किमि॒ष्टाश्व᳚ इ॒ष्टर᳚श्मिरे॒त ई᳚शा॒नास॒स्तरु᳚ष ऋञ्जते॒ नॄन् ॥
पदपाठः (Word-by-word)
किम् । इ॒ष्ट॑अ᳚श्वः । इ॒ष्ट॑र᳚श्मिः । ए॒ते । ई॒शा॒नासः᳚ । तरु᳚षः । ऋ॒ञ्ज॒ते॒ । नॄन् ॥
सायणभाष्यम् (Sayana Commentary)
मन्दामहेस्तुमोवयंदेवान् मदिस्तुतौ इदित्त्वान्नुम् किमर्थं दशतयस्यधासेः दशेन्द्रियतृप्तिसाधनत्वे- नदशावयवस्यान्नस्यपुष्ट्यर्थंयद्यस्मात् द्विःपंच दशविधान्यन्नान्नानिदशचमसगृहीतत्वादन्नस्यदशवि- धत्वं एवंविधमन्नंबिभ्रतोधारयन्तोदशचमसाध्वर्यवोयन्तिहोमायगच्छन्त्याहवनीयंप्रति यद्वाश्वमेधि- कानिदशान्नानिजुहोतीत्याम्नातान्याज्यमध्वादीनिदशविधान्यन्नानिविश्वेभ्योदेवेभ्योहोतुंधारयन्तो- यन्तियदा तदामन्दामहइति नचेष्टाश्वप्रभृतीन् यष्टृन् विहाय कस्मादस्मात्प्रत्यागमिष्यन्तीतिवाच्यम् तरुषः शत्रूणांतारकान् तरतेरौणादिकः उसिः नॄन् नेतॄन्कर्मणां एवंमहानुभावान् वरुणादीनिष्टाश्वः एतन्नामकोराजाकिमृञ्चतेकिंप्रसाधयति तथेष्टरश्मिश्चकिमृञ्चते एतेइदानींवर्तमानाईशानासः पृथि- व्याईश्वरारजानश्चनप्रसाधयन्ति यद्वा येषांस्तोतॄणां अस्माकमेतेस्तुतादेवाः ईशानासः स्वामिनःकिल तादृशान् तरुषः शत्रूणां तारकान् नॄन् कर्मनिर्वाहकान् अस्मानिष्टाश्वादयःकिंसाधयन्ति किमुपद्रव- न्ति नप्रभवन्तीत्यर्थः ॥ १३ ॥