श्रवणम्

1.122.2
पत्नी᳚व पू॒र्वहू᳚तिं वावृ॒धध्या᳚ उ॒षासा॒नक्ता᳚ पुरु॒धा विदा᳚ने ।
स्त॒रीर्नात्कं॒ व्यु᳚तं॒ वसा᳚ना॒ सूर्य᳚स्य श्रि॒या सु॒दृशी॒ हिर᳚ण्यैः ॥
▶ पदपाठः (Word-by-word)
पत्नी᳚॑इव । पू॒र्व॑हू᳚तिम् । व॒वृ॒धध्यै᳚ । उ॒षसा॒नक्ता᳚ । पु॒रु॒धा । विदा᳚ने॒ इति᳚ ।
स्त॒रीः । न । अत्क᳚म् । वि॑उ᳚तम् । वसा᳚ना । सूर्य᳚स्य । श्रि॒या । सु॒॑दृशी᳚ । हिर᳚ण्यैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पत्नीव पत्नीयथापूर्वहूतिंपत्युः पूर्वाह्वानंववृधध्यै वर्धयितुंशीघ्रगतिर्भवतितद्वत् उषासानक्ता अहोरात्रदेवतेअपि पुरुधा बहुप्रकारंबहुविधैः स्तोत्रैःविदानेज्ञायमाने सत्यौ पूर्वहूतिं ववृधध्यै अस्म- दीयंपूर्वाह्वानंवर्धयितुंशीघ्रमागच्छ्तमितिशेषः उषासानक्ता उषासोषसइतिपूर्वपदस्योषासादेशः देवताद्वन्द्वेचेत्युभयपदप्रकृतिस्वरत्वम् अथकेवलोषाउच्यते—स्तरीः शत्रूणांहिंसकस्तेजसा च्छन्नो- वाआदित्यः सइवहिरण्यैर्हिरण्यवर्णैरश्मिभिः व्युतंविततंविशेषेणसंबद्धं अत्कंअक्तं सन्ततंवारूपंवसा- नाआच्छादयन्तीधारयन्ती सूर्यस्यश्रियाशोभयासुदृशी शोभनंदृश्यमाना सूर्यस्यपुरोगामिनीरश्मि- भिःखल्वेषाजगद्भासयति तादृश्युषा अस्मत्पूर्वहूतिंपालयत्वित्यर्थः यद्वा हिरण्यैर्हितरमणीयैः प्रका- शैर्धनविशेषैर्वासहागच्छतु ॥ व्युतं व्येञोनिष्ठायां वचिस्वपीत्यादिनासंप्रसारणम् । स्तरीः अवितृ- स्तॄइतीकारप्रत्ययः ॥ २ ॥