श्रवणम्

1.122.8 समानपद
अ॒स्य स्तु᳚षे॒ महि᳚मघस्य॒ राध॒ः सचा᳚ सनेम॒ नहु᳚षः सु॒वीरा᳚ः ।
जनो॒ यः प॒ज्रेभ्यो᳚ वा॒जिनी᳚वा॒नश्वा᳚वतो र॒थिनो॒ मह्यं᳚ सू॒रिः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । स्तु॒षे॒ । महि᳚॑मघस्य । राधः᳚ । सचा᳚ । स॒ने॒म॒ । नहु᳚षः । सु॒॑वीराः᳚ ।
जनः᳚ । यः । प॒ज्रेभ्यः᳚ । वा॒जिनी᳚॑वान् । अश्व᳚॑वतः । र॒थिनः᳚ । मह्य᳚म् । सू॒रिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

महिमघस्य महिमहत्पूज्यंमघोधनंअन्नंवायस्यदेवसंघस्यसतथोक्तः तादृशस्यास्यराधोधनंस्तुषे- स्तुवे व्यत्ययेनमध्यमः धनलाभायप्रभूतधनंदेवसंघंस्तौमीत्यर्थः किंच नहुषः मनुष्यनामैतत् परस्पर- स्नेहबन्धोपेताः मनुष्यावयंकक्षीवन्तः सुवीराः शोभनपुत्राद्युपेताः सन्तः सचासह परस्परैकमत्येन सनेम त्वद्दत्तंधनंसंभजेमलभेमहि देवसंघोविशेष्यते योजनोदेवजनः यश्च देवसंघः पज्रेभ्यः अङ्गिरो- गोत्रोत्पन्नेभ्यः कक्षीवद्भ्यः पज्रावाअङ्गिरसइतिश्रुतेः । तेभ्योवाजिनीवान् वाजोऽन्नंतद्वतीक्रियावा- जिनीतयातद्वान् भवतियद्वैकोमत्वर्थीयप्रत्ययश्छान्दसः अस्मभ्यंप्रदेयेनदत्तेनवान्नेनतद्वान्भवतीत्यर्थः यश्चदेवसंघोश्वावतः बहुभिस्तद्दत्तैरश्वैस्तद्वतोरथिनोरथवतोमह्यंमेसूरिःप्रेरकोभवति अश्वानांरथानां- प्रेरयितारं देवसंघंस्तुषेइत्यर्थः ॥ सुवीराः वीरवीयौंचेत्युत्तरपदाद्युदात्तत्वम् । अश्वावतःअश्वशब्दस्य- मन्त्रेसोमाश्वेत्यादिनामत्तुपिदीर्घत्वम् ॥ ८ ॥