॒षु॒ध्या॑इ᳚व । म॒रुतः᳚ । रोद᳚स्योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ॥ यंनत्वाकृत्याः स्युस्तंनमामिगजाननम् ॥ १ ॥

यस्यनिःश्वसितंवेदायोवेदेभ्योऽखिलंजगत् ॥ निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ २ ॥

प्रक्रियाप्रथमेकाण्डेसाकल्येनोपवर्णिता । अतऊर्ध्वंतनीज्ञेयास्मर्यतेचक्वचित्क्वचित् ॥ ३ ॥

अथद्वितीयाष्टकेप्रथमोऽध्यायआरभ्यते शतर्चिनामाद्येमण्डलेचतुर्विंशत्यनुवाकाः तेषुकदित्थेत्य- ष्टादशानुवाकेषट्सूक्तानि तत्र प्रवःपान्तमितिद्वितीयंसूक्तम् पंचोनेत्यनुवर्तमानात्पञ्चदशर्चम् ऋषि- श्चान्यस्मादृषेरितिपरिभाषयाकक्षीवानृषिः अनादेशपरिभाषयात्रिष्टुप् विश्वेदेवादेवता प्रवोवैश्वदे- वमित्यनुक्रमणिका अस्यविशेषविनियोगोलैङ्गिकः ।

हेरघुमन्यवः लघुक्रोधाः अक्रोधिनः ऋत्विजोवोयुष्माकंपान्तंपालनशीलंपातव्यंवायज्ञंयागसाध- नमन्धोन्नंआज्यसोमादिलक्षणं रुद्राय रुद्दुःखंतद्धेतुभूतंदुरितंवा तस्यद्रावयित्रेएतन्नामकायदेवायमी- ह्ळुषे फलस्यवर्षित्रेतदर्थंप्रभरध्वम् प्रकर्षेणसंपादयत अहंचइषुध्येवइषुध्यान् शत्रून्याथानिरस्यति तथावीरैरमित्राणांविविधमीरकैर्वीर्योपेतैर्वा तदनुचरैर्मरुदादिभिःसह दिवोद्युलोकसकाशात् उपल- क्षणमेतत् लोकत्रयादपिअसुरस्यनिरसितव्यानामसुराणांनिरसितुः कर्मणिषष्ठी निरसितारंतमेवदेवं रोदस्योः निरोधनवत्योर्द्यावापृथिव्योर्मध्येवर्तमानान्मरुतश्चअस्तोषिस्तौमि ॥ पान्तं पान्तमित्यत्र पातेः शतृ पिबतेर्वाऔणादिकोझः । मीह्ळुषे दाश्वान्साह्वानितिक्वसुप्रत्ययान्तोनिपातितः चतुर्थ्यक- वचने वसोः संप्रसारणमितिसप्रसारणम् शासिवसीत्यादिनाषत्वम् । दिवःऊडिदमित्यादिनाविभक्ते- रुदात्तत्वम् । अस्तोषि स्तौतेश्छान्दसालुङ् । इषुध्येव इषवोधीयन्तेत्रेतीषुधीः कर्मण्यधिकरणेचेतिद- धातेः किः कृत्स्वरेणान्तोदात्तः उदात्तयणोहल्पूर्वादितिविभक्तेरुदात्तत्वम् ॥ १ ॥

1.122.2
पत्नी᳚व पू॒र्वहू᳚तिं वावृ॒धध्या᳚ उ॒षासा॒नक्ता᳚ पुरु॒धा विदा᳚ने ।
स्त॒रीर्नात्कं॒ व्यु᳚तं॒ वसा᳚ना॒ सूर्य᳚स्य श्रि॒या सु॒दृशी॒ हिर᳚ण्यैः ॥
▶ पदपाठः (Word-by-word)
पत्नी᳚॑इव । पू॒र्व॑हू᳚तिम् । व॒वृ॒धध्यै᳚ । उ॒षसा॒नक्ता᳚ । पु॒रु॒धा । विदा᳚ने॒ इति᳚ ।
स्त॒रीः । न । अत्क᳚म् । वि॑उ᳚तम् । वसा᳚ना । सूर्य᳚स्य । श्रि॒या । सु॒॑दृशी᳚ । हिर᳚ण्यैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पत्नीव पत्नीयथापूर्वहूतिंपत्युः पूर्वाह्वानंववृधध्यै वर्धयितुंशीघ्रगतिर्भवतितद्वत् उषासानक्ता अहोरात्रदेवतेअपि पुरुधा बहुप्रकारंबहुविधैः स्तोत्रैःविदानेज्ञायमाने सत्यौ पूर्वहूतिं ववृधध्यै अस्म- दीयंपूर्वाह्वानंवर्धयितुंशीघ्रमागच्छ्तमितिशेषः उषासानक्ता उषासोषसइतिपूर्वपदस्योषासादेशः देवताद्वन्द्वेचेत्युभयपदप्रकृतिस्वरत्वम् अथकेवलोषाउच्यते—स्तरीः शत्रूणांहिंसकस्तेजसा च्छन्नो- वाआदित्यः सइवहिरण्यैर्हिरण्यवर्णैरश्मिभिः व्युतंविततंविशेषेणसंबद्धं अत्कंअक्तं सन्ततंवारूपंवसा- नाआच्छादयन्तीधारयन्ती सूर्यस्यश्रियाशोभयासुदृशी शोभनंदृश्यमाना सूर्यस्यपुरोगामिनीरश्मि- भिःखल्वेषाजगद्भासयति तादृश्युषा अस्मत्पूर्वहूतिंपालयत्वित्यर्थः यद्वा हिरण्यैर्हितरमणीयैः प्रका- शैर्धनविशेषैर्वासहागच्छतु ॥ व्युतं व्येञोनिष्ठायां वचिस्वपीत्यादिनासंप्रसारणम् । स्तरीः अवितृ- स्तॄइतीकारप्रत्ययः ॥ २ ॥

1.122.3
म॒मत्तु᳚ न॒ः परि᳚ज्मा वस॒र्हा म॒मत्तु॒ वातो᳚ अ॒पां वृष᳚ण्वान् ।
शि॒शी॒तमि᳚न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः ॥
▶ पदपाठः (Word-by-word)
म॒मत्तु᳚ । नः॒ । परि᳚॑ज्मा । व॒स॒र्हा । म॒मत्तु᳚ । वातः᳚ । अ॒पाम् । वृष᳚ण्॑वान् ।
शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे᳚ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्मान्वसर्हा वसनार्होगार्हपत्यादिरूपेण यद्वा वासकानमाच्छादकानांवृक्षादीनांहन्ताग्निः अथवा वसर्हावासार्होवासरस्यगमयिता परिज्मा परितोगन्ता आदित्योममत्तुमादयतु तथाअपां वृष्ट्युदकानां वृषण्वान्वर्षणवान् वृष्ट्युत्पादकोवातोवायुः अस्मान्ममत्तु किञ्च हे इन्द्रापर्वता इन्द्रः प्रसिद्धः पर्वतः पर्ववान्वृष्ट्यादिपूरणवान्पर्जन्यस्तौयुवंयुवांनोऽस्मानस्मद्बुद्धिंवाशिशीतं तीक्ष्णी- कुरुतं शोधयतमित्यर्थः तत्तस्मात् यस्मादहंसर्वान्देवान्स्तौमि तस्माद्विश्वेसर्वेऽपिदेवाःनोऽस्माकंवरि- वस्यन्तु प्रभूतन्नंदातुमिच्छन्तु समृद्धान्नप्रदानेनप्रीणयन्त्वित्यर्थः ॥ ममत्तु मदीहर्षे अन्तर्भावितण्यर्था- ल्लोटिछान्दसोविकरणस्यश्लुः द्विर्वचनम् । शिशीतं ईहल्यघोरितीत्वम् बहुलंछन्दसीत्यभ्यासस्येत्व- म् । इन्द्रापर्वतेत्यत्र देवताद्वन्द्वेचेतिपूर्वपदस्यानङादेशः ॥ ३ ॥

1.122.4 समानपद
उ॒त त्या मे᳚ य॒शसा᳚ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ᳚शि॒जो हु॒वध्यै᳚ ।
प्र वो॒ नपा᳚तम॒पां कृ᳚णुध्वं॒ प्र मा॒तरा᳚ रास्पि॒नस्या॒योः ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्या । मे॒ । य॒शसा᳚ । श्वे॒त॒नायै᳚ । व्यन्ता᳚ । पान्ता᳚ । औ॒शि॒जः । हु॒वध्यै᳚ ।
प्र । वः॒ । नपा᳚तम् । अ॒पाम् । कृ॒णु॒ध्व॒म् । प्र । मा॒तरा᳚ । रा॒स्पि॒नस्य᳚ । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

औशिजः उशिजः पुत्रः कक्षीवान् अहं मे तादर्थ्येचतुर्थी मदर्थंयशसा यश इत्यन्नंबलंकीर्तिर्वोच्यते तद्वन्तौ व्यन्ता भक्षयन्तौ चरुपुरोडाशादिकं पान्तापिबन्तावाज्यसोमादिकं त्या तच्छब्दसमानार्थः त्यच्छब्दः यौस्तुत्यत्वेनप्रसिद्धौतावश्विनौ अत्रयद्यपिविशेषोनश्रुतः तथापिसूक्तस्यवैश्वदेवत्वादुषः संबन्धाद्विवचनलिङ्गाच्चाश्विनावितिगम्यते तादृशावश्विनौ श्वेतनायै इतिषष्ठ्यर्थेचतुर्थी विश्वंजग- च्छ्वेतयन्त्याउषसःतत्संबन्धिनिकाले उषःकालीनाह्वानाय यजेयमितिशेषः हेऋत्विजः वोयूयंप्रथ- मार्थेद्वितीया अपामुदकानां नपातंनपातयितारं तासांनप्तारंवाग्निं अद्भ्यः ओषधिवनस्पतयःताभ्योऽ- ग्निरित्यपांनप्तृत्वमग्नेः तंदेवंकृणुध्वम् करोतिरत्रक्रियासामान्यवाचीक्रियाविशेषेस्तोत्रेपर्यवस्यति प्र- कर्षेणस्तुध्वमित्यर्थः किञ्च रास्पिनस्य रपतेरसतेर्वाशब्दनार्थस्यघञन्तस्य कृतसकारपकारोपजन- स्यरास्पइतिभवति तदस्यास्तीतिरास्पिस्तोत्रं तद्वान् रास्पिनः स्तोता तस्य आयोः तादृशस्यमनुष्य- स्यमम मह्यंमातरामातृवद्धितकारिण्यावहोरात्रदेवतेअपिप्रकृणुध्वं अथवा रास्पिनस्य एकोमत्वर्थे- प्रत्ययश्छान्दसः प्रवर्षणध्वनियुक्तस्यवृष्ट्युदकस्यगमनशीलस्य निर्मात्र्यावहोरात्रेप्रकृणुध्वम् ॥ व्यन्ता पान्ता उभयत्र सुपांसुलुगित्याकारः ॥ ४ ॥

1.122.5 समानपद
आ वो᳚ रुव॒ण्युमौ᳚शि॒जो हु॒वध्यै॒ घोषे᳚व॒ शंस॒मर्जु᳚नस्य॒ नंशे᳚ ।
प्र वः᳚ पू॒ष्णे दा॒वन॒ आ{4} अच्छा᳚ वोचेय व॒सुता᳚तिम॒ग्नेः ॥
▶ पदपाठः (Word-by-word)
आ । वः॒ । रु॒व॒ण्युम् । औ॒शि॒जः । हु॒वध्यै᳚ । घोषा᳚॑इव । शंस᳚म् । अर्जु᳚नस्य । नंशे᳚ ।
प्र । वः॒ । पू॒ष्णे । दा॒वने᳚ । आ । अच्छ᳚ । वो॒चे॒य॒ । व॒सु॑ता᳚तिम् । अ॒ग्नेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवाः औशिजःकक्षीवानहंवोयुष्माकंसंबन्धिनंरुवण्युं रवणीयंशब्दनीयं शंसंस्तोत्रंआहुवध्यै युष्म- दाह्वानाय अच्छावाचेय आभिमुख्येनब्रवीमि यद्वा अत्राप्यश्विनावेवोच्येते तस्मिन्पक्षेबहुवचनंपूजा- र्थंहेअश्विनौ वोयुष्मान्घोषेव एतन्नामिकाब्रह्मवादिनीव सायथा अर्जुनस्यश्वेतवर्णस्य स्वशरीरगत- त्वग्रोगस्यनंशेनाशनाय यथाश्विनोःशंसमकार्षीत् तद्वदहमपीत्यर्थः हेदेवाः युष्मत्संबन्धिने दावते आ आभीमुख्येनफलस्यदात्रेपूष्णे पोषकाय एतन्नामकाय देवायापि आकारस्याङोनुनासिकश्छन्दसीति- प्रकृतिभावः अच्छ आभिमुख्यगमनेनवोचेयस्तौमि वचपरिभाषणे लिङ्याशिष्यङ् वचउमित्युम् कि- ञ्च अग्नेर्वसुतातिं तत्संबन्धिधनमपिवोचेय स्तौमि तमेवाग्निम् ॥ ५ ॥

1.122.6
श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मोत श्रु᳚तं॒ सद᳚ने वि॒श्वतः᳚ सीम् ।
श्रोतु᳚ न॒ः श्रोतु᳚रातिः सु॒श्रोतु᳚ः सु॒क्षेत्रा॒ सिन्धु᳚र॒द्भिः ॥
▶ पदपाठः (Word-by-word)
श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा᳚ । इ॒मा । उ॒त । श्रु॒त॒म् । सद᳚ने । वि॒श्वतः᳚ । सी॒म् ।
श्रोतु᳚ । नः॒ । श्रोतु᳚॑रातिः । सु॒॑श्रोतुः᳚ । सु॒॑क्षेत्रा᳚ । सिन्धुः᳚ । अ॒त्॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणा एतन्नामानावहोरात्राभिमानिदेवौ युवांइमाइमानि हवा अस्मदाह्वानानि श्रुतंशृ- णुतं नकेवलंअस्मदाह्वानं उतअपिचसदने यागगृहेविश्वतःउद्गात्रादिभिःसर्वतःक्रियमाणंसींएतत्स्तो- त्रमपिश्रुतं किंच श्रोतुरातिः सर्वत्रश्रूयमाणधनः तादृशदानोवासुश्रोतुरस्मदाह्वानस्य सम्यक् श्रोता- सिन्धुर्जलाभिमानीदेवः सुक्षेत्रा सुक्षेत्राणिअद्भिर्वृष्टिजलैः क्लेदयन्नितिशेषःयद्वा अस्मत्क्षेत्राण्यद्भिः सुक्षेत्राणिसस्यादिसम्रुद्धानिकुर्वन् नोहवंश्रोतुश्रृणोतु सुक्षेत्रत्वलाभायश्रृणोत्वित्यर्थः ॥ हवा इमा उभ- यत्राविभक्त्याआकारः । श्रुतमित्यत्रबहुलंछ्न्दसीतिविकरणस्य लुक् ॥ ६ ॥

1.122.7
स्तु॒षे सा वां᳚ वरुण मित्र रा॒तिर्गवां᳚ श॒ता पृ॒क्षया᳚मेषु प॒ज्रे ।
श्रु॒तर᳚थे प्रि॒यर᳚थे॒ दधा᳚नाः स॒द्यः पु॒ष्टिं नि᳚रुन्धा॒नासो᳚ अग्मन् ॥
▶ पदपाठः (Word-by-word)
स्तु॒षे । सा । वा॒म् । व॒रु॒ण॒ । मि॒त्र॒ । रा॒तिः । गवा᳚म् । श॒ता । पृ॒क्ष॑या᳚मेषु । प॒ज्रे ।
श्रु॒त॑र᳚थे । प्रि॒य॑र᳚थे । दधा᳚नाः । स॒द्यः । पु॒ष्टिम् । नि॒॑रु॒न्धा॒नासः᳚ । अ॒ग्म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्र हेवरुणदेव वांयुवामहंस्तुषेस्तुवे व्यत्ययेनमध्यमःयुवयोः संबन्धिनीसाप्रसिद्धारातिदांनंश- ताशतानां शतसंख्यानामपरिमितानां गवांसंबन्धिनीअसंख्यातगोविषयारातिः पज्रेकक्षीवतिमयि पृक्षयामेषु पृक्षइत्यकारान्तोऽप्यस्ति पृक्षाणामन्नानांनियमनंयेषुस्तोत्रेषुयज्ञेषुवातेषुनिमित्तभूतेषु भवत्वितिशेषः किंच मित्रादयोदेवाः श्रुतरथे सर्वत्रप्रसिद्धरथोपेतेप्रियरथेप्रीयमाणरथयुक्तेसर्वदा रथप्रियेपज्रेमय्येवदधानाः प्रीतिंधारयन्तः सद्यः आगमनानन्तरमेवपुष्टिंगवादिपोषंनिरुन्धानासः अवरन्धानाः अस्मास्वेवस्थापयन्तः यद्वा मयिपुष्टिंदधानाः कुर्वाणाः निरुन्धानासः कृतामेवपुष्टिं- मयिस्थिरांकुर्वन्तः अग्मन् आगच्छन्तु ॥ रातिः रादाने भावेक्तिन् मन्त्रेवृषेत्यादिनाक्तिनउदात्तत्वम् । शता सुपांसुलुगितिषष्ठ्याः पूर्वसवर्णदीर्घत्वम् । दधानाः जुहोत्यादित्वाच्छपः श्लुः अभ्यस्तानामा- दिरित्याद्युदात्तत्वम् । अग्मन् गमेश्छान्दसेलुङि मन्त्रेघसेत्यादिनाच्लेर्लुक् गमहनेत्युपषालोपः ॥ ७ ॥

1.122.8 समानपद
अ॒स्य स्तु᳚षे॒ महि᳚मघस्य॒ राध॒ः सचा᳚ सनेम॒ नहु᳚षः सु॒वीरा᳚ः ।
जनो॒ यः प॒ज्रेभ्यो᳚ वा॒जिनी᳚वा॒नश्वा᳚वतो र॒थिनो॒ मह्यं᳚ सू॒रिः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । स्तु॒षे॒ । महि᳚॑मघस्य । राधः᳚ । सचा᳚ । स॒ने॒म॒ । नहु᳚षः । सु॒॑वीराः᳚ ।
जनः᳚ । यः । प॒ज्रेभ्यः᳚ । वा॒जिनी᳚॑वान् । अश्व᳚॑वतः । र॒थिनः᳚ । मह्य᳚म् । सू॒रिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

महिमघस्य महिमहत्पूज्यंमघोधनंअन्नंवायस्यदेवसंघस्यसतथोक्तः तादृशस्यास्यराधोधनंस्तुषे- स्तुवे व्यत्ययेनमध्यमः धनलाभायप्रभूतधनंदेवसंघंस्तौमीत्यर्थः किंच नहुषः मनुष्यनामैतत् परस्पर- स्नेहबन्धोपेताः मनुष्यावयंकक्षीवन्तः सुवीराः शोभनपुत्राद्युपेताः सन्तः सचासह परस्परैकमत्येन सनेम त्वद्दत्तंधनंसंभजेमलभेमहि देवसंघोविशेष्यते योजनोदेवजनः यश्च देवसंघः पज्रेभ्यः अङ्गिरो- गोत्रोत्पन्नेभ्यः कक्षीवद्भ्यः पज्रावाअङ्गिरसइतिश्रुतेः । तेभ्योवाजिनीवान् वाजोऽन्नंतद्वतीक्रियावा- जिनीतयातद्वान् भवतियद्वैकोमत्वर्थीयप्रत्ययश्छान्दसः अस्मभ्यंप्रदेयेनदत्तेनवान्नेनतद्वान्भवतीत्यर्थः यश्चदेवसंघोश्वावतः बहुभिस्तद्दत्तैरश्वैस्तद्वतोरथिनोरथवतोमह्यंमेसूरिःप्रेरकोभवति अश्वानांरथानां- प्रेरयितारं देवसंघंस्तुषेइत्यर्थः ॥ सुवीराः वीरवीयौंचेत्युत्तरपदाद्युदात्तत्वम् । अश्वावतःअश्वशब्दस्य- मन्त्रेसोमाश्वेत्यादिनामत्तुपिदीर्घत्वम् ॥ ८ ॥

1.122.9
जनो॒ यो मि᳚त्रावरुणावभि॒ध्रुग॒पो न वां᳚ सु॒नोत्य᳚क्ष्णया॒ध्रुक् ।
स्व॒यं स यक्ष्मं॒ हृद᳚ये॒ नि ध᳚त्त॒ आप॒ यदीं॒ होत्रा᳚भिरृ॒तावा᳚ ॥
▶ पदपाठः (Word-by-word)
जनः᳚ । यः । मि॒त्रा॒व॒रु॒णौ॒ । अ॒भि॒॑ध्रुक् । अ॒पः । न । वा॒म् । सु॒नोति᳚ । अ॒क्ष्ण॒या॒॑ध्रुक् ।
स्व॒यम् । सः । यक्ष्म᳚म् । हृद᳚ये । नि । ध॒त्त॒ । आप᳚ । यत् । ई॒म् । होत्रा᳚भिः । ऋ॒त॑वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ युष्माकंयोजनोअभिध्रुक् अभितोद्रोग्धाभवति अयष्टाभवतीत्यर्थः यश्चअक्ष्णयाध्रुक् चक्रेणमार्गेणद्रुह्यति अन्यथाप्रकारेणद्रुह्यति द्रोहप्रकारउच्यते वांयुवांअपः सोमरसान्नसुनोति अभिष- वंनकरोति युवामतिक्रम्यअन्यदेवतार्थंसुनोतीत्यभिप्रायः अयमेवअक्ष्णयाद्रोहः समूढोविधोजनः स्वयंयक्ष्मंव्याधिंहृदयेस्वचित्तेनिधत्तेस्थापयति अनुष्ठातॄणांभोगान्पश्यन्व्यथितोभवतीत्यर्थः यत् लिङ्गव्यत्ययः यउक्तविलक्षणःपुमान् ऋतावा यज्ञवान् परिगृहीतयज्ञः होत्राभिःवाङ्गामैतत् स्तुतिवाग्भिः ईमेनंसोमरसंआपव्याप्नोति स्तुवन्सोममभिषुणोतीति यावत्सनरः पृत्सुयातीतिवक्ष्य- माणेनसहसंबन्धः ॥ अभिध्रुक् द्रुहेः सत्सूद्विषेतिक्विप् संहितायांभष् भावश्छान्दसः । ऋतावेत्यत्र- छन्दसीवनिपावितिमत्वर्थीयोवनिप् अन्येषामपिदृश्यतइतिसंहितायांदीर्घत्वम् ॥ ९ ॥

1.122.10
स व्राध᳚तो॒ नहु᳚षो॒ दंसु᳚जूत॒ः शर्ध᳚स्तरो न॒रां गू॒र्तश्र᳚वाः ।
विसृ᳚ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा᳚सु पृ॒त्सु सद॒मिच्छूरः᳚ ॥
▶ पदपाठः (Word-by-word)
सः । व्राध᳚तः । नहु᳚षः । दं॑सु᳚जूतः । शर्धः᳚॑तरः । न॒राम् । गू॒र्त॑श्र᳚वाः ।
विसृ᳚ष्ट॑रातिः । या॒ति॒ । बा॒ळ्ह॒॑सृत्वा᳚ । विश्वा᳚सु । पृ॒त्॑सु । सद᳚म् । इत् । शूरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ युवांगतमन्त्रावसानोक्तलक्षणोयुष्मत्पूजकोजनोदंसुजूतः दान्तैरश्वैः सुष्ठुप्रेरितः अतएवनरांनराणांशार्धस्तरः अतिशयेनाभिभविता अथवाअतिशयेनबलवान् नराणांस्वसमाना- नांमध्येगूर्तश्रवाः उद्गूर्णदीप्तिः प्रख्यातान्नोवाविसृष्टरातिः अर्थिभ्यः प्रदत्तधनः एवंमहानुभावः शूरः सन् विश्वासुपृत्सुसर्वेषुजन्येषुसंग्रामेषुव्राधतः महन्नामैतत् हिंसकान् महतोऽपिमनुषोम् मनुष्यना- मैतत् मनुष्यान् शत्रून्प्रतिबाह्ळसृत्वाभृशंसर्ता अशंकितगमनःसन् सदमित् सदैवयातिगच्छति ॥ दंसुजूतःदासेर्विच् तृतीयाकर्मणीतिपूर्वपदप्रकृतिस्वरत्वम् । गूर्तश्रवाः गुरीउद्यममेनसत्तनिषत्तेत्यादौ- निपातनान्निष्ठानत्वाभावः । विसृष्टरातिः विपूर्वात्सूजतेः कर्मणिनिष्ठा गतिरनन्तरइतिगतेःप्रकृति- स्वरत्वंबहुव्रीहौपूर्वपद्प्रकृतिस्वरत्वेनसएवशिष्यते । पृत्सु पदादिषुमांस्पृत्स्नूनमुपसंख्यानमिति- पृतनाशब्दस्यपृदादेशः सावेकाचइतिविभक्तेरुदात्तत्वम् । बाह्ळसृत्वा सर्तेरन्येभ्योऽपिदृश्यन्तइति- क्वनिप् ॥ १० ॥

1.122.11
अध॒ ग्मन्ता॒ नहु᳚षो॒ हवं᳚ सू॒रेः श्रोता᳚ राजानो अ॒मृत᳚स्य मन्द्राः ।
न॒भो॒जुवो॒ यन्नि᳚र॒वस्य॒ राध॒ः प्रश᳚स्तये महि॒ना रथ᳚वते ॥
▶ पदपाठः (Word-by-word)
अध᳚ । ग्मन्त᳚ । नहु᳚षः । हव᳚म् । सू॒रेः । श्रोत᳚ । रा॒जा॒नः॒ । अ॒मृत᳚स्य । म॒न्द्राः॒ ।
न॒भः॒॑जुवः᳚ । यत् । नि॒र॒वस्य᳚ । राधः᳚ । प्र॑श᳚स्तये । म॒हि॒ना । रथ᳚॑वते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेराजानोराजमानाः सर्वस्येश्वरावा हेमन्द्राः मादयितारोविश्वेदेवाः यूयंअमृतस्यअमरणस्यसूरः स्तोत्रादिप्रेरकस्यनहुषोमनुष्यस्यममहवमाह्वानंश्रोतश्रृणुत बहुलंछन्दसीतिशपोलुक् अमृतस्येत्यत्र- बहुव्रीहौ नञोजरमरमित्रमृताइत्युत्तरपदाद्युदात्तत्वं अध अथश्रवणानन्तरं ग्मन्त आगच्छत गमेश्छा- न्दसोलट् मध्यमबहुवचनस्यव्यत्ययेनतः बहुलंछन्दसीतिशपोलुक् गमहनेत्युपधालोपःकिमर्थमागमनं उच्यते—नभोजुवोनभसिव्याप्तायूयंयद्यस्मान्निरवस्यनिर्गंतरक्षकस्ययुष्मद्भ्यतिरेकेणरक्षकान्तररहि- तस्य अथवानिर्गतोमुखादुच्चरितोरवःशब्दःस्तोत्ररूपोयस्यतादृशस्यरथवतेरथवतोयजमानस्यषष्ठ्य- र्थेचतुर्थी महिना महिम्नामाहात्म्येन मकारलोपश्छान्दस तेनयुक्तंराधः समृद्धिसाधनंहविर्लक्षणंधनं संराधकंस्तोत्रंवाप्रशस्तयेप्रशंसितुंकामयध्वे तस्मादाह्वानंश्रृणुत आगच्छतचेति ॥ ११ ॥

1.122.12
ए॒तं शर्धं᳚ धाम॒ यस्य᳚ सू॒रेरित्य᳚वोच॒न्दश᳚तयस्य॒ नंशे᳚ ।
द्यु॒म्नानि॒ येषु᳚ व॒सुता᳚ती रा॒रन्विश्वे᳚ सन्वन्तु प्रभृ॒थेषु॒ वाज᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । शर्ध᳚म् । धा॒म॒ । यस्य᳚ । सू॒रेः । इति᳚ । अ॒वो॒च॒न् । दश᳚॑तयस्य । नंशे᳚ ।
द्यु॒म्नानि᳚ । येषु᳚ । व॒सु॑ता᳚तिः । र॒रन् । विश्वे᳚ । स॒न्व॒न्तु॒ । प्र॒॑भृ॒थेषु᳚ । वाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यसूरेः हविरादिप्रेरकस्ययजमानस्य संबन्धिनोदशतयस्य दशेन्द्रियसंवर्धकत्वेन दशावयव- स्यान्नस्यनंशेप्राप्तयेवयमाहूताःस्म तस्मैयजमानायैतमिदानींदातव्यत्वेनवर्तमानं शर्धंपरेषामभिभाव- कमन्नंतत्प्राप्तिहेतुंबलवा धामविदधामकरवाम इत्यवोचन् देवाः धाम दधातेर्लुङि गातिस्थेतिसि- चोलुक् वचरकारस्यौम् अस्यतिवक्तीत्यादिनाच्लेरङ् येषुदेवेषु द्युम्नानि द्योतमानानिअन्नानि वसुता- तिः वसूनांधनानांतातिर्विस्तारश्च वसून्येववा रारन् रमन्तेभृशं तातिः तनोतेः क्तिनिव्यत्ययेनात्वं मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वं यद्वा स्वार्थिकस्तातिल् रारन्नितिरमतेर्यङ्लुगन्तस्य लुङिरूपं तेविश्वेसर्वेदेवाः प्रभृथेषुप्रकृष्टभरणेषु यागेषुवाजमन्नं सन्वन्तुददतुप्रयच्छन्तु षणुदाने यद्वा यस्यसूरेः स्वभूतस्यच दशतयस्य दशचमसेष्ववस्थितस्यसोमस्यप्राप्तयेवयमाहूताःस्म तस्मै एतंशर्धं धामेत्य- वोचन् यस्मादेवंतस्मात् प्रभृथेषु यागेषुवाजं तादृशंसोमलक्षणमन्नंविश्वेदेवाः सन्वन्तु संभजन्तां वन- षणसंभक्तावित्यस्यव्यत्ययेनउप्रत्ययः कीदृशेषु यज्ञेषु येषु वसुतातिः वसूनांहविर्लक्षणानां धनानां- वाविस्तारयितारऋत्विजोवचनव्यत्ययः द्युम्नानिद्योतमानानिहवींषिरारन् ददति रादाने लोटि छा- न्दसः शपः श्लुः छन्दस्युभयथेत्यार्धधातुकत्वादातोलोपइटिचेत्याकारलोपः अतएवाभ्यस्तानामादि- रित्याद्युदात्तत्वाभावश्च ॥ १२ ॥

1.122.13
मन्दा᳚महे॒ दश᳚तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र᳚तो॒ यन्त्यन्ना᳚ ।
किमि॒ष्टाश्व᳚ इ॒ष्टर᳚श्मिरे॒त ई᳚शा॒नास॒स्तरु᳚ष ऋञ्जते॒ नॄन् ॥
▶ पदपाठः (Word-by-word)
मन्दा᳚महे । दश᳚॑तयस्य । धा॒सेः । द्विः । यत् । पञ्च᳚ । बिभ्र᳚तः । यन्ति᳚ । अन्ना᳚ ।
किम् । इ॒ष्ट॑अ᳚श्वः । इ॒ष्ट॑र᳚श्मिः । ए॒ते । ई॒शा॒नासः᳚ । तरु᳚षः । ऋ॒ञ्ज॒ते॒ । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्दामहेस्तुमोवयंदेवान् मदिस्तुतौ इदित्त्वान्नुम् किमर्थं दशतयस्यधासेः दशेन्द्रियतृप्तिसाधनत्वे- नदशावयवस्यान्नस्यपुष्ट्यर्थंयद्यस्मात् द्विःपंच दशविधान्यन्नान्नानिदशचमसगृहीतत्वादन्नस्यदशवि- धत्वं एवंविधमन्नंबिभ्रतोधारयन्तोदशचमसाध्वर्यवोयन्तिहोमायगच्छन्त्याहवनीयंप्रति यद्वाश्वमेधि- कानिदशान्नानिजुहोतीत्याम्नातान्याज्यमध्वादीनिदशविधान्यन्नानिविश्वेभ्योदेवेभ्योहोतुंधारयन्तो- यन्तियदा तदामन्दामहइति नचेष्टाश्वप्रभृतीन् यष्टृन् विहाय कस्मादस्मात्प्रत्यागमिष्यन्तीतिवाच्यम् तरुषः शत्रूणांतारकान् तरतेरौणादिकः उसिः नॄन् नेतॄन्कर्मणां एवंमहानुभावान् वरुणादीनिष्टाश्वः एतन्नामकोराजाकिमृञ्चतेकिंप्रसाधयति तथेष्टरश्मिश्चकिमृञ्चते एतेइदानींवर्तमानाईशानासः पृथि- व्याईश्वरारजानश्चनप्रसाधयन्ति यद्वा येषांस्तोतॄणां अस्माकमेतेस्तुतादेवाः ईशानासः स्वामिनःकिल तादृशान् तरुषः शत्रूणां तारकान् नॄन् कर्मनिर्वाहकान् अस्मानिष्टाश्वादयःकिंसाधयन्ति किमुपद्रव- न्ति नप्रभवन्तीत्यर्थः ॥ १३ ॥

1.122.14
हिर᳚ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः ।
अ॒र्यो गिरः᳚ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा᳚कन्तू॒भये᳚ष्व॒स्मे ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑कर्णम् । म॒णि॒॑ग्री॒व॒म् । अर्णः᳚ । तम् । नः॒ । विश्वे᳚ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ।
अ॒र्यः । गिरः᳚ । स॒द्यः । आ । ज॒ग्मुषीः᳚ । आ । उ॒स्राः । चा॒क॒न्तु॒ । उ॒भये᳚षु । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्यकर्णं हिरण्यविकारकुण्डलाद्युपेतकर्णं मणिग्रीवंरत्नाद्युपेतकंठं एतदृवयंसर्वावयवस्याप्यु- पलक्षणमेवंसर्वांगाभरणयुक्तं तत्प्रसिद्धंअर्णः अरणीयंरूपं तद्वन्तंपुत्रादिकमित्यर्थः उक्तलक्षणंअस्म- दीयंरूपंवानोऽस्माकं विश्वेसर्वेदेवावरिवस्यन्तु परिचरन्तु प्रयच्छन्त्वित्यर्थः अर्यः अरणीयः विश्वे- षांदेवानां सद्योजग्मुषीस्तोतुर्मुखान्निर्गच्छन्तीर्गिरःस्तुतीः उस्राः विकारेप्रकृतिशब्दः क्षीराज्यादीनि हवींषिच सद्यः अस्मदागमनानन्तरमेवचाकन्तुकामयन्तां छान्दसः शपः श्लुः परस्मैपदंच । यद्वा यङ्लुकिनुगभावः आचकन्त्वितिवायोज्यं पर्याप्तं कामयन्तामित्यर्थः केष्वितितदुच्यते—अस्मेअस्मा- कंसंबन्धिषूभयेषुस्तोतृषुयष्टृषुच यद्वा अस्माकंउभयेषुऎहिकामुष्मिकविषयेषूभयविधेषुफलेषु ॥ १४ ॥

1.122.15 समानपद
च॒त्वारो᳚ मा मश॒र्शार᳚स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय᳚वसस्य जि॒ष्णोः ।
रथो᳚ वां मित्रावरुणा दी॒र्घाप्सा॒ः स्यूम᳚गभस्ति॒ः सूरो॒ नाद्यौ᳚त् ॥
▶ पदपाठः (Word-by-word)
च॒त्वारः᳚ । मा॒ । म॒श॒र्शार᳚स्य । शिश्वः᳚ । त्रयः᳚ । राज्ञः᳚ । आय᳚वसस्य । जि॒ष्णोः ।
रथः᳚ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दी॒र्घ॑अ᳚प्साः । स्यूम᳚॑गभस्तिः । सूरः᳚ । न । अ॒द्यौ॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मामांकक्षीवन्तं मशर्शारस्यमशकीकृत्यभृशंश्रृणातिशारयतिवामित्रानितिमशर्शारःएतन्नामकस्य- राज्ञः शिश्वः शिशवः शिशुवदप्रबुद्धाः चत्वारः पुत्राः बाधन्तइतिशेषः शिशुशब्दस्य जसादिषुछन्द- सिवावचनमितिगूणाभावःतथा आयवसस्यसर्वतः प्राप्तान्नस्यएतन्नाम्नोराज्ञोजिष्णोर्जयशीलस्यपुत्रा- स्त्रयस्तेऽपिबाधन्तइतिशेषः हेमित्रावरुणाएतन्नामानौदेवौ वांयुवयोः संबन्धी रथोदीर्घाप्साः अप्स- इतिरूपनाम अतिविस्तृतरूपः स्यूमगभस्तिः स्यूममितिसुखनाम सुखकरदीप्तिः सन् सूरोन सूर्यइव अद्यौत् द्योततांयुक्तानामस्मद्विरोधिनांपुरतः स्फुरन्भयजनकोभवत्वित्यर्थः द्युतेश्छन्दसिलुङ्लङ् लि- टइतिलुङ् द्युद्भ्योलुङीतिपरस्मैपदम् सिचिवृद्धिः परस्मैपदेष्विति वृद्धिः बहुलंछन्दसीतीडभावः हल्ङ्यादिसंयोगान्तलोपौ यद्वा द्युअभिगमने आदादिकः छान्दसेलङि उतोवृद्धिर्लुकिहलीतिवृद्धिः ॥ १५ ॥

कदित्थेत्यस्मिन्नष्टादशानुवाकेषट्सूक्तानि तत्रपृथूरथइतितृतीयंसूक्तंत्रयोदशर्चं अत्रानुक्रमणिका- पृथुःसप्तोनोषस्यंत्विति दीर्घतमसःपुत्रःकक्षीवानृषिः ऋषिश्चान्यस्मादृषेरितिपरिभाषितत्वात् अना- देशपरिभाषयात्रिष्टुप् छन्दः तुशब्दप्रयोगादिदमादिकेसूक्तेउषोदेवताके प्रातरनुवाकेउषस्येक्रतावस्य- चोत्तरस्यचविनियोगः अथोषस्यइतिसूत्रितम् पृथूरथइतिसूक्तेप्रत्यर्चिरित्यष्टाविति तथाश्विनशस्त्रे- इदमादिसूक्तद्वयस्यविनियोगः प्रातरनुवाकन्यायेनेत्यतिदिष्टत्वात् ।