प्रथमं मण्डलम् - सूक्तम् 164

52 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 1.164 - सम्पूर्णम्

1 / 52
ऋक्: 1.164.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (52)
1.164.1
अ॒स्य वा॒मस्य᳚ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता᳚ मध्य॒मो अ॒स्त्यश्न᳚ः ।
तृ॒तीयो॒ भ्राता᳚ घृ॒तपृ᳚ष्ठो अ॒स्यात्रा᳚पश्यं वि॒श्पतिं᳚ स॒प्तपु᳚त्रम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । वा॒मस्य᳚ । प॒लि॒तस्य᳚ । होतुः᳚ । तस्य᳚ । भ्राता᳚ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः᳚ ।
तृ॒तीयः᳚ । भ्राता᳚ । घृ॒त॑पृ᳚ष्ठः । अ॒स्य॒ । अत्र᳚ । अ॒प॒श्य॒म् । वि॒श्पति᳚म् । स॒प्त॑पु᳚त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रद्वितीयपादेतच्छब्दश्रुतेः प्रथमपादेप्रतिविशेषणंयोग्यक्रियार्थसंबद्धोयच्छब्दोऽध्याहार्यः यो- यंदिविद्योतते तस्यास्यवामस्य वननीयस्यसंभजनीयस्य आरोग्यार्थिभिःसर्वैः सेवनीयस्य पलितस्य- पालयितुः प्रकाशबृष्ट्यादिप्रदानेन पालकस्य तथायोयंदिविद्योतते तस्यास्यहोतुः ह्वातव्यस्य आ- ह्वानार्हस्यादित्यस्यमध्यमोमध्यमस्थानोमध्येभवोवायुरुच्यते आदित्याग्नीअपेक्ष्यास्यमध्यमत्वं स- चाश्नः सर्वत्रव्याप्तः नहिवायुरहितः कश्चित्प्रदेशोऽस्ति तादृशोभ्रातास्ति भ्रातृस्थानीयोभवति यथा- लोकेभ्रातापितृधनस्यभागंहरति तद्वन्मध्यस्थानमन्तरिक्षलोकंहरतीतिवा वृष्ट्यर्थंरश्मिभिराहृता- नांभौमानांहरणाद्वाभ्रातेत्युच्यते पित्र्येणधनेनस्वार्जितेनवाभर्तव्योभवतीतिभ्राता मध्यमोवायुर- पिवृष्ट्यर्थंरसिर्भक्तव्योभवति किञ्च घृतपृष्ठः घृतमाहुतिलक्षणंपृष्ठेयस्यतादृशोभ्रातातस्यतृतीयोस्ति- भवति त्रयाणांपुरणस्तृतीयः उक्तोभयापेक्षयातृतीयत्वं भ्रातृत्वंप्रतिपादितप्रकारेणात्रापिद्रष्टव्यं रात्रौसवितुस्तेजोभागस्यहरणाद्दिवास्वकीयतेजसोभागस्यतदर्थमेवभक्तव्यत्वाद्वाभ्रातृत्वं अत्रएषु- भ्रातृषुमध्येपुरोदेशेवाविश्पतिं विशांप्रजानांपालयितारं सप्तपुत्रं सर्पणरश्मिपुत्रोपेतं ऎतिहासिकपक्षे अदितिः पुत्रकामेतिप्रस्तुते मित्रवरुणादिष्वदितिपुत्रेष्वस्यादित्यस्यसप्तमपुत्रत्वं ईदृशंमहानुभावमा- दित्यमपश्यं अद्राक्षं भावनयात्मत्वेनसाक्षात्करोमीत्यर्थः तद्योहंसोसौयोसौसोहमितिश्रुतिः । एवं- वाअस्यवामस्य विश्वस्योद्गरितुः स्रष्टुरित्यर्थः पलितस्यपालयितुः स्वसृष्टजगत्पालनशीलस्य होतुरा- दातुः स्वस्मिन्संहर्तुरित्यर्थः परमेश्वरस्यसृष्ट्यादिकर्तृत्वं श्रुतिस्मृतिपुराणादिषुप्रसिद्धं तस्यतादृश- स्यपरमेश्वरस्यभ्रातातद्भागहारीतदंशभूतसूत्रात्मा मध्यमः सर्वत्रमध्येवर्तमानोऽस्तिजगद्धारकत्वेन- वर्तते सचाश्नः व्यापनशीलः वायुनावैगोतमसूत्रेणायंचलोकः परश्चलोकः सर्वाणिचभूतानिसंरब्धा- नीतिश्रुतेः । वक्ष्यमाणविराडपेक्षयावामध्यमत्वं किंच अस्यपरमेश्वरस्य तृतीयः घृतपृष्ठः घृतामित्यु- दकनाम तेनतत्कार्यंशरीरमुच्यते तदेवपृष्ठं स्पर्शनीयंसर्वस्यस्पर्शकंवायस्यसतादृशः पृष्ठंस्पृशतेरिति- निरुक्तम् । यद्वा प्रदीप्तपृष्ठः पृष्ठशब्दःक्रुत्स्नशरीरोपलक्षकः प्रकाशितशरीराभिमानीत्यर्थः नत्वयंसू- क्ष्मशरीराभिमानिसूत्रात्मवत्स्पर्शनाविषयोभवति अत्रएषुमध्येविश्पतिं विशां प्रजानांपतिंउपलक्ष- णमेतत् सर्वस्यपतिमित्यर्थः सर्वस्यपतिः सर्वस्येशानइतिश्रुतेः सप्तपुत्रं सप्तलोकाः पुत्रायस्यतादृशं स्वमाययासृष्टसर्वलोकमित्यर्थः अपश्यं पश्येयं साक्षात्करोमीत्यर्थः । अयमर्थः—स्वाधीनमायोजग- त्कारणभूतः परमेश्वरएकः ततउत्पन्नौ स्थूलसूक्ष्मशरीराभिमानिनौद्वौविराट् सूत्रात्मानौ तेषुमध्ये द्वयोः साक्षात्कारेणमोक्षाभावात् सृष्ट्यादिकारणंपरमेश्वरंज्ञेयत्वेनप्रसिद्धम् श्रवणमननादिसाधनेन- साक्षात्करोमीत्यर्थः एवमुत्तरत्राप्यध्यात्मप्रतयायोजयितुंशक्यं तथापिस्वरसत्वाभावाद्गंथविस्तर- भयाच्चनलिख्यते यत्रद्वासुपर्णेत्यादौ स्फुटमाध्यात्मिकोऽप्यर्थःप्रतीयते तत्रतत्रप्रतिपादयामः अयं- मन्त्रोयास्केनव्याख्यातः—अस्यदामस्यवननीयस्यपलितस्यपालयितुरित्यादिना तच्चव्याख्यानमत्रा- नुसन्धेयम् ॥ १ ॥

1.164.2
स॒प्त यु᳚ञ्जन्ति॒ रथ॒मेक᳚चक्र॒मेको॒ अश्वो᳚ वहति स॒प्तना᳚मा ।
त्रि॒नाभि᳚ च॒क्रम॒जर᳚मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि᳚ त॒स्थुः ॥
▶ पदपाठः (Word-by-word)
स॒प्त । यु॒ञ्ज॒न्ति॒ । रथ᳚म् । एक᳚॑चक्रम् । एकः᳚ । अश्वः᳚ । व॒ह॒ति॒ । स॒प्त॑ना᳚मा ।
त्रि॒॑नाभि᳚ । च॒क्रम् । अ॒जर᳚म् । अ॒न॒र्वम् । यत्र᳚ । इ॒मा । विश्वा᳚ । भुव᳚ना । अधि᳚ । त॒स्थुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकचक्रंएकरथाङ्गोपेतं यद्यपित्रीणिचक्राणितथापि तेषामेकरूपत्वात् एकचक्रमित्युच्यते रथं- रंहणस्वभावं सूर्यस्यसंबन्धिनं सप्त एतत्संख्याकाअश्वायुंजन्ति अनुबध्नन्ति वहन्त्यहोरात्रनिर्वाहाय किंवस्तुतः सप्त नेत्याह—एकोऽश्वः सप्तनामा एकएवसप्ताभिधानः सप्तधानमनप्रकारोवा एकएववा- युः सप्तरूपाणि धृत्वावहतीत्यर्थः वाय्व् धीनत्वादन्तरिक्षसंचारस्य एकचक्र मित्युक्तम् कीदृशंतदि- त्यतआह—त्रिनाभिवलयत्रयमध्यस्थितनाभिस्थानीयच्छिद्रत्रयोपेतं अजरंअमरणधर्मकं अनर्वंअशि- थिलं पुनस्तदेवविशेष्यते यत्रयस्मिन् चक्रे इमाविश्वाभुवना इमानिप्रसिद्धानिसर्वाणिभूतजातानि अधि आश्रित्य तस्थुः तिष्ठन्ति यद्वा एकचक्रं एकचारिणं असाहाय्येनसंचरन्तंरथं आदित्यमण्डलं सप्तयुञ्चन्ति सर्पणस्वभावाःसप्तसंख्यावा रश्मयः सप्तप्रकारकार्याः असाधारणाः परस्परविलक्षणाः षळृतवः एकः साधारणइत्येवं अथवा मासद्वयात्मकाः षट् अपरोधिकमासात्मकइत्येवं सप्तर्तवोयुञ्च- न्ति एतस्यकार्यंनिर्वहन्तीत्यर्थः सचैकः असहायः अश्वोव्यापनशीलआदित्यः सप्तनामा सप्तरसानां संनमयितारोरश्मयोयस्यतादृशः सप्तऋषिभिः स्तूयमानोवा आदित्योवहति धारयति भ्रमयतीत्यर्थः किंत्रिनाभिचक्रं तिस्रोनाभयः नाभिस्थानीयाः संबद्धावात्रयऋतवोयस्यतत्तादृशं केते ग्रीष्मवर्षा- हेमन्ताख्याः यद्वा भूतभविष्यवर्तमानाख्यास्त्रयः कालास्त्रिनाभयः तद्विशिष्टंचक्रं चक्रवत्पुनःपुनः परिभ्रममाणं संवत्सराख्यं चक्रंनानाकालावयवोपेतं अयमादित्यः पुनःपुनरावर्तयति संवत्सरादर्वा- चीनानां तत्रैवान्तर्भावात् ततोयुगादीनांतदावृत्तिसाध्यत्वात्संवत्सरस्यचक्रत्वेननिरूपणं पुनःकीदृशं तत् यत्रयस्मिन् चक्रे इमाविश्वाभुवना इमानिसर्वाणिभूतान्यधितस्थुः आश्रित्यतिष्ठन्ति कालाधीन- त्वात् सर्वस्यस्थितेः ईदृशस्यकालस्यकारणभूतपरमेश्वरज्ञानेनमोक्षसद्भावात् ज्ञानमोक्षाक्षरप्रशंसा- चेत्यनुक्रमण्यामुक्तं अयमपिमन्त्रोयास्केन—सप्तयुञ्चन्तिरथमेकचक्रमेकचारिणमित्यादिनाव्याख्यातः तदत्राप्यनुसन्धेयम् ॥ २ ॥

1.164.3 समानपद
इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच᳚क्रं स॒प्त व᳚ह॒न्त्यश्वा᳚ः ।
स॒प्त स्वसा᳚रो अ॒भि सं न᳚वन्ते॒ यत्र॒ गवां॒ निहि᳚ता स॒प्त नाम᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । रथ᳚म् । अधि᳚ । ये । स॒प्त । त॒स्थुः । स॒प्त॑च᳚क्रम् । स॒प्त । व॒ह॒न्ति॒ । अश्वाः᳚ ।
स॒प्त । स्वसा᳚रः । अ॒भि । सम् । न॒व॒न्ते॒ । यत्र᳚ । गवा᳚म् । नि॑हि᳚ता । स॒प्त । नाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इममुक्तस्वरूपमादित्यं मण्डलाख्यंसंवत्सराख्यंवा रथंयेसप्तरश्मयोऽधितस्थुरधिष्ठिताः संवत्स- रपक्षे अयनऋतुमासपक्षदिवसरात्रिमुहूर्ताख्याः सप्तावयवाअधितिष्ठन्ति कीदृशंरथं सप्तचक्रं चक- नाच्चरणात् क्रमणाद्वाचक्राणिरश्मयः तेसप्तयस्यरथस्य तादृशमुभयविधंरथ पूर्वोक्ताअधिष्ठिताः अश्वाव्यापनशीलाः सप्तवहन्ति निर्वहन्तिचतादृशंरथंसप्तस्वसारः स्वयंसरणाः स्वरादित्यस्तेनसा- रिताः परस्परंस्वसृभूतावा सप्तसंख्याकारश्मयऋतवश्च अभिसंनवन्ते आभिमुख्येनसंगच्छन्ते असा- धारणाः परस्परविलक्षणकार्याः षळृतवः सर्वसाधारणएकइति सप्तत्वम् यद्वा उक्तरूपामासद्वयात्म- काः षट् त्रयोदशमासात्मकः सप्तमइतिसप्तत्वं कीदृशोरथइतितदुच्यतेयत्रयस्मिन्रथे उभयविधेग- वांवाचां स्तुतिरूपाणां सप्त सप्तविधानिनाम नमनानि सप्तस्वररूपाणिनिहिता निहितानि सप्तस्व- रोपेतैः सामभिः स्तुत्यंरथमित्यर्थः यद्वा गवांउदकानां सप्त सर्पणस्वभावानि नाम नमनानि यत्र यासुस्वसृषुनिहितानि ताः स्वसारः परस्परस्वसृभूतादेवनद्यः अभिसंनवन्ते ॥ ३ ॥

1.164.4
को द᳚दर्श प्रथ॒मं जाय᳚मानमस्थ॒न्वन्तं॒ यद᳚न॒स्था बिभ᳚र्ति ।
भूम्या॒ असु॒रसृ᳚गा॒त्मा क्व᳚ स्वि॒त्को वि॒द्वांस॒मुप᳚ गा॒त्प्रष्टु᳚मे॒तत् ॥
▶ पदपाठः (Word-by-word)
कः । द॒द॒र्श॒ । प्र॒थ॒मम् । जाय᳚मानम् । अ॒स्थ॒न्॑वन्त᳚म् । यत् । अ॒न॒स्था । बिभ᳚र्ति ।
भूम्याः᳚ । असुः᳚ । असृ᳚क् । आ॒त्मा । क्व᳚ । स्वि॒त् । कः । वि॒द्वांस᳚म् । उप᳚ । गा॒त् । प्रष्टु᳚म् । ए॒तत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवंप्रपञ्चस्यकालायत्ततांप्रतिपाद्य तस्यकारणभूतस्यपरमेश्वरस्यविषयत्वमाह—कोददर्श कोद्र- ष्टुंशक्रुयात् कदा प्रथमंसृष्टेःपूर्वं अव्याकृतावस्थायामित्यर्थः किंजायमानं प्रथमभावविकारमापन्न उत्पद्यमानंप्रपञ्चमित्यर्थः दुर्ज्ञेयत्वेहेतुमाह—यद्यस्मात् अस्थन्वन्तंअस्थिमन्तंशरीरं उपलक्षणमेतत् कार्यभावमापन्नमित्यर्थः अनस्था अस्थिरहिता अशरीरा सांख्यप्रसिद्धाप्रकृतिः वेदान्तप्रसिद्धा ईश्व- रायत्तामायाबिभर्ति गर्भवदन्तर्धारयति अव्याकृतावस्थायां अनस्थोऽशरीरः परमेश्वरोबिभर्ति यदा- केवलःपरमेश्वरोमायाशबलितःसन् इदंजगन्निर्मितवान् उत्पत्तिसमयेदेहादिसहितस्यकस्यचिदभावा- त् कोददर्श तदानींमनोनित्यं आत्माचनित्यः तत्संयोगात्कश्चिदात्माजानातीतिचेत् सोपिनसंभवती- त्यतआह—भूम्याःसंबन्धिपार्थिवंस्थूलशरीरं असुःप्राणः तदुपलक्षितंसूक्ष्मशरीरं असृक् शोणितंसप्त- धातूपलक्षकं यद्यपि शरीरं पञ्चभूतात्मकं तथापिभूतद्वयप्रत्यक्षत्वात्तदपेक्षयोक्तम् आत्मा तैःसंबद्धः चेतनः क्वस्वित्कुत्रास्ते नकश्चिदस्तीत्यर्थः नन्यत्किंचनमिषदितिश्रुतेः । विद्वांसंजगत्कारणविषयज्ञा- नवन्तं अन्यं गुर्वादिकंएतत्कारणंप्रष्टुं कः शिष्यः अल्पमतिरुपगात् उपगच्छति तादृशोदेहेन्द्रियसंघा- तरूपआत्मातस्मिन्स्मयेकुत्रास्ति प्रष्टाप्रतिवक्ताचोभावपिनस्तइत्यर्थः नतुतद्द्वितीयमस्ति ततोऽन्यद्वि- भक्तंयत्पश्येदितिश्रुतेः । यद्वा प्रथमं प्रथमभाविनं जगतःकारणभूतं कोददर्श कःसाक्षात्करोति जाय- मानमस्थन्वन्तंमानुषं अनस्थिकः परमेश्वरः शरीरं अशरीरः यद्यस्माद्विभर्ति द्रष्टुरपितत्कार्यत्वादि- तिभावः शिष्टंसमानम् ॥ ४ ॥

1.164.5
पाकः᳚ पृच्छामि॒ मन॒सावि᳚जानन्दे॒वाना᳚मे॒ना निहि᳚ता प॒दानि᳚ ।
व॒त्से ब॒ष्कये॑धि᳚ स॒प्त तन्तू॒न्वि त᳚त्निरे क॒वय॒ ओत॒वा उ᳚ ॥
▶ पदपाठः (Word-by-word)
पाकः᳚ । पृ॒च्छा॒मि॒ । मन᳚सा । अवि᳚॑जानन् । दे॒वाना᳚म् । ए॒ना । नि॑हि᳚ता । प॒दानि᳚ ।
व॒त्से । ब॒ष्कये᳚ । अधि᳚ । स॒प्त । तन्तू᳚न् । वि । त॒त्नि॒रे॒ । क॒वयः᳚ । ओत॒वै । ऊं॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पाकः पक्तव्योपक्वमतिरहं मनसा संस्कृतेन अविजानन् अतिगहनंतत्त्वं विशेषेणज्ञातुमशक्रुवन् पृच्छामि प्रश्नंकरोमि अज्ञानेकारणमाह—एना एनानि पदानिसंदेहास्पदानि तत्त्वानि देवानांनिहि- ता निहितानि तानिदेवानामपिगूढानीत्यर्थः यद्वा देवानांपदानि तत्त्वानि निधिवद्गोपयित्वा स्था- पितानि अतः पृच्छामि तत्त्वज्ञानोपयोगायेतिशेषः तानिकानीत्युच्यते—वस्ते सर्वस्यनिवासभूते बष्कये बटितिसत्यनाम तत्कषतीतिबष्कयआदित्यः यद्वा बष्कयोनामैकहायनोवत्सः पुनरपिवत्स- शब्दस्य प्रुथङ्निर्देशात् बष्कयशब्देनतत्कालमात्रंलक्ष्यते तस्मिन्नादित्ये अधिअधिकं सप्तनन्तून् तायमानान्सप्तसोमसंस्थान् कवयोमेधाविनोयजमानाओतवै जगद्रूपतिर्यक्तन्तून् वेतुं वितत्निरे वित- न्वन्ति यद्वा सप्ततन्तवः सप्तच्छन्दांसि तानिवितन्वन्ति किमर्थं ओतवै सप्तसोमसंस्थारूपतिर्यक्तन्तु- सन्तानाय यज्ञनिर्माणायेत्यर्थः यज्ञानांस्थितेःसूर्याधीनत्वादितिभावः ईदृशंतत्त्वंप्रुच्छामीत्यर्थः ॥ ५ ॥

1.164.6
अचि᳚कित्वाञ्चिकि॒तुष᳚श्चि॒दत्र᳚ क॒वीन्पृ᳚च्छामि वि॒द्मने॒ न वि॒द्वान् ।
वि यस्त॒स्तम्भ॒ षळि॒मा रजां᳚स्य॒जस्य᳚ रू॒पे किमपि᳚ स्वि॒देक᳚म् ॥
▶ पदपाठः (Word-by-word)
अचि᳚कित्वान् । चि॒कि॒तुषः᳚ । चि॒त् । अत्र᳚ । क॒वीन् । पृ॒च्छा॒मि॒ । वि॒द्मने᳚ । न । वि॒द्वान् ।
वि । यः । त॒स्तम्भ᳚ । षट् । इ॒मा । रजां᳚सि । अ॒जस्य᳚ । रू॒पे । किम् । अपि᳚ । स्वि॒त् । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अचिकित्वान् देवतातत्त्वमजानन्नहं चिकितुषः विशेषेणतत्त्वंजानतः कवीन् क्रान्तदर्शिनः अधि- तपरमार्थान् अत्र अस्मिंस्तत्त्वविषयेप्रुच्छामि किमर्थं विद्मने वेदनायपरमार्थज्ञानाय किंजानन्नेवप- राभवाद्यर्थं नेत्याह विद्वान्नप्रुच्छामि अपितु अज्ञानादेवयःपरमेश्वरः वितस्तंभ स्तंभितवाननियमित- वान् अथयआत्मासेतुर्विधृतिरेषांलोकानामसंभेदायेतिश्रुतेः । किंइमा इमानि षट् रजांसि लोकान् लोकारजांस्युच्यन्तइतिनिरुक्तम् यद्यपि लोकाःसप्त तथापिसत्यलोकस्यकर्मिणांसर्वेषांसाधारणत्वा- भावात् षडित्युक्तम् ननुषडेवोक्ताः सप्तमः किमितिननिर्दिष्टइति उच्यते—अजस्यजननादिरहितस्य चतुर्मुखस्यब्रह्मणः रूपेस्वरूपेएकंसत्यलोकाख्यंपुनरावृत्तिरहितंस्थानंकिमपिस्वित् किंस्विदेव तन्नके- नाप्यधिगन्तुंशक्यमित्यर्थः कैश्चिदेवोपासकैरर्चिरादिमार्गेणगन्तव्यत्वादितिभावः यद्वा षट् रजांसि- विलक्षणाः षळृतवः तानि यः स्तंभयत्तत्त्वं अजस्यगमनशीलस्यजन्मरहितस्यवादित्यस्यरूपेरूप्यमा- णेदृश्यमाने मण्डले एकमद्वितीयं किमपि स्वित् किंस्वित् यत्किंचिदवाङ्मनसगम्यंतत्त्वमस्ति तत्पृ- च्छामि यएषोऽन्तरादित्येहिरण्मयःपुरुषोदृश्यतइत्यादिश्रुतिप्रतिपादितंतत्त्वमित्यर्थः अथवा षडि- मानिरजांसित्रिविधान् भूलोकांश्च यस्तस्तंभ तिस्रोभूमीर्धारयन् त्रीरुँतद्यौरितिनिगमः । तस्याजस्य- परब्रह्मणः रूपेनानाविकारभाजिजगति किमपिस्विदेकमेकात्मकमस्तीतिप्रश्नः अविशेषमस्तिनाम- मात्रमेकरूपमस्तीत्युत्तरविवक्षयाप्रश्नः अस्तीत्येवोपलब्धव्यमितिश्रुतेः ॥ ६ ॥

1.164.7
इ॒ह ब्र᳚वीतु॒ य ई᳚म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि᳚तं प॒दं वेः ।
शी॒र्ष्णः क्षी॒रं दु᳚ह्रते॒ गावो᳚ अस्य व॒व्रिं वसा᳚ना उद॒कं प॒दापु᳚ः ॥
▶ पदपाठः (Word-by-word)
इ॒ह । ब्र॒वी॒तु॒ । यः । ई॒म् । अ॒ङ्ग । वेद᳚ । अ॒स्य । वा॒मस्य᳚ । नि॑हि᳚तम् । प॒दम् । वेरिति॒ वेः ।
शी॒र्ष्णः । क्षी॒रम् । दु॒ह्र॒ते॒ । गावः᳚ । अ॒स्य॒ । व॒व्रिम् । वसा᳚नाः । उ॒द॒कम् । प॒दा । अ॒पुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहेदानीं ईमेतद्वक्ष्यमाणंतत्त्वं अंगक्षिप्रंअविचारेण ब्रवीतु कः योवेद सः कीदृशंतत् अस्यपुरतोदृ- श्यमानस्य वामस्यवननीयस्य वेर्गन्तुरादित्यस्यपदं सर्वैर्गन्तव्यंस्वरूपंनिहितंगृढंवर्तते किंचास्यादि- त्यस्यशीर्ष्णःशिरोवदुन्नतस्यसर्वेषामुत्कृष्टस्यवागावः केचनवर्षकालीनारश्मयःक्षीरमुदकंदुह्रते क्षर- न्ति वव्रिंरूपनामैतत् रूपंवसानाः आच्छादयन्तः अतिविस्तरेणतेजसातपन्तः केचनास्यगावोरश्मयः उदकंस्वसृष्टंपदासृष्टेनैवमार्गेण अपुः पिबन्ति भूमिंनिरुदकांकुर्वन्तीत्यर्थः तस्यस्वरूपंब्रवीत्वित्यन्वयः ॥ ७ ॥

1.164.8
मा॒ता पि॒तर᳚मृ॒त आ ब᳚भाज धी॒त्यग्रे॒ मन᳚सा॒ सं हि ज॒ग्मे ।
सा बी᳚भ॒त्सुर्गर्भ᳚रसा॒ निवि᳚द्धा॒ नम᳚स्वन्त॒ इदु᳚पवा॒कमी᳚युः ॥
▶ पदपाठः (Word-by-word)
मा॒ता । पि॒तर᳚म् । ऋ॒ते । आ । ब॒भा॒ज॒ । धी॒ती । अग्रे᳚ । मन᳚सा । सम् । हि । ज॒ग्मे ।
सा । बी॒भ॒त्सुः । गर्भ᳚॑रसा । नि॑वि᳚द्धा । नम᳚स्वन्तः । इत् । उ॒प॒॑वा॒कम् । ई॒युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मातासर्वस्यनिर्मात्रीप्रुथिवी पितरंपालकंद्युलोकंतस्थंद्युलोकस्थमादित्यमित्यर्थः तमावभाजआ- भजते किमर्थंऋते उदकेयज्ञेवानिमित्तभूतेसति केनद्वारेण धीती धीत्यकर्मणायागादिरूपेणस्वकीये- नाज्यसोमादिहविषातर्पयतीत्यर्थः अग्रे ततःपूर्वं पिताचमनसाअस्यामभीप्रायवता चेतसासंजग्मेहि संश्लिष्टोवर्ततेखलु वृष्टिमकरोदित्यर्थः अनन्तरंसामाताबीभत्सुः गर्भबन्धनेच्छावती गर्भरसा गर्भरसे- नगर्भोत्पत्तिनिमित्तेनरसेननिविद्धानितरांविद्धासीत् यद्वा गर्भेरसः ओषध्याद्युत्पादनसमर्थंउदकंय- स्याः सा तादृशी उदकेनात्यन्तंक्लिन्ना निविद्धाकृषीवलैर्हलमुखेननितरांविदरिताभवति बीजावा- पार्थं अत्रायंसमाधिर्याकाचनयोषिदपत्यार्थंस्वपतिंयुवानंयौति सचतस्यामनुरागयुक्तःसंगतोभवति साचान्तर्वत्नीसतीपुत्रान् जनयतीति तद्वदत्रापि अनन्तरंनमस्वन्तइत् भाविघ्रीहिप्रियंग्वाद्यन्नवन्त- एव उपवाकंउपेत्यवचनं परस्परंसम्यगभिधृद्धानि सस्यानीतिवचनमीयुः प्राप्नुवन्ति यद्वा हविर्ल- क्षणान्नवन्तउपेत्यवचनं प्रैषादिरूपधीयुः वृष्ठौसत्यांसस्यादिद्वारायागमयुतिष्ठेयुरित्यर्थः ॥ ८ ॥

1.164.9
यु॒क्ता मा॒तासी᳚द्धु॒रि दक्षि᳚णाया॒ अति᳚ष्ठ॒द्गर्भो᳚ वृज॒नीष्व॒न्तः ।
अमी᳚मेद्व॒त्सो अनु॒ गाम᳚पश्यद्विश्वरू॒प्यं᳚ त्रि॒षु योज᳚नेषु ॥
▶ पदपाठः (Word-by-word)
यु॒क्ता । मा॒ता । आ॒सी॒त् । धु॒रि । दक्षि᳚णायाः । अति᳚ष्ठत् । गर्भः᳚ । वृ॒ज॒नीषु᳚ । अ॒न्तरिति᳚ ।
अमी᳚मेत् । व॒त्सः । अनु᳚ । गाम् । अ॒प॒श्य॒त् । वि॒श्व॒॑रू॒प्य᳚म् । त्रि॒षु । योज᳚नेषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

मातनिर्मीयन्तेऽस्मिन्भूतानीतिमाताद्यौः दक्षिणायाः अभिमतपूरणसमर्थायाः प्रुथिव्याः धुरिनि- र्वहणेयुक्तासीत् वर्षणायसमर्थाभूदित्यर्थः कथमितितदुच्यते—गर्भोगर्भस्थानीयउदकसंघोव्रुजनीषु उदकवत्सु मेघपङ्किष्वन्तर्मध्ये अतिष्ठत् तिष्ठति अनन्तरं वत्सः पुत्रस्थानीयः उदकसंघः त्रिषुयोज- नेषु मेघरश्मिवायुषुसंयुक्तेषुसत्सु अमीमेत् वर्षणसमयेशब्दयति अनन्तरं विश्वरूप्यं विश्वरूपवतीं- गामन्वपश्यत् अनुक्रमेणपश्यति वर्षतीत्यर्थः यद्वा त्रिषुयोजनेषुसत्सु वत्सोमेघोवर्षणायगांभूमिंप्र- त्यमीमेत् अनन्तरंसर्वोजनोऽनुक्रमेणविश्वरूप्यंसस्यादिभिर्नानारूपवतींभूमिमपश्यत् पश्यति ॥ ९ ॥

1.164.10
ति॒स्रो मा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक᳚ ऊ॒र्ध्वस्त᳚स्थौ॒ नेमव᳚ ग्लापयन्ति ।
म॒न्त्रय᳚न्ते दि॒वो अ॒मुष्य᳚ पृ॒ष्ठे वि᳚श्व॒विदं॒ वाच॒मवि᳚श्वमिन्वाम् ॥
▶ पदपाठः (Word-by-word)
ति॒स्रः । मा॒तॄः । त्रीन् । पि॒तॄन् । बिभ्र᳚त् । एकः᳚ । ऊ॒र्ध्वः । त॒स्थौ॒ । न । ई॒म् । अव᳚ । ग्ल॒प॒य॒न्ति॒ ।
म॒न्त्रय᳚न्ते । दि॒वः । अ॒मुष्य᳚ । पृ॒ष्ठे । वि॒श्व॒॑विद᳚म् । वाच᳚म् । अवि᳚श्व॑मिन्वाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकः प्रधानभूतः असहायोवापुत्रस्थानीयआदीत्यः संवत्सराख्यः कालोवा तिस्रोमातॄः सस्यवृ- ष्ठ्याद्युत्पदयित्रीः क्षित्यादिलोकत्रयानित्यर्थः तथात्रीन् पितॄन् जगतांपालयितॄन् लोकत्रयाभिमा- निनोऽग्निवायुसूर्याख्यान् बिभ्रत्सन् ऊर्ध्वस्तस्थौ उन्नतः अत्यन्तदीर्घस्तिष्ठति भूतभविष्यदाद्यात्मना सूर्यपक्षेसर्वेभ्यउन्नतः ईमेनं नावग्लापयन्ति ग्लानिंनैवकुर्वन्ति नहिकालआदित्योवान्येनपराभूयते दिवः पृष्ठेद्युलोकस्योपरिअन्तरिक्षेमन्त्रयन्ते गुप्तंपरस्परंभाषन्ते देवाः किंविश्वविदं विश्ववेदनसमर्थां- विश्वैर्वेदनीयांवा अविश्वमिन्वां असर्वव्यापिनींवाचं गर्जितलक्षणां अमुष्य आदित्यसंबन्धिनींमन्त्रय- न्तइत्यर्थः ॥ १० ॥

1.164.11
द्वाद᳚शारं न॒हि तज्जरा᳚य॒ वर्व᳚र्ति च॒क्रं परि॒ द्यामृ॒तस्य᳚ ।
आ पु॒त्रा अ᳚ग्ने मिथु॒नासो॒ अत्र᳚ स॒प्त श॒तानि᳚ विंश॒तिश्च᳚ तस्थुः ॥
▶ पदपाठः (Word-by-word)
द्वाद᳚श॑अरम् । न॒हि । तत् । जरा᳚य । वर्व᳚र्ति । च॒क्रम् । परि᳚ । द्याम् । ऋ॒तस्य᳚ ।
आ । पु॒त्राः । अ॒ग्ने॒ । मि॒थु॒नासः᳚ । अत्र᳚ । स॒प्त । श॒तानि᳚ । विं॒श॒तिः । च॒ । त॒स्थुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्योदकस्य सत्यात्मकस्यवा आदित्यस्यचक्रं पुनः पुनः क्रमणशीलं मण्डलाख्यं रथचक्रंवा व- र्वर्ति पुनःपुनर्वर्तते संचरति कुत्र द्यांपरि द्युलोकस्यांतरिक्षस्यपरितः कीदृशंतत् द्वादशारं द्वादशसं- ख्याकमासात्मकैर्मेषादिराश्यात्मकैर्वा अरैः रथाङ्गावयवैर्युक्तं तच्चक्रं नहिजराय नैवखलुजरायैभव- ति हेअग्ने सर्वदागमनयुक्तादित्य यद्वा अग्नेरेवस्थानत्रये तत्तदात्मनावर्तमानत्वादसावप्यग्निरित्युच्यते अत्रास्मिन्त्वदीयेचक्रे मिथुनासः स्त्रीपुंसरूपेण परस्परंमिथुनीभूताः सप्तशतानिविंशतिश्च विशत्युत्त- रसप्तशतसंख्याकाःपुत्राः पुत्रवदुत्पद्यमानाः प्राणिनांदुः—खान्त्रारोवाअहोरात्ररूपास्तस्थुः तिष्ठन्ति- निष्पद्यन्ते षष्ट्यधिकशतत्रयसंख्याकान्यहानि तावत्यएवरात्रयइत्येवंतद्विभागः । सप्तचवैशतानिविं- शतिश्चसंवत्सरस्याहोरात्राः सएषोहःसमानइत्यारण्यकम् ॥ ११ ॥

1.164.12
पञ्च᳚पादं पि॒तरं॒ द्वाद᳚शाकृतिं दि॒व आ᳚हु॒ः परे॒ अर्धे᳚ पुरी॒षिण᳚म् ।
अथे॒मे अ॒न्य उप᳚रे विचक्ष॒णं स॒प्तच᳚क्रे॒ षळ᳚र आहु॒रर्पि᳚तम् ॥
▶ पदपाठः (Word-by-word)
पञ्च᳚॑पादम् । पि॒तर᳚म् । द्वाद᳚श॑आकृतिम् । दि॒वः । आ॒हुः॒ । परे᳚ । अर्धे᳚ । पु॒री॒षिण᳚म् ।
अथ᳚ । इ॒मे । अ॒न्ये । उप᳚रे । वि॒॑च॒क्ष॒णम् । स॒प्त॑च᳚क्रे । षट्॑अ᳚रे । आ॒हुः॒ । अर्पि᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्चपादं पञ्चसंख्याकऋत्वात्मकपादोपेतं एतत् हेमन्तशिशिरयोरेकत्वाभिप्रायं पितरं सर्वस्यप्री- णयितारं द्वादशाकृतिं द्वादशमासाएवाकृतयोयस्यतादृशंपुरीषिणं वृष्ट्युदकेन तद्वन्तं प्रीणयितारंवा पुरीषमित्युदकनाम उक्तलक्षणं संवत्सरचक्रं दिवोद्युलोकस्यपरेअर्धे तात्स्थ्यात्ताच्छब्द्यं परस्मिन्नर्धे- न्तरिक्षलक्षणेवस्थितआदित्यइत्यर्थः तस्मिन्नर्पितमाहुः एतदुत्तरस्थितमत्राप्यनुषज्ज्यते यद्यत्रार्पितं तत्तदधीनं अतः संवत्सरं परायत्त्माहुरित्यर्थः अथअपिच इमे अन्येकेचनवेदवादिनएवमाहुः किमिति उपरे उपरमन्तेऽस्मिन्नुपरताः प्राणिनोऽत्रेतिवोपरःसंवत्सरः तस्मिन् कीदृशेसप्तचक्रे सप्तादित्यरश्म- यस्तद्द्वारेणचक्रस्थनीयायस्य सतथोक्तः यद्वा अयनर्तुमासपक्षाहोरात्रिमुहूर्तानिसप्त सप्तचक्राणि पुनः पुनःक्रममाणानियस्य तादृशे षळरे षळृतवएवअराः नाभौप्रत्यृताः संबद्धायस्य तथोक्तलक्षणे संव- त्सरे रथे विचक्षणं विविधदर्शनकरमादित्यं अर्पितमाहुः एतदुक्तं भवति—अमुमादित्यं दक्षिणोत्तर- रूपभिन्नगतेस्तीव्रमन्दादिभावस्यच कालाधीनत्वात्तदधीनमाहुः अन्येतुसंवत्सराद्यात्मकस्यकालस्य सूयगमनागमनसाध्यत्वात्तदायत्तत्वमाहुरिति ॥ १२ ॥

1.164.13
पञ्चा᳚रे च॒क्रे प᳚रि॒वर्त᳚माने॒ तस्मि॒न्ना त᳚स्थु॒र्भुव᳚नानि॒ विश्वा᳚ ।
तस्य॒ नाक्ष᳚स्तप्यते॒ भूरि᳚भारः स॒नादे॒व न शी᳚र्यते॒ सना᳚भिः ॥
▶ पदपाठः (Word-by-word)
पञ्च᳚॑अरे । च॒क्रे । प॒रि॒॑वर्त᳚माने । तस्मि᳚न् । आ । त॒स्थुः॒ । भुव᳚नानि । विश्वा᳚ ।
तस्य᳚ । न । अक्षः᳚ । त॒प्य॒ते॒ । भूरि᳚॑भारः । स॒नात् । ए॒व । न । शी॒र्य॒ते॒ । स॑ना᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्चारेपञ्चर्तुरूपैररैः युक्तेचक्रे संवत्सरात्मकेपरिवर्तमाने संवत्सरपरिवत्सरादिरूपेणपुनः पुनरावर्तमानेसति तस्मिन्कालचक्रे विश्वाभुवनानि सर्वाणिभूतजातानि आतस्थुः तिष्ठन्ति वर्तन्तइ- त्यर्थः किञ्च तस्यचक्रस्यमध्येवर्तमानः अक्षोभूरिभारः सकलभुवनवहनेन प्रभूतभारोऽपिनतप्यते न- पीड्यते किञ्च सनादेव सनातनएवसनाभिः समाननाभिक्रः सर्वदैकरूपनाभिरसौनशीर्यते नभिद्यते यथालौकिकरथाक्षः भारेणभग्नोभवति अक्षघातेनचनाभिर्विवृताभवति तद्वदत्रनास्तीत्यर्थः ॥ १३ ॥

1.164.14 समानपद
सने᳚मि च॒क्रम॒जरं॒ वि वा᳚वृत उत्ता॒नायां॒ दश᳚ यु॒क्ता व᳚हन्ति ।
सूर्य᳚स्य॒ चक्षू॒ रज᳚सै॒त्यावृ᳚तं॒ तस्मि॒न्नार्पि᳚ता॒ भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
स॑ने᳚मि । च॒क्रम् । अ॒जर᳚म् । वि । व॒वृ॒ते॒ । उ॒त्ता॒नाया᳚म् । दश᳚ । यु॒क्ताः । व॒ह॒न्ति॒ ।
सूर्य᳚स्य । चक्षुः᳚ । रज᳚सा । ए॒ति॒ । आ॑वृ᳚तम् । तस्मि᳚न् । आर्पि᳚ता । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सनेमि समाननेमि एकप्रकारबहिर्वलयं अक्षीणनेमिचक्रं संवत्सराख्यंअजरं सदातनमपि जरार- हितं विववृते पुनःपुन्र्विशेषेणवर्तते उत्तानायांऊर्ध्वतनायांईषायांउपरिविस्तृतभूम्यांवा दशइन्द्रादयः पञ्चलोकपालाः निषादपञ्चमाश्चत्वारोब्राह्मणादयोवर्णाः मिलित्वादशसंख्याकाः युक्ताः स्वस्वव्या- पारयुक्तावहन्ति निर्वहन्ति कृत्स्नं जगन्निर्वहन्तीत्यर्थः तन्निर्वाहार्थत्वात्कालस्य किञ्च सूर्यस्यादित्य- स्यचक्षुः ख्यातस्वभावंसर्वस्यचक्षुः स्थानीयं वा मण्डलं चक्षुःख्यातेर्वाचष्टेर्वेतिनिरुक्तम् । रजसावृ- ष्ट्युदकेन आवृतं व्याप्तं एतिगच्छति उदकंरजउच्यतेइतियास्कः । तादृशे मण्डले विश्वाभुवनानि स- र्वाणिभूतजातानिअर्पिता अर्पितानि तदधीनत्वात्तेषाम् ॥ १४ ॥

1.164.15
सा॒कं॒जानां᳚ स॒प्तथ᳚माहुरेक॒जं षळिद्य॒मा ऋष᳚यो देव॒जा इति᳚ ।
तेषा᳚मि॒ष्टानि॒ विहि᳚तानि धाम॒शः स्था॒त्रे रे᳚जन्ते॒ विकृ᳚तानि रूप॒शः ॥
▶ पदपाठः (Word-by-word)
सा॒क॒म्॑जाना᳚म् । स॒प्तथ᳚म् । आ॒हुः॒ । ए॒क॒॑जम् । षट् । इत् । य॒माः । ऋष᳚यः । दे॒व॒॑जाः । इति᳚ ।
तेषा᳚म् । इ॒ष्टानि᳚ । वि॑हि᳚तानि । धा॒म॒॑शः । स्था॒त्रे । रे॒ज॒न्ते॒ । वि॑कृ᳚तानि । रू॒प॒॑शः ॥
▶ सायणभाष्यम् (Sayana Commentary)

साकंजानांएकस्मादादित्यात्सहोत्पन्नानांसप्तानामृतूनांमध्ये सप्तथं सप्तममृतुं थट्छन्दसीतिथट् एकजंएकेनोत्पन्नमाहुः कालतत्त्वविदः चैत्रादीनांद्वादशानांमासानांद्वयद्वयमेलनेनवसंताद्याःषडृतवो- भवंति अधिकमासेनैकउत्पद्यतेसप्तमर्तुः नचतदृशोमासएवनास्तीतिमन्तव्यं अस्तित्रयोदशोमासइ- त्याहुरितिश्रुतेः । तदेवोच्यते षळिद्यमाः इच्छब्दएवकारार्थः षडेवऋतवोमासद्वयरूपाः ऋषयोग- न्तारः तेच देवजाः देवादादित्याज्जाताः इत्येवमाहुः सप्तमाधारस्यत्रयोदशस्यमासस्य देवाभावः निःसूर्योधिकमासः मण्डलंतपतेरवेरित्यादिस्मृतेः । तस्मात् षडेवदेवजाः अदेवजएकः तेषामृतूनां- स्वरूपाणि इष्टानि सर्वलोकाभिमतानि धामशः तत्तत्स्थानेविहितानि पृथक्पृथक् स्थापितानि रूप- शः रूपभेदेन विकृतानि वोवोधाकृतियुक्तानि सचरूपभेदस्तैत्तिरीयैराम्नातः—सरसमहवसन्तायप्रा- यच्छद्यवंग्रीष्मायेत्यादि । स्थात्रे अधिष्ठाए तदर्थायरेजन्तेचलन्ति जगद्भ्यवहारायपुनःपुनरावर्तन्त- इत्यर्थः ॥ १५ ॥

1.164.16
स्त्रियः᳚ स॒तीस्ता{4} उ᳚ मे पुं॒स आ᳚हु॒ः पश्य᳚दक्ष॒ण्वान्न वि चे᳚तद॒न्धः ।
क॒विर्यः पु॒त्रः स ई॒मा चि᳚केत॒ यस्ता वि᳚जा॒नात्स पि॒तुष्पि॒तास᳚त् ॥
▶ पदपाठः (Word-by-word)
स्त्रियः᳚ । स॒तीः । तान् । ऊं॒ इति᳚ । मे॒ । पुं॒सः । आ॒हुः॒ । पश्य᳚त् । अ॒क्ष॒ण्॑वान् । न । वि । चे॒त॒त् । अ॒न्धः ।
क॒विः । यः । पु॒त्रः । सः । ई॒म् । आ । चि॒के॒त॒ । यः । ता । वि॒॑जा॒नात् । सः । पि॒तुः । पि॒ता । अ॒स॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मेमदीयाः यादीधितयः स्त्रियःसंस्त्यानवत्योयोषितः सतीः सत्यः योषिद्वदुदकरूपगर्भधारणात् स्त्रीत्वं एषांरश्मीनां आविष्टलिंगत्वात् स्त्रीलिङ्गता तान् उ तान् रश्मीनेव पुंसआहुः प्रभूतवृष्ट्युदक- सेक्तॄन्पुरुषानाहुः प्रतिनिर्देशापेक्षयापुल्लिङ्गता अमुमर्थमत्यन्तनिगूढं अक्षण्वान् ज्ञानदृष्ट्युपेतः क- श्चिन्महान् पश्यत् जानातिअन्धः अतथारूपः स्थूलदृष्टिः नविचेतत् नविचेतयति नजानाति किञ्च यःकविः क्रान्तदर्शीपुत्रः स्त्रीपुरुषरूपाणां रश्मीनांपुत्रस्थानीयः पुरुजगतांत्राता वृष्ट्युदकलक्षणोऽ– स्ति सईंसएवपुत्रः यद्वा ईंएनमर्थं स्त्रीणांसतीनांपश्चात्पुरुषभावं आचिकेत सर्वतोजानाति पित्रोः स्थितिंपुत्रएवजानातिनान्योयः कश्चित् तातानि विजानात्स्त्रीपुरुषपुत्ररूपाणिजानीयात् सपितुः पि- तासत् पितावृष्ट्याजगत्पालकोरश्मिसमूहः तस्यापिपिताआदित्यः सभवति आदित्यएवभवतीत्यर्थः यद्वा लौकिकोक्तिरियं यस्तानिजानाति सएवंभवति स्वयंपितुःपुत्रःसन्नपिस्वपुत्रापेक्षयापिताचभव- ति पुत्रपौत्रादिसहितः चिरकालंजीवीभवतिइत्यधिदैवतम् । अथाध्यात्मं याइदानीं स्त्रियःसतीः स्त्रीत्वंप्राप्ताआहुर्लौकिकाः ताँउ तानेवमेमह्यंपुंसः पुरुषानाहुः प्रतिपादयन्ति तत्त्वज्ञाःकथमन्यस्यान्य- भावः उच्यते एकस्यैवनिरस्तसमस्तोपाधिकस्यात्मनस्तद्देहावस्थानमात्रेणतत्तद्भ्यपदेशोपत्तेः श्रूयते- हि त्वंस्त्रीत्वंपुमानसित्वंकुमारउतवाकुमारीत्यादि स्त्रीत्वंपुंस्त्वंचोभयमपिवस्तुतोनास्तीत्युक्तंभवति स्मृतिरपितदभावंबोधयति—नैवस्त्रीनपुमानेषनैवचायंनपुंसकः । यद्यच्छरीरमादत्तेतेनतेनसचोद्यत- इति । द्वितीयः पादः पूर्ववत् किञ्च पुत्रः वयसा अल्पोऽपियःकविःक्रान्तप्रज्ञोज्ञानीस्यात् ईमिममर्थं- विचिकेतजानाति एवमुक्तलक्षणस्य परमात्मनः ता तानिस्त्रीत्वपुंस्त्वादीनि योविजानात् औपाधि- कानिजानीयात् सपितुः स्वोत्पादकस्यापिज्ञानरहितस्यपितासत् सपितॄन्पुत्रकाइत्यामन्त्रयतेत्युपक्र- म्य तंपितरोब्रुवन्नधर्मंकरोषियोनः पितॄन्सतः पुत्रकाइत्यामन्त्रयतइति सोब्रवीदहंवावपितास्मियोम- न्त्रकृदितिदेवानपृच्छन्त तेदेवाअब्रुवन् एषवावपितायोमन्त्रकृदिति तद्वैसउदजयदिति । मन्त्रद्रष्टुरेव- किलपितृत्वं तत्त्ववित् पितुः पितासदितिकिमाश्चर्यमित्यभिप्रायः ॥ १६ ॥

1.164.17
अ॒वः परे᳚ण प॒र ए॒नाव᳚रेण प॒दा व॒त्सं बिभ्र᳚ती॒ गौरुद᳚स्थात् ।
सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा᳚गा॒त्क्व᳚ स्वित्सूते न॒हि यू॒थे अ॒न्तः ॥
▶ पदपाठः (Word-by-word)
अ॒वः । परे᳚ण । प॒रः । ए॒ना । अव᳚रेण । प॒दा । व॒त्सम् । बिभ्र᳚ती । गौः । उत् । अ॒स्था॒त् ।
सा । क॒द्रीची᳚ । कम् । स्वि॒त् । अर्ध᳚म् । परा᳚ । अ॒गा॒त् । क्व᳚ । स्वि॒त् । सू॒ते॒ । न॒हि । यू॒थे । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्राग्नौहूयमानाहुतिर्गोरूपेणस्तूयते गौःगोरूपागमनशीलैषाआहुतिः आहुतिसंघेनपोष्यं वत्सं व- त्सस्थानीयमग्निं अवःअवस्तात् अधोदेशेपरेणपदापादद्वयेनस्वावयवेनाकृष्यबिभ्रतीधारयन्ती तथा परः परस्तात् उपरिदेशे एना अनेनावरेणचपदापादद्वयेनाकृष्य तमेववत्संबिभ्रतीउदस्थात्सूर्यंप्रत्यु- त्तिष्ठति अग्नौप्रास्ताहुतिः सम्यगादित्यमुपतिष्ठतइतिस्मृतेः । अथैवंक्रुतवतीसाआहुतिः कद्रीचोक्वगते- त्यनिश्चयगमना आदित्यंप्राप्तवतीत्यर्थः कंस्वित् कंफलभाजंपुरुषंप्रतिअर्धमर्धमार्गमागत्य यद्वा अर्धं ऋद्धंपरागात् परागच्छतिआगत्यचक्वस्वित्सूते कुत्रप्रदेशेफलमुत्पादयति नहीतरगोवदियं यूथेअन्तः सजातीयगोमध्ये सूतेसाधारण्येन यत्रद्वस्विन्नसूतेअपितुकस्मिंश्चिदनुष्ठातरि अतः समहान्कोनुखल्वि- ति यद्वा आदित्यरश्मिसमूहएवगोरूपेण स्तूयते गौः उक्तलक्षणारश्मिरूपागौर्वत्संवत्सवद्रक्षणीयंय- जमानंउक्तक्रमेणबिभ्रतीउदस्थात् अथतथाकृत्वा साकद्रीची अदृश्यगमनासती कंस्विदर्धंऋद्धं अर्ध- स्थानभाजंवा कंस्वित्पुरुषमादित्यंपरागात् अप्रतिनिवृत्तागती तन्नयन्त्येताःसूर्यस्यश्मयोयत्रदेवानां- पतिरेकोधिवासइतिश्रुतेः । तथाकृत्वाच क्वस्वित्सूते कस्मिन्निन्द्रादिलोकेजनयति नसर्वत्र शिष्टंसमा- नम् ॥ १७ ॥

1.164.18
अ॒वः परे᳚ण पि॒तरं॒ यो अ᳚स्यानु॒वेद᳚ प॒र ए॒नाव᳚रेण ।
क॒वी॒यमा᳚न॒ः क इ॒ह प्र वो᳚चद्दे॒वं मन॒ः कुतो॒ अधि॒ प्रजा᳚तम् ॥
▶ पदपाठः (Word-by-word)
अ॒वः । परे᳚ण । पि॒तर᳚म् । यः । अ॒स्य॒ । अ॒नु॒॑वेद᳚ । प॒रः । ए॒ना । अव᳚रेण ।
क॒वि॒॑यमा᳚नः । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वम् । मनः᳚ । कुतः᳚ । अधि᳚ । प्र॑जा᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवः अवस्तात्स्थितं अस्यपितरंएतल्लोकपालकमग्निंपरेणादित्येनसहयोनुवेद अनुक्रमेणजानाति तथापरः परस्तात्स्थितमादित्यमस्यपितरंपालकंसोपीममेवलोकं वृष्ट्यादिनापालयति तादृशमादि- त्यं एनाअनेनावरेणाग्निनासहयोनुवेद अग्न्यादित्यौव्यतिहारेणोपास्ते यद्वा अभिभूतरजस्तमस्कौ उ- द्बुद्धसत्वौ अतएवस्वाधीनमायावेतौएकत्वेनयोऽधिगच्छति सतादृशःपुरुषः कवीयमानः कविवदा- चरन् क्रान्तदर्शित्वमात्मनः ख्यापयन् कइहास्मिँल्लोकेप्रवोचत् प्रब्रवीति किंच देवंद्योतमानंदेवविष- यमलौकिकंवामनः कुतः कस्माददृष्टविशेषादधि आधिक्येनप्रजातंउत्पन्नं उभयमपिदुर्लभमित्यर्थः ॥ १८ ॥

1.164.19
ये अ॒र्वाञ्च॒स्ता{4} उ॒ परा᳚च आहु॒र्ये परा᳚ञ्च॒स्ता{4} उ᳚ अ॒र्वाच᳚ आहुः ।
इन्द्र᳚श्च॒ या च॒क्रथु᳚ः सोम॒ तानि᳚ धु॒रा न यु॒क्ता रज᳚सो वहन्ति ॥
▶ पदपाठः (Word-by-word)
ये । अ॒र्वाञ्चः᳚ । तान् । ऊं॒ इति᳚ । परा᳚चः । आ॒हुः॒ । ये । परा᳚ञ्चः । तान् । ऊं॒ इति᳚ । अ॒र्वाचः᳚ । आ॒हुः॒ ।
इन्द्रः᳚ । च॒ । या । च॒क्रथुः᳚ । सो॒म॒ । तानि᳚ । धु॒रा । न । यु॒क्ताः । रज᳚सः । व॒ह॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येसूर्यसोमयोश्चक्रे वर्तमानारश्मयोग्रहादयश्च तत्परिभ्रमणवशेनअर्वाञ्चः अर्वागंचनाः अधोमुखाः सन्ति ताँउ तानेवपरचआहुः पुराङ्मुखांचनानूर्ध्वानाहुःकालविदः तथा प्रथमं येपराञ्चः परागञ्चनाः ताँउ तानेवअर्वाचआहुः हेसोम त्वंइन्द्रः परमेश्वरः इरांभूमिंवृष्ट्याधारकआदित्यः यद्वा द्वादशादि- त्यानांमध्येइन्द्रोप्येकः विवस्वदिन्द्रयुताइत्युक्तत्वादयमपीन्द्रः सच यु वां या यानिमण्डलपरिभ्रम- णानिचक्रथुः क्रुतवन्तौ तानिरजसोरंजनात्मकस्यलोकस्य कर्मणिषष्ठी लोकंवहन्ति निर्वहन्ति तत्र- दृष्टान्तः—धुरान शकटादौधुरियुक्ताः संबद्धाअश्वादयोयथाधुरंवहन्तितद्वत् यद्वा एतत्पूर्वार्धेदृष्टा- न्तितं धुरायुक्ताः धुरिस्थितंचक्रमपिधुरशब्देनोच्यते तत्रयुक्ताः समर्पिताः पुरुषाः तत्परिभ्रमणव- शेनार्वाञ्चः पराञ्चोभवन्ति पराञ्चोप्यर्वाञ्चोभवन्तितद्वत् ॥ १९ ॥

1.164.20
द्वा सु᳚प॒र्णा स॒युजा॒ सखा᳚या समा॒नं वृ॒क्षं परि᳚ षस्वजाते ।
तयो᳚र॒न्यः पिप्प᳚लं स्वा॒द्वत्त्यन᳚श्नन्न॒न्यो अ॒भि चा᳚कशीति ॥
▶ पदपाठः (Word-by-word)
द्वा । सु॒॑प॒र्णा । स॒॑युजा᳚ । सखा᳚या । स॒मा॒नम् । वृ॒क्षम् । परि᳚ । स॒स्व॒जा॒ते॒ इति᳚ ।
तयोः᳚ । अ॒न्यः । पिप्प᳚लम् । स्वा॒दु । अत्ति᳚ । अन᳚श्नन् । अ॒न्यः । अ॒भि । चा॒क॒शी॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रलौकिकपक्षद्वयदृष्टान्तेनजीवपरमात्मानौस्तूयेते यथालोकेद्वौसुपर्णौ सुपतनौशोभनगमनौ सयुजासमानयोगौ सखायौ समानख्यानौ समानं वृक्षं परिषस्वजाते एकमेववृक्षंपरिषस्वजाते आश्र- यतः तयोरन्यः एकः पिप्पलंपक्वंफलं स्वाद्वत्ति स्वादुतरमत्ति अपरःअनश्नन् अभिचाकशीतिअभिप- श्यति तद्वत् द्वौसुपर्णस्थानीयौ क्षेत्रज्ञपरमात्मानौ सयुजासमानयोगौ योगानोमसंबन्धः सचतादा- त्म्यलक्षणः सएवात्मा परमात्मनःस्वरूपंयस्यजीवात्मनः एवमेकस्वरूपावित्यर्थः अनेनभास्करम- तानुसारिणोऽतिरेकनाम्नोजीवात्मा परमात्मनोनान्यः सचपरमात्मा जीवादन्योजीवाश्रयणादिति- मतंनिरस्तंभवति । ननु संबन्धोद्विष्ठः सचपक्षिणोरेवभेदमपेक्षते अतः कथमैकात्म्यमिति न औपा- धिकभेदंवास्तवाभेदंचापेक्ष्यप्रवृत्तः अतएव सखायौ समानख्यानौ नान्यख्यानौ नन्वेकस्य यादृशं- ख्यानं तादृशमेवान्यस्येतिव्युत्पत्त्याभेदःस्फुटंप्रतिभाति कथंतादात्म्यमुच्यतइतिनवक्तव्यं नात्रप- रस्परंदृष्टान्तदार्ष्टान्तिकभावः अपितुयस्ययादृशंख्यानं स्फुरणं परमात्मनः तदेवख्यानमितरस्यापि जीवात्मनइतिसखायावित्युच्यते एकरूपप्रकाशावित्यर्थः अतउपपन्नमैकात्म्यं अनेनवास्तवभेदोपि- निरस्तः समानंवृक्षंपरिषस्वजातेइत्यत्र यथाश्रयान्तराभावादुभयोरेकाश्रयत्वमभ्युपगन्तव्यम् तद्व- त्सयुजासखायावित्युभयत्राप्येकयोगख्याने आश्रयणीये वृश्च्यतइतिवृक्षोदेहः सचोभयोःसमानएकएव जीवस्यभोगार्थत्वात् परमात्मनासृष्टैर्महाभूतैरारब्धत्वात्तस्योपलब्धिस्थानत्वाच्चोभयोरपिसमानः तादृशं समानं वृक्षंपरिषस्वजाते परिष्वजतः आश्रयतः नचजीवस्यवस्तुतईश्वरत्वेकथंजीवबुद्ध्यासं- सारशोकावितिवाच्यं तयोर्मोहकृतत्वात् तथाचाथर्वणिकाअनुमन्त्रमाम्नाय अस्यसंदेहनिवर्तकमुत्त- रंमन्त्रमेवमामनन्ति—समानेवृक्षेपुरुषोनिमग्नोअनीशयाशोचतिमुह्यमानः । जुष्टंयदापश्यत्यन्यमी- शमस्यमहिमानमितिवीतशोकइति । अस्यायमर्थः—एकएवशरीरेपूर्णःपुरुषः परमात्मा निमग्नोनि- गूढःसन् स्वयमपीश्वरोप्यनीशत्वबुद्भ्यामुह्यमानोमूढःसन् शोचति संसारेअहंकर्ता सुखीदुःखीतिजन- नमरणेनुभवति यदातुजुष्टं नित्यतृप्तं अन्यं संसारशोकातीतंईशंपरमेश्वरंपश्यति स्वानन्यतयासाक्षा- त्करोति तदावीतशोकः देहाद्भ्यतिरिक्तः स्वस्वरूपसाक्षात्कारेण गततापत्रयः सन् अस्यमहिमान- मिति निरस्तसमस्तौपाधिकस्य परमेश्वरस्यमहिमानं सार्वात्म्यसर्वज्ञत्वादिमहिमानमिति एति प्राप्नोति नचतद्भावान्यत्रतन्महिमाप्राप्यते अतस्तद्रूपोभवतीत्यर्थः तस्माद्वस्तुतएकएव भेदस्तुमो- हकृतइतिफ्र्सिद्धम् । अनुभवदशायां लैकिकबुद्भ्याभेदमभ्युपेत्योच्यते तयोरन्योजीवात्मापिप्पलंकर्म- फलंस्वादुस्वादुभूतमत्तिभुंक्ते यस्य यदुपार्जितं तत्तस्यस्वादुभवति अन्यः परमात्माअनश्नन् आप्तकाम- त्वेनाभुंजानः स्पृहायाअभावात् आप्तकामस्यकास्पृहेतिस्मृतेः । तस्मादवास्तवभेदमुपजीव्यतयोरन्य- इत्युक्तम् वस्तुतस्त्वनीशयाशोचतिमुह्यमानइत्युक्तत्वादभेदएव तादृशःपरमात्मा अभिचाकशीति स्वात्मन्यध्यस्तंजगत्साक्षित्वेनेक्षतेअत्रद्वौद्वौप्रतिष्ठितौ सुकृतौ धर्मकर्तारावित्यादिनिरुक्तेगतं अस्यम- न्त्रस्यव्याख्यानमनुसंधेयम् ॥ २० ॥

1.164.21
यत्रा᳚ सुप॒र्णा अ॒मृत᳚स्य भा॒गमनि᳚मेषं वि॒दथा᳚भि॒स्वर᳚न्ति ।
इ॒नो विश्व᳚स्य॒ भुव᳚नस्य गो॒पाः स मा॒ धीर॒ः पाक॒मत्रा वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । सु॒॑प॒र्णा । अ॒मृत᳚स्य । भा॒गम् । अनि᳚॑मेषम् । वि॒दथा᳚ । अ॒भि॒॑स्वर᳚न्ति ।
इ॒नः । विश्व᳚स्य । भुव᳚नस्य । गो॒पाः । सः । मा॒ । धीरः᳚ । पाक᳚म् । अत्र᳚ । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्रादित्यमण्डलेसुपर्णाः सुपतनाः शोभनगमनारश्मयः अम्रुतस्योदकस्यभागंभजनीयमंशंआदाय अनिमेषंअनवरतं विदथावेदनेनज्ञानेनअस्माभिरेवंकर्तव्यमितिबुद्भ्याअभिस्वरन्ति अभिप्रापयन्ति य- श्चविश्वस्यभुवनस्यभूतजातस्यइनः स्वामी तथातस्यैवगोपाः गोपायिता रक्षितायमादित्यः सः पर- मेश्वरः धीरोधीमान् प्राण्यनुग्रहबुद्धियुक्तःसन् मामांपाकंपक्तव्यं अपक्वप्रज्ञं अत्रास्मिन्स्वकीयमण्डले आविवेश प्रवेशयति अत्रास्मदीयेदेहेवानियामकतयाप्रविष्टइत्यधिदैवतपक्षे । अथाध्यात्मपक्षे यत्रय- स्मिन्नात्मनिसुपर्णाः शोभनपतनानि स्वस्वविषयग्रहणायगमनकुशलानीन्द्रियाणि चक्षुरादीनि अमृ- तस्यभागं अत्रविषयावच्छिन्नचैतन्यममृतमित्युच्यते तस्यभागंभजनीयंस्वस्वांशं अनिमेषं निमेषर- हितं अनारतं विदथा वेदनेनव्रुत्त्यवच्छिन्नचैतन्येनावरुद्धानिअभिस्वरन्ति अभिप्रयन्ति आवरणापग- मनेन स्फोरयन्ति किञ्च यस्त्विनः स्वाम्यस्यदेहस्य विश्वस्यभुवनस्यगोपाः गोपायिता रक्षिता यद्वा विश्वस्यभुवनस्य भूतजातस्यस्वामी अस्यदेहस्यगोपाः अनेन तत्त्वंपदार्थयोरेकत्वंप्रतिपादितंभवति सपरमेश्वरोधीरः समाधिनिष्ठः सर्वदाअविक्रियः मामांपाकं परिपक्वमनस्कं यागदानादिना अपगत- र्जस्तमस्कत्वेनदर्पणवदतिनिर्मलसत्त्वोद्रिक्तमनस्कंमां आविवेश उक्तरूपेचित्ते तादृशंव्स्तुस्फुरतीत्य- र्थः यद्वा परिपक्वमनाहं पूर्वमज्ञानदशायां मदन्यईश्वरोस्तीत्यविद्वान् ततः परमस्तिकश्चित्सर्वज्ञःसर्वे- श्वरः सत्यज्ञानादिलक्षणइतिनिश्चित्य पश्चात् गुरुशास्त्राभ्यंसएवाहमस्मीतिमत्वा एवंपारंपर्येणावग- त्यासंभावनाविपरीतभावनेव्युदस्य भावनयासाक्षात्कृत्य परिपूर्णः परमात्माभूवमित्यर्थः अयमेव समाधीरःपाकमत्राविवेशेत्यनेनोच्यते नन्वनवच्छिन्नस्यपरमात्मनः सर्वत्रव्याप्तत्वात्प्राप्तिरेवनोपप- द्यते संप्रत्यत्रप्राप्तिर्द्विविधा प्राप्तप्राप्तिरप्राप्तप्राप्तिश्चेति प्राप्तस्यापिकंठेचामीकरन्यायेनावरणाज्ञा- नहानद्वारेणप्राप्तिरुपपद्यते अस्यमन्त्रस्ययन्निरुक्तं यत्रसुपर्णाःसुपतनाआदित्यरश्मयइत्यादिकंतद- त्रद्रष्टव्यम् ॥ २१ ॥

1.164.22
यस्मि᳚न्वृ॒क्षे म॒ध्वदः᳚ सुप॒र्णा नि᳚वि॒शन्ते॒ सुव᳚ते॒ चाधि॒ विश्वे᳚ ।
तस्येदा᳚हु॒ः पिप्प᳚लं स्वा॒द्वग्रे॒ तन्नोन्न᳚श॒द्यः पि॒तरं॒ न वेद᳚ ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । वृ॒क्षे । म॒धु॒॑अदः᳚ । सु॒॑प॒र्णाः । नि॒॑वि॒शन्ते᳚ । सुव᳚ते । च॒ । अधि᳚ । विश्वे᳚ ।
तस्य᳚ । इत् । आ॒हुः॒ । पिप्प᳚लम् । स्वा॒दु । अग्रे᳚ । तत् । न । उत् । न॒श॒त् । यः । पि॒तर᳚म् । न । वेद᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रवृक्षत्वरूपककल्पना अधिदैवतेआदित्यं अध्यात्ममात्मानंचप्रशंसति यस्मिन्नादित्येवृक्षेवृक्ष- वत्सर्वफलाश्रयभूतेमध्वदः मध्वित्युदकनाम तददन्तीतिमध्वदःउदकस्यात्तारःसुपर्णाः सुपतनारश्म- योनिविशन्ते प्रविशन्तिरात्रौसुवतेच पुनरुदयकालेप्रकाशंजनयन्तिच यस्मादादित्यात् कुत्रअधिवि- श्वेविश्वस्योपरितस्यादित्यवृक्षस्यपिप्पलं पालकंफलंस्वादुरसवत् अग्रेउपरिउपासनानन्तरंआहुः कथयन्तितत्त्वविदः यद्वा सर्वरमादुपरिवर्तमानमाहुः ईदृशंपितरं जगतःपालयितारंयोनरोनवेद नोपास्ते सतन्नोन्नशत् नशतिर्गतिकर्मा तत्फलंनप्राप्नोति वेदितुस्तु अग्रेपिप्पलमाहुरित्यर्थः इत्- पूरणः इत्यधिदैवपक्षे । अथाध्यात्मपक्षे यस्मिन्परमात्मनिवृक्षे वृक्षवद्गमनादिरहिते अविक्रिये सु- पर्णाः शोभनगमनानींद्रियाणि मध्वदः मधुनोज्ञानस्यअन्त्रीणितत् ज्ञानेनज्ञानभांजीत्यर्थः निविश- न्तेस्वपकालेस्व्स्वविषयेभ्यः प्रतिनिवृत्तानिआत्मनिवृत्त्यालीयन्ते पुनःप्रबोधकाले अधिविश्वे- विश्वस्योपरिसुवतेचउद्यन्ति स्वस्वविषयान् लभन्तइत्यर्थः तस्यपरमात्मनः पिप्पलं पालकंसंसा- रतउद्धारकंस्वादु आस्वादनीयंअमृतत्वलक्षणंज्ञानं यत्फलास्वाद्गनेपुनः क्षुत्तृष्णाशोकमोहजराम- रणादयोनभवन्तितद्धिस्वादुतमं इतरस्वर्गादिफलानिपुनर्जननाद्यापादकत्वादापातस्वादूनि तत्फलं अग्रेस्वरूपज्ञानोत्तरकालमाहुः यःपुमान् पितरंपालकंज्ञानफलं तत्फलाधारमात्मानंवानवेद नजा- नाति गुरुशास्त्रात् सतत्फलंनोन्नशत् नप्राप्नोति अतआत्मानंयोवेदसएवतन्मोक्षफलंप्राप्नोतीत्यर्थः यद्वा चर्मवदाकाशमित्यादिश्रुतेर्ज्ञानात् अन्योपायस्याम्रुतत्वप्राप्तिंनिवारयति ब्रह्मवेदब्रह्मैवभवती- त्यादिकानुज्ञाप्राप्तिमाह तस्मादीदृशंपरमेश्वरंविदित्वामुक्तोभूयासमित्यर्थः ॥ २२ ॥

1.164.23
यद्गा᳚य॒त्रे अधि᳚ गाय॒त्रमाहि᳚तं॒ त्रैष्टु᳚भाद्वा॒ त्रैष्टु᳚भं नि॒रत᳚क्षत ।
यद्वा॒ जग॒ज्जग॒त्याहि᳚तं प॒दं य इत्तद्वि॒दुस्ते अ᳚मृत॒त्वमा᳚नशुः ॥
▶ पदपाठः (Word-by-word)
यत् । गा॒य॒त्रे । अधि᳚ । गा॒य॒त्रम् । आ॑हि᳚तम् । त्रैस्तु᳚भात् । वा॒ । त्रैस्तु᳚भम् । निः॒॑अत᳚क्षत ।
यत् । वा॒ । जग᳚त् । जग᳚ति । आ॑हि᳚तम् । प॒दम् । ये । इत् । तत् । वि॒दुः । ते । अ॒मृ॒त॒॑त्वम् । आ॒न॒शुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गायत्रेअधिगायत्रमाहितं प्राथम्यात्सर्वैः स्तुत्यत्वाच्च गायत्रीभूः तदीयंस्थानंगायत्रंअधिउपरि तत्रगायत्रमाग्नेयंपदंआहितं प्रथमसृष्टत्वात् गायतित्रायतेचेतिव्युत्पत्त्याचप्रजापतेर्मुखाद्गायत्र्यासहो- त्पन्नत्वाद्भक्त्याग्निरपिगायत्रःगायत्रोग्निरितिश्रुतेः । भूम्यामग्निःस्थापितइति यदस्ति तथा त्रैष्टुभा द्वितीयत्वात् वृष्टिपर्जन्यविद्युद्रूपत्रिस्तोभयुक्तादन्तरिक्षान्त्रैष्टुभंत्रिस्तोभयुक्तं ऊर्ध्वाधस्तिर्यग्लक्षण- स्तोभत्रयोपोएतंवायुं निरतक्षत साधुसंपादितवन्तोदेवाइतियदस्ति वा अथवा जगति सर्वैर्गन्तव्ये उद्गततमेवातृतीयभूते द्युलोकेच जगत् गमनशीलंआदित्याख्यंपदमाहितमितियदस्ति तदिदंत्रिषु- स्थानेषुत्रयाणामग्न्यादीनंपदाधानं यइत् येएवनराविदुर्जानन्ति तएवामृतत्वमानशुः अमरणरूपं- पदमाप्नुवन्ति इत्यधिलोकम् । अथाधियज्ञं गायत्रेप्नातःसवने अधिउपरिगायत्रंछ्न्दः पदमाहितमि- तियत् तथा त्रैष्टुभात् माध्यंदिनात्सवनात् त्रैष्टुभंछन्दोनिरतक्षत तत्रआहितमितियत् वा किंचेत्यर्थः जगतितृतीयसवने जगत् जागतंपदमाहितमितियत् तत्तादृशंसवनत्रयेषुछ्न्दस्त्रयसंस्थापनं येनरा- विदुः यजमानाविदुर्जानन्ति तेअमृतत्वंज्ञानानुष्ठानद्वारेण मोक्षमानशुः आप्नुवन्ति अथवागायत्रेप्रातः सवने त्रिषुस्वनेषुछन्दस्त्रयपरिमाणात् सवनान्यपितत्तच्छन्दः शब्देनोच्यन्ते गायत्रंप्रातःसवनं त्रैष्टु- भंमाध्यंदिनसवनं जागतंतृतीयसवनमितिश्रुतेः । तादृशेप्रातःसवनेअधिउपरि गायत्रं अष्टाक्षरात्मकं आहावप्रतिगररूपंगायत्रंपदमाहितं तद्यथाहोताशोंसावोमितित्र्यक्षरेण आह्वयते तथाशोंसामोदै- वोमिति पञ्चाक्षरेणाध्वर्युःप्रतिगृणाति तन्मिलित्वाऽष्टाक्षरंसंपद्यते तच्चाष्टाक्षरंगायत्रीसदृशं तस्या- अपिपादस्याष्टाक्षरत्वात् इदमेकंप्रातः सवनरूपेगायत्रेगायत्रपदप्रतिष्ठापनं तथासवनान्तेऽपिशंसना- नन्तरमुक्थंवाचीतिचतुरक्षरमाह होता ओमुक्थशाइतिचतुरक्षरमध्वर्युः तदष्टाक्षरंसंपद्यते एतदपरं गायत्रेगायत्रस्थापनम् । तथा त्रैष्टुभान्माध्यंदिनसवनात् त्रैष्टुभंआहावप्रतिगरणरूपंपदंनिरतक्षतऋ- त्विजः तद्यथा—माध्यंदिनसवनेहोताध्वर्योशोंसावोमित्याह्वयते षडक्षरेण अध्वर्युश्चशंसामोदैवो- मितिपञ्चाक्षरेणप्रतिगृणाति तन्मिलित्वैकादशाक्षरंसंपद्यते इदमेकंमाध्यंदिनसवनादौत्रैष्टुभेत्रैष्टु- भाधानम् । तथासवनान्तेपि शंसनानन्तरं उक्थंवाचिइन्द्रायेति सप्ताक्षरमाह होता अध्वर्युश्चोमुक्थ- शाइतिचतुरक्षरेणप्रतिगृणाति तन्मिलित्वैकादशाक्षरंसंपद्यते इदमपरंत्रैष्टुभे त्रैष्टुभस्थापनम् । तथा तृतीयसवनेहोताध्वर्योशोशोंसावोमितिसप्ताक्षरेणाह्वयते शंसामोदैवोमितिपञ्चाक्षरेणाध्वर्युःप्रति- गृणाति तत् द्वादशाक्षरंभवति तदिदंप्रथमंजागतेजागतोत्पादनं तथापश्चादपिशंसनानन्तरमाह—उ- क्थंवाचीन्द्रायदेवेभ्यइति एतदेकादशाक्षरंभवति तमिदन्द्रंसन्तमिन्द्रइत्याचक्षतइतिश्रुतेः संख्या- पूर्तिः ओमित्यध्वर्युरेकाक्षरेणप्रतिगृणाति तन्मिलित्वाद्वादशाक्षरं संपद्यते तदिदमपरंजागतेजागतप- दस्थापनम् । एवंत्रिषुछन्दस्सु त्रिषुगायत्र्यादिसवनेषुगायत्रादिच्छन्दस्त्रयः पदप्रतिष्ठापनं एतत्सर्वमै- तरेयब्राह्मणे—देवविशःकल्पयितव्याइतिखण्डेविस्पष्टमाम्नातम् । तत्तादृशंछन्दसिछन्दःस्थापनंयइ- त्तद्विदुः येएवजानन्ति तएवामृतत्वमानशुः प्राप्नुवन्त्यनुष्ठानद्वारा एवमजानान्तोनुष्ठानेनापिनफलंप्रा- प्नुवन्तीत्यर्थः तस्यसाकल्याभावादितिभावः ॥ २३ ॥

1.164.24 समानपद
गा॒य॒त्रेण॒ प्रति᳚ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु᳚भेन वा॒कम् ।
वा॒केन᳚ वा॒कं द्वि॒पदा॒ चतु᳚ष्पदा॒क्षरे᳚ण मिमते स॒प्त वाणी᳚ः ॥
▶ पदपाठः (Word-by-word)
गा॒य॒त्रेण᳚ । प्रति᳚ । मि॒मी॒ते॒ । अ॒र्कम् । अ॒र्केण᳚ । साम᳚ । त्रैस्तु᳚भेन । वा॒कम् ।
वा॒केन᳚ । वा॒कम् । द्वि॒॑पदा᳚ । चतुः᳚॑पदा । अ॒क्षरे᳚ण । मि॒म॒ते॒ । स॒प्त । वाणीः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गायत्रेणगायत्रच्छन्दसाअर्कंअर्चनसाधनंमन्त्रंप्रतिमिमीते प्रत्येकंपरिच्छिनत्ति अर्कोमन्त्रोभवति- यदनेनार्चन्तीतिनिरुक्तम् । प्रतिमन्त्रंगायत्रेणच्छन्दसोपनिबद्धंकरोति उपलक्षणमेतदन्येषां छन्दसां यद्वेतरेषांछन्दसामस्यैवचतुश्चतुरक्षराधिक्येन तत्तच्छन्दोनिष्पत्तेरस्यप्रकृतित्वात् प्राधान्येनेदमुक्तम् अर्कशब्दोजात्यभिप्रायः सर्वान्मन्त्रान् गायत्र्यादिभिश्छन्दोभिःप्रतिमिमीतइत्यर्थः यद्वा प्रतिशब्दः समित्येतस्मिन्नर्थे छन्दोभिर्मन्त्रान्संमितंकरोतीत्यर्थः अर्केणसाम उक्तलक्षणेनमन्त्रेणसामगायत्ररथं- तरसंज्ञकंसामप्रतिमिमीते नन्वेकंसामतृचेक्रियतइतितिसृष्वेकंसामविहितं अर्तोर्कैःसामेतिवक्तव्यम् कथमुच्यतेअर्केणेति न वस्तुतएकंसामैकस्यामृच्यारूढं पश्चादन्योन्यां तदुत्तरयोर्गायतीत्यतिदेशतः प्राप्तंतिसृषुगानं अतएकवचनमविरुद्धम् त्रैष्टुभेनवाकं अत्रत्रिष्टुबुपादानमितरच्छन्दः प्रदर्शनार्थं अथ- वा अनादेशेसर्वत्रत्रिष्टुभोग्रहणात् प्राचुर्यामिप्रायेणेदमुक्तं त्रैष्टुभेनद्विवारत्रिवारवृत्तेनद्वृचतृचरूपं- वाकंवक्तव्यं एकैकंछन्दः प्रतिमिमीते अथवा वाकंसूक्तं एतावद्भिस्त्रिष्टुब्भिरुपनिबद्धमिदंसूक्तमिति- तादृशेनवाकेन वाकंवाकवर्गंअनुवाकंवा मिमीते कीदृशेनवाकेनेतिसविशेष्यते द्विपदाचतुष्पदा पाद- द्वयबद्धविराडादिछन्दोनिबद्धमन्त्ररूपेण चतुष्पदापादचतुष्टयोपेतेन अनुष्टुबादिमन्त्ररूपेणेति इयती- भिर्द्विपदाभिर्वर्गः इयतीभिश्चतुष्पदाभिरुपेतोवर्गः इयद्द्विपदरूपैर्वाकैः इयच्चतुष्पदरूपैर्वाकैश्चपरिमि- तोनुवाकइति । सूक्तपक्षेएतावद्भिः सूक्तैरयमनुवाकइति किञ्चाक्षरेण अक्षरेणैवसप्तवाणीः वागधिष्ठि- तानिसप्तच्छन्दांसिमिमते निर्माणंकुर्वन्ति अष्टाक्षरागयत्रीएकादशाक्षरात्रिष्टुप् द्वादशाक्षराजगतीति अक्षरैःपादाःपरिमीयन्ते परिमितैः पादैश्छन्दांसि ततःपादानांछंदसांअक्षरंमूलमिति तथा ऋग्वर्गसू- क्तानुवाकादीनांचाक्षरंमूलमित्यक्षरप्रशंसा ॥ २४ ॥

1.164.25
जग᳚ता॒ सिन्धुं᳚ दि॒व्य᳚स्तभायद्रथंत॒रे सूर्यं॒ पर्य᳚पश्यत् ।
गा॒य॒त्रस्य᳚ स॒मिध᳚स्ति॒स्र आ᳚हु॒स्ततो᳚ म॒ह्ना प्र रि᳚रिचे महि॒त्वा ॥
▶ पदपाठः (Word-by-word)
जग᳚ता । सिन्धु᳚म् । दि॒वि । अ॒स्त॒भा॒य॒त् । र॒थ॒म्॑त॒रे । सूर्य᳚म् । परि᳚ । अ॒प॒श्य॒त् ।
गा॒य॒त्रस्य᳚ । स॒म्॑इधः᳚ । ति॒स्रः । आ॒हुः॒ । ततः᳚ । म॒ह्ना । प्र । रि॒रि॒चे॒ । म॒हि॒॑त्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

जगतीछन्दस्कायामृच्युत्पन्नंसाम जगत् तेन ब्रह्मासृष्टिकाले सिन्धुंस्यन्दनशीलं उदकस्य स्यंदकं- वादित्यं दिवि द्युलोकेअस्तभायत् स्तंभितवान् जागतोवा एषयएषतपतीतिश्रुतेः । रथन्तरे एतन्ना- मके साम्नि स्तंभितं सूर्यं पर्यपश्यत् परिदृष्टवान्प्रजापतिः तदाधारभूतायामृचि स्वर्दृशमितिसूर्यप्रति- पादकशब्ददर्शनात् असौवावस्वर्दृगितिहिश्रुतिः । अतएवतत्रसूर्यदर्शनं विधीयते रथन्तरे प्रस्तूयमाने संमीलयेत् स्वर्दृशं प्रतिवीक्षेतेति साम ब्राह्मणेन गायत्रस्य गायत्र्यामुत्पन्नस्यसाम्नः समिधः समिन्ध- नास्तिस्रोविभक्तीराहुः पादत्रयमाहुरित्यर्थः अथवा तिस्रऋचआहुः ततोहेतोः मह्ना बलेन महित्वा- महत्त्वेनप्ररिरिचे प्ररिच्यते अन्यानिसामानि पृथक्पृथङिगर्मितवान् यद्वा गायत्रशब्दः छन्दोवाची त्स्यतिस्रोमूर्तीराहुः क्रमेणाष्टाक्षरैकादशाक्षरद्वादशाक्षरैर्गायत्रीत्रिष्टुब्जगत्यात्मिकाः यस्मादेवंततस्त- स्माद्गायत्रीछन्दसांकनिष्ठासती मह्ना बलेन महत्त्वेन प्ररिरिचे सर्वाणिच्छन्दांस्यतिक्रामति येनै- वबलेनसोममाहृतवती तादृशेनैवंभवति ॥ २५ ॥ प्रवर्ग्येघर्मदुघाह्वानकाले उपह्वयइत्यादिकेद्वेऋचौ उपह्वयेसुदुघांधेनुमेतामितिद्वेइति सूत्रि- तत्वात् ।

1.164.26
उप᳚ ह्वये सु॒दुघां᳚ धे॒नुमे॒तां सु॒हस्तो᳚ गो॒धुगु॒त दो᳚हदेनाम् ।
श्रेष्ठं᳚ स॒वं स᳚वि॒ता सा᳚विषन्नो॒॑भी᳚द्धो घ॒र्मस्तदु॒ षु प्र वो᳚चम् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । ह्व॒ये॒ । सु॒॑दुघा᳚म् । धे॒नुम् । ए॒ताम् । सु॒॑हस्तः᳚ । गो॒॑धुक् । उ॒त । दो॒ह॒त् । ए॒ना॒म् ।
श्रेष्ठ᳚म् । स॒वम् । स॒वि॒ता । सा॒वि॒ष॒त् । नः॒ । अ॒भि॑इ᳚द्धः । घ॒र्मः । तत् । ऊं॒ इति᳚ । सु । प्र । वो॒च॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहंहोताउपह्वये उपेत्याह्वयामि किंएतां धेनुं आगच्छन्तीं क्षीरेणप्रीणयित्रींगां प्रवर्ग्यार्थां पुनःकीद्रुशीं सुदुघां सुष्ठुदोग्ध्रीं उत अपिच एनां उक्तलक्षणां गां सुहस्तः शोभनहस्तः दोहनकुशलः गोधुक् गोदोग्धा अध्वर्युः दोहत् दोग्धि यस्मादेवं तस्मादुपह्वयइत्यर्थः तदर्थंसवितासर्वस्यानु- ज्ञातापरमेश्वरोनोऽस्मदीयं श्रेष्ठंप्रशंस्यं सवं सोमयाग स्वीरंवा साविषत् अनुजानातु कथमेवं तच्छ- ब्दश्रुतेर्यच्छब्दाध्याहारः यद्यस्मात् घर्मः प्रवर्ग्यः यद्घर्मइत्यतः यत्तद्घर्मस्यघर्मत्वमितितैत्तिरीयकम् । तत्तादृशोभीद्धः अभिदीप्तः तदु उशब्दएवकारार्थः तस्मादेवकारणात् सुप्रवोचं सुष्ठुब्रवीमिउपह्वय- इति । यद्वा एतांपुरतोदृश्यमानांधेनुंवृष्ट्याप्रीणयित्रीमेघलक्षणांधेनुं उपह्वये आह्वयामि वर्षदोहाय किंचैनांधेनुं सुहस्तः शोभनदोहनकुशलहस्तोपेतोगोधुक् गोदोग्धा आदित्योवावायुर्दोहत् दोग्धि तद- धीनत्वाद्वर्षणस्य किंच तदर्थं सविताप्रेरकः परमेश्वरोस्मदर्थं अस्मदुपभोगादृष्टमपेक्ष्यसाविषत् अनु- जानातु प्रतिबन्धंमाकरोत्वित्यर्थः किमितीदमुच्यतइत्युच्यते—घर्मः ग्रीष्मः अवर्षणजनितः स्स्य- शोषः अभीद्धः प्रवृद्धः तदुषुप्रवोचं तस्मादेवकारणात् ब्रवीमि ब्रवीतेर्लुङिवच्यादेशे अस्यतिवक्ती- त्यादिनाच्लेरङ् छान्दसोडभावः ॥ २६ ॥

1.164.27 समानपद
हि॒ङ्कृ॒ण्व॒ती व᳚सु॒पत्नी॒ वसू᳚नां व॒त्समि॒च्छन्ती॒ मन᳚सा॒भ्यागा᳚त् ।
दु॒हाम॒श्विभ्यां॒ पयो᳚ अ॒घ्न्येयं सा व᳚र्धतां मह॒ते सौभ᳚गाय ॥
▶ पदपाठः (Word-by-word)
हि॒ङ्॑कृ॒ण्व॒ती । व॒सु॒॑पत्नी᳚ । वसू᳚नाम् । व॒त्सम् । इ॒च्छन्ती᳚ । मन᳚सा । अ॒भि । आ । अ॒गा॒त् ।
दु॒हाम् । अ॒श्वि॑भ्या᳚म् । पयः᳚ । अ॒घ्न्या । इ॒यम् । सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ᳚गाय ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथाहूतागौः हिङ्कृण्वती वत्संप्रतिहिङ्कारंकुर्वती वसूनांवसुपत्नीक्षीरदध्याज्यादिबहुधनानां- स्र्वदापालयित्री वृत्त्यवृत्तिभ्यांवसुनःपालयित्रीत्वं तस्यैवाधिक्यंचप्रतिपाद्यते पुनःकीदृशी मनसा- वत्समिच्छन्ती ईदृशीसाअभ्यागात् अभ्यागमत् इयंआगता अध्यागोनामैतत् अहननीयागौः अश्वि- भ्यांताभ्यामर्थायपयःक्षीरंदुहांदुग्धां सातादृशीमहतेसौभगाय प्रवृद्धायसौभाग्याय वर्धतां प्रवृद्धा- भवतु यद्वास्मैसौभगायक्षीरंवर्धयतां अत्रापिवृष्टिपरत्वेनयथायोगंयोग्यं हिङ्कृण्वतीवर्षणाय्शब्दय- न्ती वसूनां गोसस्यादिधनानां बहूनांवसुपत्नी तेषामेवपालयित्री वत्संलोकं वत्सवत्पोषणीयंमन- साइच्छन्तीप्रीणयितुंअभ्यागात् अभिगच्छती मेघरूपासाचाघ्र्या अहन्तव्याप्रस्तुत्येत्यर्थः पयउदकं- अश्विभ्यां व्यप्ताभ्यां स्थावरजंगमाभ्यांअर्थाय यद्वा अश्विनौवाय्वादित्यौताभ्यांसकाशात् दुहांदुग्धां तौहि वृष्टेर्मोचयितारौ शिष्टमबिभिगय ॥ २७ ॥ प्रवर्ग्येअभिष्टवेदोहनसमयेवत्सेमातुः सकाशादपनीयमानेगौरमीमेदित्येषा सूत्रितंच—गौरमीमे- दनुवत्संमिषन्तंनमसेदुपसीदतेति ।

1.164.28
गौर᳚मीमे॒दनु᳚ व॒त्सं मि॒षन्तं᳚ मू॒र्धानं॒ हिङ्ङ᳚कृणो॒न्मात॒वा उ᳚ ।
सृक्वा᳚णं घ॒र्मम॒भि वा᳚वशा॒ना मिमा᳚ति मा॒युं पय᳚ते॒ पयो᳚भिः ॥
▶ पदपाठः (Word-by-word)
गौः । अ॒मी॒मे॒त् । अनु᳚ । व॒त्सम् । मि॒षन्त᳚म् । मू॒र्धान᳚म् । हिङ् । अ॒कृ॒णो॒त् । मात॒वै । ऊं॒ इति᳚ ।
सृक्वा᳚णम् । घ॒र्मम् । अ॒भि । वा॒व॒शा॒ना । मिमा᳚ति । मा॒युम् । पय᳚ते । पयः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गौर्धेनुः मिषन्तंनिमीलिताक्षंवत्समनुप्राप्यअमीमेत् शब्दंकरोति मीमयतिः शब्दकर्मा यद्वा उक्तं- वत्समनुआत्मानंप्रक्षिपति किञ्च तस्यवत्सस्यमूर्धानंमातवैमातुं निर्मातुंलेहनेनशोधयितुं उशब्दोवधा- रणे हिङ्ङकृणोत् हिंकारमकरोत् करोति किञ्च सृक्वाणंवत्सस्यशब्दवदनप्रान्तंफेनस्यस्रष्टारं घर्मंक्षी- रस्यक्षरणशीलं वत्संअभिअभिलक्ष्य वावशानाभृशंकामयमानामायुंशब्दंमिमाति निर्मातिकरोति तादृशीसतीपयोभिः प्रभूतैः क्षीरैः पयते प्यायते आप्यायनंकरोतिवत्सम् । अत्रापि मेघपरतयायोज- नीयं एवमाहूता मेघरूपा गौर्धेनुः मिषन्तं वृष्टिरूपक्षीराभावेन निमीलिताक्षलोकाख्यंपुत्रंअनुअनुसृ- त्यामीमेत् गर्जनशब्दंवर्षणचिह्नरूपं करोति मूर्धस्थानीयांभूमिं मातवाउ निर्मातुमेव सस्यादियुक्तां- कर्तुं हिङ्ङकृणोत् हिंकाररूपंशब्दमकरोत् प्रतिपादनभेदादपुनरुक्तिः किञ्च सृक्वाणंफलस्यस्रष्टारंघर्मं- दीप्तंपुत्रमभिवावशाना आभिमुख्येनकामयमाना पयोभिरुदकैः पयते प्यायते आप्यायनंकरोति ॥ २८ ॥

1.164.29 समानपद
अ॒यं स शि᳚ङ्क्ते॒ येन॒ गौर॒भीवृ᳚ता॒ मिमा᳚ति मा॒युं ध्व॒सना॒वधि᳚ श्रि॒ता ।
सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं᳚ वि॒द्युद्भव᳚न्ती॒ प्रति᳚ व॒व्रिमौ᳚हत ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सः । शि॒ङ्क्ते॒ । येन᳚ । गौः । अ॒भि॑वृ᳚ता । मिमा᳚ति । मा॒युम् । ध्व॒सनौ᳚ । अधि᳚ । श्रि॒ता ।
सा । चि॒त्ति॑भिः᳚ । नि । हि । च॒कार᳚ । मर्त्य᳚म् । वि॒॑द्युत् । भव᳚न्ती । प्रति᳚ । व॒व्रिम् । औ॒ह॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोयंवत्सः शिंक्ते अव्यक्तध्वनिंकरोति येनवत्सेनगौर्माताअभीवृता आगत्याभितोवेष्टिताभवति किञ्च सागौर्मायुंशब्दं मिमाति निर्मिमाति कुत्रस्थिता ध्वसनावधिश्रिता ध्वसनस्थाने गवांनिवासा- श्रयेधिष्ठिता सातादृशी चित्तिभिः ज्ञानैस्तत्पूर्वकैः कर्मभिर्वा मर्त्यंनिचकारहि नीचैः करोति ज्ञानवि- शिष्टामनुष्याः यथा वालकस्यादनस्तनपानादिस्नेहंकुर्वन्ति ततोऽप्यतिश्यमियंकरोतीत्यर्थः किञ्च विद्युद्भवन्ती बहुक्षीरतयाविद्योतमाना वव्रिंस्वकीयंरूपं वव्रिरिति रूपनाम प्रत्यौहत प्रकाशयति यद्वा विद्युद्भवन्ती बहुक्षीरतयाविद्योतमाना वव्रिंस्वकीयंरूपं वव्रिरिति रूपनाम प्रत्यौहत प्रकाश- यति यद्वा वत्सस्नेहातिशयस्वरूपं विद्युद्भवन्ती विद्युदिवशीघ्रदर्शनाऔहत अयमेकोर्थः । अर्थान्तरं- चशाकपूणिर्नामनिरुक्ताचार्यः सकलमन्त्रदेवताजानामीत्यभिमानितवान् दुर्ज्ञेयस्यतत्त्वस्यस्वरूप- मसौजानातिकिलैनंव्यामोहयामीतिमनसिकृत्वासंदिग्धोभयलिंगादेवताप्रादुरासीदथतस्यपुरतः सच तांनबुबुधे बुभुत्सयाचतांस्वरूपंप्रदर्शयेति पप्रच्छ साचायंसशिंक्तइत्येषामद्देवता तत्रप्रतीयमानं- मत्स्वरूपमित्युपदिदेश कथमत्रोभयलिंगत्वं वस्तुतःउभयलिङ्गत्वेकथंदेवतैक्यमिति उच्यते—अत्रो- भयलिङ्गत्वमुभयथासंभवति स्त्रीपुँल्लिङ्गद्वयेन मध्यमोत्तमलिंगद्वयेनच तत्कथंअयंसयेनेति पुँल्लि- ङ्गद्वयेन मध्यमोत्तमलिंगद्वयेनच तत्कथंअयंसयेनेति पुँल्लिङ्गवाचिनाश्ब्दत्रयेणमेघःप्रतीयते अधि- श्रितासेत्यादिनास्त्रीलिंगवाचकेनमाध्यमिकावाक् अतउभयलिंगत्वं तथाविद्युद्भवन्तीत्यन्तं मध्यम- लिङ्गं तत्रमेघस्तनितयोर्माध्यमिकयोःप्रतीतेः तथासतिवव्रिमौहत इत्यत्रवर्षेणपृथिवींप्रच्छाद्य त- स्यारसंप्रत्यादत्तइत्ययमर्थोविवक्षितः सचादित्यव्यापारइत्युत्तमलिंगत्वं तर्हिवस्तुतउभयलिंगत्वप्र- तीतेः उभेअपिदेवते यल्लिङ्गंसादेवतेतिन्यायात् अतःकथमेकदेवतासिद्धिरिति अयंसयेनेत्येतेषांव्य- त्ययाश्रयेणसर्वदेवतानामधिष्ठानात्मिकायाः एकत्वश्रवणेनवा सर्वफलदात्रात्मनएकत्वाश्रयणेनवादे- वतैक्योपपत्तेः अनेनमध्यमोत्तमभेदेनोभयलिंगत्वपक्षेपिदेवतैक्यमुक्तं भवति अतएकैववामहानात्मा- देवतेत्युक्तत्वाद्वस्तुतोदेवतैक्यं अधिष्ठात्रधिष्ठानभेदेनभेदश्चनविरुध्यते अयंसशिंक्तेइयंसामाध्यमिका- यावाचोधिष्ठात्रीदेवता शिंक्ते अव्यक्तध्वनिंकरोति येनगौरभीवृता गौरितिवाङ्गम माध्यमिकावाक् ययाभिवृता अभितोव्याप्ताअधिष्ठितेत्यर्थः सेयं शिंक्ते । अथवा अयंसशिंक्तइतिनैवमाध्यमिकावाक् निर्दिश्यते अपितुमेघः तस्यांवाचिशिंजानाया सएवशिंक्तइत्युपचर्यते मंचाःक्रोशन्तीतिवत् अयंसमे- घः शब्दंकरोति येनमाध्यमिकावागभिव्याप्ता शब्दनेप्रकारएवोच्यते—मिमाति मायुंस्त नितलक्षणं- शब्दंकरोति अथवेयंलुप्तोपमा मिनोति स्वतेजः सर्वत्रप्रक्षिपतीतिमायुरादित्यः तमिवातिदीप्तंकरो- तीत्यर्थः अथवा सामर्थ्यादात्मानमादित्यसदृशंनिर्मिमीते कुत्रस्थिता ध्वसनावधिश्रिता ध्वंसनेमेघे- धिश्रिता सा ईदृशीचित्तिभिः कर्मनामैतत् स्वकर्मभिर्वृष्टिरूपैर्मर्त्यंमरणधर्माणंस्थावरजंगमरूपंकृत्स्नं- जगत् निहिचकार नीचैःकरोति मनुष्यान्प्रणतान् करोति ओषध्यादिकंफलेनावनतंकरोति अथवा चित्तिभिर्द्योतनलक्षणैः कर्मभिः विद्युतिविद्योतमानायां भीत्यासर्वेशिरांसिनतानिकुर्वन्ति कथंभूता- निनीचैः करोतीतिउच्यते—विद्युद्भवन्तीविद्युद्रूपतामापद्यमानाप्रतिवव्रिमौहत वव्रिरितिरूपनाम ऊहतिरत्रसामर्थ्यादुपसंहारवाची प्रत्युपसंहरति उदकलक्षणंरूपंपुनरादत्ते रश्मिद्वारावृष्टमुदकंपुनर्घ- र्मकालेआदत्ते एकस्यैवज्योतिषस्त्रेधाकरणाद्विद्युतः सूर्यरश्मिभावउपपद्यते तमूअकृण्वन्त्रेधाभुवेक- मितिवक्ष्यमाणत्वात् स्तनितस्यविद्युद्भावोमेघविद्युत्स्तनितानामभेदाभिप्रायेण ॥ २९ ॥

1.164.30
अ॒नच्छ᳚ये तु॒रगा᳚तु जी॒वमेज᳚द्ध्रु॒वं मध्य॒ आ प॒स्त्या᳚नाम् ।
जी॒वो मृ॒तस्य᳚ चरति स्व॒धाभि॒रम᳚र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः ॥
▶ पदपाठः (Word-by-word)
अ॒नत् । श॒ये॒ । तु॒र॑गा᳚तु । जी॒वम् । एज᳚त् । ध्रु॒वम् । मध्ये᳚ । आ । प॒स्त्या᳚नाम् ।
जी॒वः । मृ॒तस्य᳚ । च॒र॒ति॒ । स्व॒धाभिः᳚ । अम᳚र्त्यः । मर्त्ये᳚न । स॑यो᳚निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनेनदेहस्यासारताजीवस्यनित्यत्वंचप्रतिपाद्यते इदंशरीरंजीवावस्थायां अनत् प्राणनं कुर्वत् जीवंजीवनवत् तुरगातुस्वव्यापारायतूर्णगमनंसत् एजत् कंपमानंसत् शयेशेतेवर्तते पश्चात्प्राणाप- गमनानन्तरं उक्तविलक्षणंसत् ध्रुवमविचलितंसत् पस्त्यानां गृहाणांमध्ये अथैतेष्वाशेतेच स्थाणुव- त्तिष्ठति आकारःपूरणोवा जीवस्यवैलक्षण्यमाह—मृतस्यशरीरस्य संबन्धीजीवः मर्त्येनमरणधर्मकेन शरीरेणसयोनिः पूर्वंसमानोत्पत्तिस्थानः यद्यपिजीवस्यनजन्मास्ति तथापिवपुषस्तत्सद्भावात् तत्सं- बन्धेनोपचर्यते तदेवाह—अमर्त्यः अमरणस्वभावः जीवापेतंवावकिलेदंम्रियतेइतिश्रुतेः । उक्तस्वभा- वोजीवः स्वधाभिश्चरति पुत्रैःस्वधाकारपूर्वकदत्तैरन्नैश्चरति वर्ततइत्यर्थः ॥ ३० ॥ प्रवर्ग्येभिष्टवे अपश्यंगोपामित्येकाविनियुक्ता सूत्रितंच—अपश्यंगोपामनिपद्यमानं स्रक्वेद्रप्सस्ये- ति ।

1.164.31 समानपद
अप᳚श्यं गो॒पामनि᳚पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् ।
स स॒ध्रीची॒ः स विषू᳚ची॒र्वसा᳚न॒ आ व᳚रीवर्ति॒ भुव᳚नेष्व॒न्तः ॥
▶ पदपाठः (Word-by-word)
अप᳚श्यम् । गो॒पाम् । अनि᳚॑पद्यमानम् । आ । च॒ । परा᳚ । च॒ । प॒थि॑भिः᳚ । चर᳚न्तम् ।
सः । स॒ध्रीचीः᳚ । सः । विषू᳚चीः । वसा᳚नः । आ । व॒री॒व॒र्ति॒ । भुव᳚नेषु । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहंगोपां सर्वस्यलोकस्य वृष्टिप्रकाशादिनागोपायितारं अनिपद्यमानं कदाचिकप्यविषण्णं तथा- पथिभिः विचित्रैः मार्गैरन्तरिक्षरूपैराचरन्तंच पराचरन्तंच उदयप्रभृत्यामध्याह्नमागच्छन्तं मध्या- ह्नप्रभृत्यासायंपराङ्मुखंगच्छन्तं एवंमहानुभावमादित्यं अपश्यं याथात्म्येनपश्येयं किञ्च सआदित्यः सध्रीचीः सहाञ्चतीः विषूचीः विष्वगञ्चतीः रात्रावपि चन्द्रभौमादित्यानां प्रकाशयित्रीः त्विषोवसा- नः आच्छादयन् भुवनेषु भुवनैकदेशेषु लंकादिप्रदेशेषु अन्तर्मध्ये आवरीवर्ति उदयास्तमयंकुर्वन् पुनः पुनरावर्तते तमपश्यमित्यर्थः एषवैगोपाएषहीदंसर्वंगोपायतीत्याद्यस्मद्ब्राह्मणम् । अपश्यंगोपामि- त्याह असौवाआदित्योगोपाः सहीमाःप्रजागोपायतीत्यादितैत्तिरीयकंवाद्रष्टव्यम् ॥ ३१ ॥

1.164.32
य ईं᳚ च॒कार॒ न सो अ॒स्य वे᳚द॒ य ईं᳚ द॒दर्श॒ हिरु॒गिन्नु तस्मा᳚त् ।
स मा॒तुर्योना॒ परि᳚वीतो अ॒न्तर्ब᳚हुप्र॒जा निरृ᳚ति॒मा वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
यः । ई॒म् । च॒कार᳚ । न । सः । अ॒स्य । वे॒द॒ । यः । ई॒म् । द॒दर्श᳚ । हिरु᳚क् । इत् । नु । तस्मा᳚त् ।
सः । मा॒तुः । योना᳚ । परि᳚॑वीतः । अ॒न्तः । ब॒हु॒॑प्र॒जाः । निः॑ऋ᳚तिम् । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रगर्भवासक्लेश्पूर्वकजननप्रतिपादनेनतत्परिहारायात्माज्ञातव्यइत्यर्थात्प्रतिपाद्यते यः पुमान् पुत्रार्थीईंएनंगर्भंचकारकरोति विक्षिपतिवा तत्कारणभूतस्यरेतसोविक्षेपद्वारेण नसपुमानस्यतत्त्वंवेद कर्मणिषष्ठीवा एनंगर्भंनजानाति कथंभूतः कथंवाकेनप्रयोजनेनेति सर्वात्मनानजानातीत्यर्थः यश्चमा- तुरुदरस्थंददर्श उदरवृद्ध्यन्यथानुत्पत्त्यानुमानेनवादर्शयति सतस्माद्द्रष्टुःसकाशात् सहिरुगिन्नुहि रु- गित्यन्तर्हितनाम इच्छब्दएवकारार्थः नुनिश्चये अत्यन्तमन्तर्हितएवखलु यद्वा यःसंसारावस्थायांईं- एनं कृषिवाणिज्यवेदाध्ययनादिकंचकार सोस्यएतन्नवेद लोकान्तरे जन्मान्तरेवा तथा यईंएनंददर्श गिरिनदीसमुद्रबन्ध्वादिकंददर्शजीवसमये तस्माद्दृष्टाद्धिरुगिन्नुप्रुथगेवअत्रानुभूतंसर्वंनजन्मान्तरे लो- कान्तरेवानुभवतीत्यर्थः सतादृशोमातुर्जनन्याः योना योनौ अन्तःपरिवीतः उल्बजरायुभ्यांपरितोवे- ष्टितःसन् बहुप्रजाः बहुजन्मभाक् अथवा उत्पन्नःसन् स्वयमप्यपत्योत्पादनेनबहुप्रजाः निरृतिमावि- वेश एवंगर्भदुःखमनुभवन् निरृत्यभिधानंप्रदुःखमनुभवति यावत्स्वरूपभूतात्मज्ञानं अतस्तप्तरिहारा- यात्माज्ञातव्यइत्युक्तंभवति एवमात्मविदामभिप्रेतोऽर्थः । नैरुक्तानांतुमते—यईंचकारमध्यस्थानो- वायुर्मेघोवाएतद्वृष्ट्युदकंकरोति सोस्यतत्त्वमितिशेषः । अथवाएतत्कर्मनजानातितयोरचेतनत्वा- दितिभावः यस्तुईंएतद्ददर्श पश्यति तस्मादपिहिरुक् अन्तर्हितःप्राणिकर्मवशेनकालेवर्षितापरमेश्वर- आदित्यात्मनिगूढइत्यार्थः यईंहिरुक् अन्तर्हितंईमेतद्ददर्शपश्यति सवृष्टिलक्षणः पुत्रोमातुर्मिमातुरन्त- रिक्षस्ययोनौ योनिवदुत्पत्त्याधारभूतेन्तरिक्षेउभयोरप्यन्तरिक्षनामत्वात् सामान्यविशेषभावोद्रष्टव्यः अन्तरिक्षैकदेशेयोन्यामन्तर्मध्येबहुप्रजाः बहुप्रजातान्नः बहुप्राअण्युपकारी अथवाजनिरत्रान्तर्भावित- ण्यर्थः बहूनांधाराणांसस्यनिष्पादनद्वारेणप्राणिनांप्रजनयितासन् निरृतिं निरमणसाधनांभूमिमावि- वेशप्रविशतिप्राप्नोतीत्यर्थः ॥ ३२ ॥

1.164.33
द्यौर्मे᳚ पि॒ता ज᳚नि॒ता नाभि॒रत्र॒ बन्धु᳚र्मे मा॒ता पृ᳚थि॒वी म॒हीयम् ।
उ॒त्ता॒नयो᳚श्च॒म्वो॒३॒᳚र्योनि᳚र॒न्तरत्रा᳚ पि॒ता दु᳚हि॒तुर्गर्भ॒माधा᳚त् ॥
▶ पदपाठः (Word-by-word)
द्यौः । मे॒ । पि॒ता । ज॒नि॒ता । नाभिः᳚ । अत्र᳚ । बन्धुः᳚ । मे॒ । मा॒ता । पृ॒थि॒वी । म॒ही । इ॒यम् ।
उ॒त्ता॒नयोः᳚ । च॒म्वोः᳚ । योनिः᳚ । अ॒न्तः । अत्र᳚ । पि॒ता । दु॒हि॒तुः । गर्भ᳚म् । आ । अ॒धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दीर्घतमाब्रवीति मेममद्यौर्द्युलोकः पितपालकः नकेवलंपालकत्वमात्रं अपितुजनिताजनयिता उत्पादयित तत्रोपपत्तिमाह—नाभिरत्रनाभिभूतोभौमोरसोऽत्रतिष्ठतीतिशेषः ततश्चान्नंजायते अन्नाद्रेतः रेतसोमनुष्यइत्येवंपारंपर्येणजननसंबन्धिनोहेतोरसस्यात्रसद्भावात् अनेनैवाभिप्रायेणज- नितेत्युच्यते अतएवबन्धुः बन्धिका तथेयं मही महतीपृथिवीमेमाता मातृस्थानीयास्वोद्भूतौषध्या- दिनिर्मात्रीत्यर्थः किञ्च उत्तानयोः ऊर्ध्वतानयोः चम्वोः सर्वस्यअत्र्योर्भोगसाधनयोर्द्यावापृथिव्योर- न्तर्मध्ये योनिः सर्वभूतनिर्माणाश्रयमन्तरिक्षंवर्ततइतिशेषः अत्रास्मिन्नन्तरिक्षेपिता द्युलोकः अधि- ष्ठात्रधिष्ठानयोरभेदेनादित्योद्यौरुच्यते सस्वरश्मिभिः अथवाइन्द्रः पर्जन्योवादुहितुः दूरेनिहितायाः भूम्याः गर्भंसर्वोत्पादनसमर्थंवृष्ट्युदकलक्षणंआधात् सर्वतः करोति ॥ ३३ ॥ आश्वमेधिकेमध्यमेहनिब्रह्मोद्येहोत्रादयः प्रुच्छामित्वेत्यनयायजमानंपृच्छेयुः तथाचसूत्रितम्— एकैकशोयजमानंपृच्छन्ति पृच्छामित्वापरमन्तंपृथिव्याइति ।

1.164.34 समानपद
पृ॒च्छामि᳚ त्वा॒ पर॒मन्तं᳚ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव᳚नस्य॒ नाभि᳚ः ।
पृ॒च्छामि᳚ त्वा॒ वृष्णो॒ अश्व᳚स्य॒ रेतः᳚ पृ॒च्छामि᳚ वा॒चः प᳚र॒मं व्यो᳚म ॥
▶ पदपाठः (Word-by-word)
पृ॒च्छामि᳚ । त्वा॒ । पर᳚म् । अन्त᳚म् । पृ॒थि॒व्याः । पृ॒च्छामि᳚ । यत्र᳚ । भुव᳚नस्य । नाभिः᳚ ।
पृ॒च्छामि᳚ । त्वा॒ । वृष्णः᳚ । अश्व᳚स्य । रेतः᳚ । पृ॒च्छामि᳚ । वा॒चः । प॒र॒मम् । वि॑ओ᳚म ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजमान त्वात्वांपृच्छामि प्रश्नंकरोमि किं पृथिव्याः परमन्तंउत्कृष्टांकाष्ठांयत्रसर्वाप्रुथिवी समा- प्यतेतत् पृच्छामि तथात्वांअन्यत्पृच्छामि किंतदितिउच्यते—यत्रभुवनस्यभूतजातस्य नाभिः संना- होबन्धनंयत्रसर्वंसन्नद्धंभवति तमित्यर्थः किञ्च त्वात्वांवृष्णोवर्षकस्याश्वस्यव्याप्तस्यआदित्यस्य असौ- वाआदित्योवृषाश्वइतितैत्तिरीयकम् । तस्यरेतः रेतोवत्कारणं तत्किमितिपृच्छामि तथा वाचः सर्व- स्यवाग्जातस्य परमंनिरतिशयंव्योमस्थानंसर्वस्यवचसःकारणं एतत्प्रश्नचतुष्टयंपृच्छामि ॥ ३४ ॥ अथैवंपृष्टोयजमानइयंवेदिरित्यनयाप्रतिब्रूयात् इयंवेदिःपरोअन्तःपृथिव्याइतिप्रत्याहेति- सूत्रितत्वात् ।

1.164.35
इ॒यं वेदि॒ः परो॒ अन्त᳚ः पृथि॒व्या अ॒यं य॒ज्ञो भुव᳚नस्य॒ नाभि᳚ः ।
अ॒यं सोमो॒ वृष्णो॒ अश्व᳚स्य॒ रेतो᳚ ब्र॒ह्मायं वा॒चः प᳚र॒मं व्यो᳚म ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । वेदिः᳚ । परः᳚ । अन्तः᳚ । पृ॒थि॒व्याः । अ॒यम् । य॒ज्ञः । भुव᳚नस्य । नाभिः᳚ ।
अ॒यम् । सोमः᳚ । वृष्णः᳚ । अश्व᳚स्य । रेतः᳚ । ब्र॒ह्मा । अ॒यम् । वा॒चः । प॒र॒मम् । वि॑ओ᳚म ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृथिव्याः प्रथनवत्याभूम्याः परोअन्तः परमन्तंपर्यवसानमियंवेदिः नहिवेद्यतिरिक्ताभूमिरस्ति एतावतीवैपृथिवीयावतीवेदिरितिश्रुतेः । तथा अयंयज्ञोभुवनस्य भूतजातस्यनाभिः संनहनं तत्रैव- वृष्ट्यादिसर्वफलोत्पत्तेः सर्वप्राणिनांबन्धकत्वात् अथवृष्णोवर्षकस्यादित्यस्यरेतोऽयंसोमोरसात्मकः अग्नौहुतः सोमरसः आदित्यंप्राप्यवृष्ट्यादिफलंजनयति अयंब्रह्माप्रजापतिरेव वाचोमन्त्रादिरूपायाः परमंव्योमउत्कृष्टंरक्षकंस्थानंतत्रैवोत्पत्तेस्तत्रैवपर्यवसानाच्च ॥ ३५ ॥

1.164.36
स॒प्तार्ध᳚ग॒र्भा भुव᳚नस्य॒ रेतो॒ विष्णो᳚स्तिष्ठन्ति प्र॒दिशा॒ विध᳚र्मणि ।
ते धी॒तिभि॒र्मन᳚सा॒ ते वि᳚प॒श्चितः᳚ परि॒भुव॒ः परि᳚ भवन्ति वि॒श्वतः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒प्त । अ॒र्ध॒॑ग॒र्भाः । भुव᳚नस्य । रेतः᳚ । विष्णोः᳚ । ति॒ष्ठ॒न्ति॒ । प्र॒॑दिशा᳚ । वि॑ध᳚र्मणि ।
ते । धी॒ति॑भिः᳚ । मन᳚सा । ते । वि॒पः॒॑चितः᳚ । प॒रि॒॑भुवः᳚ । परि᳚ । भ॒व॒न्ति॒ । वि॒श्वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्त सर्पणस्वभावाः सप्तसंख्यावारश्मयः अर्धगर्भाः संवत्सरस्यार्धे गर्भंगर्भस्थानीयमुदकं धारय- माणाः यद्वा ब्रह्माण्डस्यार्धेमध्येन्तरिक्षे गर्भवद्वर्तमानाः भुवनस्यलोकस्यरेतः सारंवृष्टिप्रदत्वेनरेतो- भूताः तादृशारश्मयोविष्णोर्व्यापकस्यादित्यस्य विधर्मणिजगद्धारणव्यापारे प्रदिशा प्रदेशेन तिष्ठ- न्तिवर्तन्ते किञ्च तेधीतिभिः प्रज्ञाभिः मनसाजगदुपकारः कर्तव्यइतिबुद्ध्याच विश्वतः सर्वतः द्विती- यार्थेतसिः विश्वंपरिभवन्ति परितोभावयन्ति कृत्स्नंजगद्भ्याप्नुवन्तीत्यर्थः यस्मादेवंतस्मात् तेतएव- विपश्चितोबुद्धियुक्ताः परिभुवः सर्वत्रव्याप्ताश्च यद्वा सप्तार्धगर्भाः सप्त महदहंकारौपञ्चतन्मात्राणीति- मिलित्वा सप्तसंख्यानितत्त्वानि अर्धगर्भाः अविकृतिरूपाः विकाराश्र्यायाः मूलप्रकृतेःप्रकृतिविकृतेरु- दासीनस्यात्मनश्चोत्पन्नत्वादर्धांशेनप्रपञ्चाकारेणपरिणामादर्धगर्भाः पुरुषांशस्याविक्रियत्वादित्यभि- प्रायः अतएवतेषांप्रकृतिविकृतित्वं यस्मादेवंतस्माद्भुवनस्य रेतः कारणंकारणभूतानि तान्येव वि- ष्णोर्व्याप्तस्यपुरुषस्यविधर्मणिप्रदिशाप्रदेशेनतिष्ठन्ति इतरत्समानम् ॥ ३६ ॥

1.164.37
न वि जा᳚नामि॒ यदि᳚वे॒दमस्मि᳚ नि॒ण्यः संन᳚द्धो॒ मन᳚सा चरामि ।
य॒दा माग᳚न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ᳚श्नुवे भा॒गम॒स्याः ॥
▶ पदपाठः (Word-by-word)
न । वि । जा॒ना॒मि॒ । यत्॑इ᳚व । इ॒दम् । अस्मि᳚ । नि॒ण्यः । सम्॑न᳚द्धः । मन᳚सा । च॒रा॒मि॒ ।
य॒दा । मा । आ । अग᳚न् । प्र॒थ॒म॒॑जाः । ऋ॒तस्य᳚ । आत् । इत् । वा॒चः । अ॒श्नु॒वे॒ । भा॒गम् । अ॒स्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहंयदिवेदं यदपीदंविश्वं अस्मि कृत्स्नःप्रपञ्चोप्यहमेवास्मि नामरूपांशमपरमार्थंत्यक्त्वासर्वत्रा- नुगतोस्मि योयंसच्चिदानन्दाकारोऽस्ति सोहमस्मीतिनविजानामि विविच्यनाज्ञासिषं परंशास्त्रजनि- तमिदमहमस्मीतिविज्ञानंनजातं अविवेकीअहमित्यर्थः कार्यकारणयोरभेदात् कृत्स्नप्रपञ्चस्यापिब्र- ह्मानन्यत्वेन ब्रह्मैकत्वावगमे प्रपञ्चजातमपि स्वस्वरूपमेवभवति इदं सर्वं य्दयमात्मा ब्रह्मैवेदंसर्वं आत्मैवेदंसर्वं सईक्षत बहुस्यांप्रजायेयेत्यादिश्रुतिभ्यः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् तदनन्य- त्वमारंभणशब्दादिभ्यइत्याद्युपपत्तिभिश्च प्रपञ्चस्यब्रह्मानन्यत्वंसिद्धं यदा इवशब्दउपमार्थः यदिव यत्परोक्षज्ञानं सर्वैकात्म्यरूपमानुभविकमस्ति तदिवतद्वदेवाहमस्मि इदंसर्वमहमस्मीतिज्ञानंमेजातं अपित्वेतद्दार्ष्टांतिकभूतमानुभविकंसार्वात्म्यं यदस्तितन्नविजानामि नप्राप्तोस्मि शास्त्रजनितं सार्वा- त्म्यंजातं नत्वानुभविकमित्यर्थः तत्रकारणमाह—यतोऽहंनिण्यः अन्तर्हितनामैतत् अन्तर्हितः मूढचि- त्तः चित्तप्रत्यक्प्रवणाभावेनपरिच्छिन्नइत्यर्थः तत्रोपपत्तिमाह—सन्नद्धः अविद्याकामकर्मभिः सम्य- ग्बद्धोवेष्टितः अतएवमनसायुक्तः भावनासहिष्णुनाबहिर्मुखेन विक्षिप्तेनचेतसायुक्तः संचरामिसंसारे अथवा मनसासन्नद्धः चरामिइन्द्रियपरवशएवसन् संसारेदुःखमनुभवामि नसार्वात्म्यंजानामीतिप- रिदेवते यास्कोपीमंपरिदेवनार्थत्वेनोदाजहार—अथापिपरिदेवनाकस्माच्चिद्भावात् नविजानामिय- दिवेदमस्मीति बहिर्मुखचेतसःस्वरूपापरिज्ञानजनितंदुःखमन्यत्रश्रूयते पराक् विश्वानिव्यवृणत् स्वयंभूस्तस्मात्पराक् पश्यतिनान्तरात्मन्निति । तर्हिकदैतद्भवतीत्याह—यदामाआगन् आगमिष्यति तदाकिंतदितिउच्यते ऋतस्य परमार्थस्य परस्यब्रह्मणः प्रथमजाः प्रथमोत्पन्नः चित्तप्रत्यक्प्रवणजनि- तोनुभावः सयदामामांप्राप्नोति आदित् अनन्तरमेवअव्यवधानेन अस्यावाचः ऎकत्म्यप्रतिपादिकाया- उपनिषद्वाचः यदिवेदमस्मीत्युक्तायावाभागंभजनीयं शब्दब्रह्मणाव्याप्तव्यंपरंब्रह्मपदं अश्नुवे प्राप्नोमि चित्तस्यबहिर्मुखतां परित्यज्यन्तर्मुखतैवदुःसंपादा सायदास्यात् तदानीमेवस्वरूपं द्रष्टुं सुशकंभवति पश्चाद्विलंबाभावात् यथागिरिशिखरात्पतन् पाषाणोऽविलंबेनपतति तद्वच्चित्तप्रत्यङ्मुखत्वस्यदुःश- कत्वमिति तत्रैवश्रूयते कश्चिद्धीरः प्रत्यगात्मानमैच्छदावृतचक्षुरमृतत्वमिच्छन्निति ॥ ३७ ॥

1.164.38
अपा॒ङ्प्राङे᳚ति स्व॒धया᳚ गृभी॒तो॑म᳚र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः ।
ता शश्व᳚न्ता विषू॒चीना᳚ वि॒यन्ता॒ न्य१॒᳚न्यं चि॒क्युर्न नि चि᳚क्युर॒न्यम् ॥
▶ पदपाठः (Word-by-word)
अपा᳚ङ् । प्राङ् । ए॒ति॒ । स्व॒धया᳚ । गृ॒भी॒तः । अम᳚र्त्यः । मर्त्ये᳚न । स॑यो᳚निः ।
ता । शश्व᳚न्ता । वि॒षू॒चीना᳚ । वि॒॑यन्ता᳚ । नि । अ॒न्यम् । चि॒क्युः । न । नि । चि॒क्युः॒ । अ॒न्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमर्त्यः अमरणधर्मायमात्मा मर्त्येनमनणधर्मणाभूतात्मनादेहेनसयोनिः समानस्थानत्रयपरि- च्छेदकोदेहोऽस्ति तत्रसर्वत्रसोयमपितिष्ठन्नित्यर्थः यद्वा ससमानोत्पत्तिः सहवासेनस्वस्मिन्नुत्पत्ति- रुपचर्यते एवंभूतःसन् स्वधयाअन्नोपलक्षिततत्तद्भोगेनगृभीतः यद्वा स्वधाशब्देनान्नमयं शरीरंलक्ष्य- ते तेनगृहीतःसन्नपाङेति अशुक्लंकर्मकृत्वाधोगच्छति प्राङेति ऊर्ध्वंस्वर्गादिलोकंप्राप्नोति परमात्मै- वसूक्ष्मशरीरोपाधिकःसन् नानाविधंकर्मकृत्वातद्भोगायजीवसंज्ञांलब्ध्वाशरीरत्रयेणसंबद्धोलोकान्त- रेषुसंचरति स्थूलसूक्ष्मोभयशरीरपरिग्रहेण लोकेगुणत्रयान्वितःसन् परिभ्रमति तथाचश्रूयते—गुणा- न्वयोयः फलकर्मकर्ताकृतस्यतस्यैवसचोपभोक्ता । सविश्वरूपस्त्रिगुणस्त्रिवर्त्माप्राणाधिपःसंचरतिस्व- कर्मभिरिति । इदानीमुभयप्राधान्येनाह ते तौभूतात्मकर्त्रात्मानौ शश्वन्ता अविभागेनसर्वदावर्तमानौ यद्वा सूक्ष्मशरीरपक्षेसर्वदासहवासौपपद्यते विषूचीनाइहलोके सर्वत्र गमनौ वियन्ता तत्तत्फलोपभो- गायसर्वत्रलोकान्तरेषुगच्छन्तौवर्तेते तत्रनराः अन्यंभूतात्मनं निचिक्युः नितरांविशेषेणपश्यन्तिजा- नन्ति अन्यमपरं देहवच्छायातिरिक्तं ननिचिक्युः नजानन्ति केचनपामरादेहव्यतिरिक्तंनजानन्ति के- चनविवेकिनः कर्तृभोक्तृत्वोपेतोदेहातिरिक्तः कश्चिदस्तीत्यनुमिमते नकेपिदेहत्रयव्यतिरिक्तमात्मानं- जानन्ति अतोदुर्लभमात्मज्ञानमित्यर्थः ॥ ३८ ॥

1.164.39
ऋ॒चो अ॒क्षरे᳚ पर॒मे व्यो᳚म॒न्यस्मि᳚न्दे॒वा अधि॒ विश्वे᳚ निषे॒दुः ।
यस्तन्न वेद॒ किमृ॒चा क᳚रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा᳚सते ॥
▶ पदपाठः (Word-by-word)
ऋ॒चः । अ॒क्षरे᳚ । प॒र॒मे । वि॑ओ᳚मन् । यस्मि᳚न् । दे॒वाः । अधि᳚ । विश्वे᳚ । नि॒॑से॒दुः ।
यः । तत् । न । वेद᳚ । किम् । ऋ॒चा । क॒रि॒ष्य॒ति॒ । ये । इत् । तत् । वि॒दुः । ते । इ॒मे । सम् । आ॒स॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वमन्त्रेदेहात्मजीवात्मानावुक्तौ तयोरन्यस्यजीवात्मनः पारमार्थिकंरूपंयदस्ति तदत्रोच्यते—ऋचोअक्षरे अत्रऋक् शब्देन ऋक्प्रधानभूताः सांगापरविद्यात्मकाश्चत्वारोवेदाउच्यन्ते ऋगादानाम- परविद्यात्वंमुण्डकेश्रूयते—द्वेविद्येवेदितव्येइतिप्रतिज्ञाय तत्रापरा ऋग्वेदायजुर्वेदःसामवेदइत्यादि- ना तस्याःसंबन्धिन्यक्षरे अदृश्यादिगुणके क्षरणरहिते आनश्वरे नित्येसर्वत्रव्याप्तेब्रह्मणिअक्षारशब्द- स्यब्रह्मवाचकत्वं एतद्वैतदक्षरस्यप्रशासनेगार्गिययातदक्षरमधिगम्यते येनाक्षरंपुरुषंवेदसत्यमित्या- दिश्रुतिषुप्रसिद्धं ऋगक्षारयोःप्रतिपाद्यप्रतिपादकभावःसंबन्धः सर्वैःवेदैःखलुब्रह्माधिगम्यते तंत्वौप- निषदंपुरुषंपृच्छामि इत्यदिश्रुतेः । ननूपनिषद्भागानांतथास्तु इतरेषांतु कथं ब्रह्मविषयत्वमिति उच्यते—यद्यपीतरभागानां यागादिविषयत्वं तथापि बुद्धिशुद्ध्युत्पादनद्वारावेदनसाधनत्वेनब्रह्म- विषयाभविष्यन्ति तमेतंवेदानुवचनेनब्राह्मणाविविदिषन्तीत्यादिश्रुतेः । तदेवविशेष्यते परमेउ- त्कृष्टेनिरतिशयेव्योमन् व्योमनि व्योमसदृशे अलेपत्वनीरूपत्वव्यापित्वादिसादृश्येनव्योमेत्युक्तं यद्वा विशेषेणसर्वस्यरक्षके निरधिष्ठानःभ्रमः कस्यचिदस्तिसाध्यस्तस्यसर्वस्याधिष्ठानत्वेनाक्षकत्वात्तादृशे- तत्त्वेसर्वमध्यस्तमित्यर्थः पुनस्तदेवविशेष्यते यस्मिन्परमात्मनिविश्वेसर्वेदेवाअधिनिषेदुः निषीदन्ति आश्रित्यतिष्ठन्ति तस्मिन् यद्वा उक्तलक्षणेवस्तुनि ऋगुपलक्षिताःसर्वेसांगावेदाः पर्यवसिताइत्यर्थः यः योमर्त्यः तत्तादृशंदेवादीनांस्वरूपलाभास्पदं क्रुत्स्नंवेदैस्तात्पर्यंप्रतिपाद्यं यद्वस्तुनवेद नजानाति सम- र्त्यः ऋचापूर्वोक्तेनऋगादिशब्दजालेनकिंकरिष्यति वेदनसाधानेनवेदेनवेद्यमविदित्वाकिंसाधयती- त्यर्थः प्रयोजनाभावात् सर्वस्यापिवेदस्यवैफल्यादितिभावः अथवायोऽक्षरमविदित्वाकर्मणांकर्ताभव- ति यागादीननुतिष्ठति तेनकिंचिदपि कर्मकृतंनभवतीत्यर्थः येइत् येएवतत्तत्त्वंविदुर्जानन्ति तइमेस- मासते तएवेमेज्ञातारः समासतेसम्यक् तिष्ठन्ति अपुनरावृत्त्यास्वस्वरूपेवस्थानंसमासनं यद्वा येवि- दुरित् येजानंत्येव नानुतिष्ठन्ति इच्छब्दोवधारणे तइमे तएवसमासते गवामयनादिसहस्रसंवत्सरस- त्रपर्यन्तानि सहोपयन्ति सहार्थेसमशब्दः सत्रादधिकानांयागानामभावात् तेषामपिफलमेतज्ज्ञानेनै- वप्राप्तंभवतीत्यर्थः कर्तॄणांबहुत्वाद्बहुवचननिर्देशः अन्येत्वन्यथावर्णयन्ति ऋचः ऋगर्चनीयआदित्यः आदित्यमण्डलंऋगादिमयंवा ऋग्भिः पूर्वाह्णेदिविदेवः आदित्योवाएषएतन्मण्डलंतपति तत्रताऋच- इत्यादिश्रुतेः । तस्यसंबन्धिनि अक्षरेपरमेव्योमन्निति उक्तलक्षणेब्रह्मणि यएषोन्तरादित्येहिरण्मयः पुरुषोदृश्यतइत्यादिश्रुत्युक्तस्वरूपे यस्मिन्सर्वेदेवाद्योतमानारश्मयोनिषेदुः वर्तन्ते यएवन्नवेद सकेव- लयाऋचाकिंकरिष्यति येजानन्तिभावयन्ति तएवविद्वांसःसमासते भूम्यांसुखेनरोगादिरहिताः भो- गिनः सन्तः चिरकालं जीवन्ति । अपरेप्रकारान्तरेणप्रतिपादयन्ति क्रचोअक्षरेऋगुपलक्षितसर्ववेदसं- बन्धिन्यक्षरेप्रणवरूपेओंकारे अविनाशिनिसर्ववेदेषुव्याप्तेवा प्रणवस्यसर्ववेदसारत्वंब्राह्मणेश्रूयते-ता- न्वेदानभ्यतपत्तेभ्योभितप्तेभ्यस्त्रयोवर्णाअजायन्ताकारउकारोमकारइतितानेकधासमभरत् तदेतदो- ३मितीति । परमेनिरतिश्ये नहिप्रणवादधिकंकिंचिन्मन्त्रा स्ति त्रिकालातीतस्यब्रह्मणः प्रतिपाद- कत्वात् यच्चान्यन्त्रिकालातीतंतदप्योंकारएव ओमितिब्रह्मेत्यादिश्रुतेः । वेदानांप्रणवस्यस्थानप्रतिनि- धिभावःसंबन्धः यऋचोधीतेइत्याद्युपक्रम्य यःप्रणवमधीते समर्वमधीते ओमितिप्रतिपद्यते एतद्वैय- जुस्त्रयींविद्यांप्रत्येषावागेतत्परममक्षरमित्यादिश्रुतेः । यस्मिन्विश्वेसर्वेदेवाअधिनिषेदुः प्रणवत्यसर्व- मन्त्रात्मकत्वात् मन्त्रेषुसर्वदेवतानांनिवासात् सर्वदेवनिवासत्वं ब्रह्माधिष्ठानत्वाद्वाब्रह्मणि सर्वदेवा- नांनिवासात् शिष्टमविशिष्टम् । अयंमन्त्रोनिरुक्तेव्याख्यातः—अपरेत्वन्यथावर्णयन्ति ऋचः ऋगर्च- नीयोजीवः तस्यसंबन्धिनिअक्षरेअविनाशेव्याप्तेवापरमात्मनीत्यर्थः अतएवजीवापेक्षयापरमेउत्कृष्टे- निरुपाधिकेव्योमन् विशेशेणस्र्वाधिष्ठानत्वेनरक्षकेव्योमसदृशेवायस्मिन्परमात्मनि देवागमनवन्तो- व्यवहरन्तोवाइन्द्रियसंज्ञकाविश्वेसर्वेपि अधिनिषेदुः निषीदन्ति आश्रित्यवर्तन्ते यस्तन्न्वेदनजानाति उपाध्यंशपरित्यागेनतदेवस्वरूपमितिनपश्यतिस्थूलोजनः किमृचा करिष्यति केवलेनजीवेन जीव- भावेन किंफलंप्राप्स्यति जननमरणादिक्लेशस्यात्यागादितिभावः यइत् तद्विदुस्तइत्यादिसिद्धम् ॥ ३९ ॥ अग्निहोत्रार्थाधेनुर्यदिकुत्सितंशब्दंकुर्यात् तदानींसूयवसादित्यनयायवसादिकंप्रयच्छेत् तथाच- सूत्रितम्—वाश्यमानायैयवसंप्रयच्छेतत्सूयवसाद्भगवतीहिभूयाइति । प्रवर्ग्येभिष्टवेएषैवपरिधानी- या सूत्रितंच—सूयवसाद्भगवतीहिभूयाइतिपरिदध्यादिति ।

1.164.40 समानपद
सू॒य॒व॒साद्भग᳚वती॒ हि भू॒या अथो᳚ व॒यं भग᳚वन्तः स्याम ।
अ॒द्धि तृण᳚मघ्न्ये विश्व॒दानीं॒ पिब᳚ शु॒द्धमु᳚द॒कमा॒चर᳚न्ती ॥
▶ पदपाठः (Word-by-word)
सु॒य॒व॒स॒॑अत् । भग᳚॑वती । हि । भू॒याः । अथो॒ इति᳚ । व॒यम् । भग᳚॑वन्तः । स्या॒म॒ ।
अ॒द्धि । तृण᳚म् । अ॒घ्न्ये॒ । वि॒श्व॒॑दानी᳚म् । पिब᳚ । शु॒द्धम् । उ॒द॒कम् । आ॒॑चर᳚न्ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअघ्न्ये गोनामैतत् अहननीयेहेगौस्त्वं सूयवसात् शोभनयवसस्यतृणादिकस्यान्त्रीषती भगवती भगइतिधननाम सर्वैर्भजनीयप्रभूतक्षीरादिधनवती भूयाः भव हिःपूरणःप्रसिद्धौवा लोकेयवसादिभ- क्षणेन क्षीरादिसमृद्धिःप्रसिद्धा अथोअनन्तरमेव वयं यजमानाअपिभगवन्तः प्रभूतेनधनेनतद्वन्तः स्याम अथैकवारंपूर्वमुक्तं इदानीं सर्वदकर्तव्यमितिप्रार्थयते विश्वदानीं विश्वकालंसर्वदा तृणमद्धिभ- क्षय आचरन्ती सर्वतोनिर्गच्छन्ती शुद्धंनिर्मलमुदकंपिब । अयंमन्त्रोयास्केनैवंव्याख्यातः—सुयवसा- दिनीभगवतीहिभवाथेदानींवयंभगवन्तः स्यामाद्धितृणमघ्न्येसर्वदापिबचशुद्धमुदकमाचरन्तीति ॥ ४० ॥

1.164.41
गौ॒रीर्मि᳚माय सलि॒लानि॒ तक्ष॒त्येक᳚पदी द्वि॒पदी॒ सा चतु᳚ष्पदी ।
अ॒ष्टाप᳚दी॒ नव᳚पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन् ॥
▶ पदपाठः (Word-by-word)
गौ॒रीः । मि॒मा॒य॒ । स॒लि॒लानि᳚ । तक्ष᳚ती । एक᳚॑पदी । द्वि॒॑पदी᳚ । सा । चतुः᳚॑पदी ।
अ॒ष्टा॑प᳚दी । नव᳚॑पदी । ब॒भू॒वुषी᳚ । स॒हस्र᳚॑अक्षरा । प॒र॒मे । वि॑ओ᳚मन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गौरीः गरणशीलमाध्यमिकावाक् सुलोपाभावश्छान्दसः मिमायशब्दयति किंकुर्वती सलिलानि वृष्ट्युदकानि तक्षती संपादयित्री एकपदीएकपादोपेता एकाधिष्ठानामेघेवर्तमाना गमनसाधनेनवा- युना एकपदीवा द्विपदी मेघान्तरिक्षाख्ये द्भ्यधिष्ठाना आदित्योवाद्वितीयः तथा सा चतुष्पदी पादच- तुष्टयोपेता दिक् चतुष्टयाधिष्टाना अथाष्टापदी अवान्तरदिगपेक्षयाष्टपादोपेता अष्टाधिष्ठाना नवपदी उपरिदिगपेक्षयासूर्येणवा नवदिगधिष्ठानाबभूवुषी एवंभूता भवतेश्छान्दसःक्वसुः ततोङीपिवसोःसंप्र- सारणं किमनयापरिगणनया सहस्राक्षरा अपरिमितवचनोयं अपरिमितव्याप्तियुक्ता बहुव्यापनशी- लोदकवतीत्यर्थः कुत्रेतितदुच्यते—परमेव्योमन् उदकाश्रयत्वेनोत्कृष्टेन्तरिक्षे केचिदेवमाहुः गौरीः गरणशीलाशब्दब्रह्मात्मिकावाक् मिमाय मिमतिःप्रतिष्ठार्थेधातुः प्रतिष्ठितानि घटादिद्रव्याणि तक्ष- ती तत्तद्वाचकत्वेननिष्पादयन्ती एकपदी अव्याकृतत्वेनैकप्रतिष्ठाना एकरूपावा प्रणवात्म्नाद्विपदी सुप् तिङ्भेदेन पादद्वयवती चतुष्पदी नामाख्यातोपसर्गनिपातभेदेन । अष्टापदी आमन्त्रितसहिता- ष्टविभक्तिभेदेनाष्टापदी नवपदी बभूवुषी साव्यंयैरुक्तैरष्टभिर्नवपदी अथवा सनाभिकेषूरःकण्ठादि- पुनवसुपदेषुभवन्ती पश्चाद्बहुविधाभिव्यक्तिमुपेयुषी परमेव्योमन् उत्कृष्टहृदयाकाशे मूलाधारेवास- हस्राक्षरा अनेकाकारेण व्याप्ता अनेकध्वनिप्रकाराभवतीत्यर्थः । अयंमन्त्रः आचार्येणैवंव्याख्यातः— गौरीर्मिमायसलिलानितक्षतीकुर्वत्येकपदीमध्यमेनद्विपदीमध्यमेनचादित्येनचचतुष्पदीदिग्भिरष्टा- पदीदिग्भिश्चावान्तरदिग्भिश्चनवपदीदिग्भिश्चावान्तरदिग्भिश्चादित्येनचसहस्राक्षराबहूदकापरमेव्य- वनेइति ॥ ४१ ॥

1.164.42
तस्या᳚ः समु॒द्रा अधि॒ वि क्ष᳚रन्ति॒ तेन᳚ जीवन्ति प्र॒दिश॒श्चत᳚स्रः ।
ततः᳚ क्षरत्य॒क्षरं॒ तद्विश्व॒मुप᳚ जीवति ॥
▶ पदपाठः (Word-by-word)
तस्याः᳚ । स॒मु॒द्राः । अधि᳚ । वि । क्ष॒र॒न्ति॒ । तेन᳚ । जी॒व॒न्ति॒ । प्र॒॑दिशः᳚ । चत᳚स्रः ।
ततः᳚ । क्ष॒र॒ति॒ । अ॒क्षर᳚म् । तत् । विश्व᳚म् । उप᳚ । जी॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्याः उक्तायाःगोःसकाशात्समुद्राः वृष्ट्युदकसमुन्दनाधिकरणभूतामेघाअधिअधिकं प्रभूतमुद- कंविक्षरन्ति विविधंक्षरन्ति तेनोदकेनप्रदिशश्चतस्रः प्रशब्दोवीत्यर्थे विदिशश्चतस्रोदिशश्च अथवा प्रकृष्टादिशोमुख्याश्चतस्रः तत्स्थेषुताच्छब्द्यं तत्सथाः पुरुषाजीवन्ति ततः पश्चात्तदक्षरमुदकंक्षरति सस्यादिकमुत्पादयतीत्यर्थः तत्सस्यादिकंविश्वंजगदुपजीवति । अयमपियास्केन व्याख्यातः—तस्याः समुद्राअधिविक्षरन्तिवर्षन्तिमेघास्तेनजीवन्तिदिगाश्रयाणिभूतानिततः क्षरत्यक्षरमुदकंतत्सर्वाणि भूतान्युपजीव्न्तीति ॥ ४२ ॥

1.164.43 समानपद
श॒क॒मयं᳚ धू॒ममा॒राद᳚पश्यं विषू॒वता᳚ प॒र ए॒नाव᳚रेण ।
उ॒क्षाणं॒ पृश्नि᳚मपचन्त वी॒रास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ॥
▶ पदपाठः (Word-by-word)
श॒क॒॑मय᳚म् । धू॒मम् । आ॒रात् । अ॒प॒श्य॒म् । वि॒षु॒॑वता᳚ । प॒रः । ए॒ना । अव᳚रेण ।
उ॒क्षाण᳚म् । पृश्नि᳚म् । अ॒प॒च॒न्त॒ । वी॒राः । तानि᳚ । धर्मा᳚णि । प्र॒थ॒मानि᳚ । आ॒स॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्कमयंशकृन्मयंशुष्कगोमयसंभूतंधूमंआरात् नातिदूरेअपश्यंदृष्टवानस्मि दिवाधूमस्य दूरेदृश्यमा- नत्वात् सएवदर्शनविषयतयोक्तः विषूवताव्याप्तिमताएनाअनेनअवरेणनिकृष्टेनधूमेन परः परस्तात् तत्कारणभूतमयमग्निमपश्यं अहंयजमानइत्यर्थः किञ्च उक्षाणंफलस्यसेक्तारं पृश्निंशुक्लवर्णं पाश्नुतेते- नफलमितिस्वयंप्राश्नुतइतिवापृश्निर्वल्लीरूपः सोमः तंवीराः विविधेरणकुशलाऋत्विजः अपचन्त अत्रधात्वर्थानादरेणतिङ्प्रत्ययः करोत्यर्थः सचक्रियासामान्यवचनःअत्रौचित्यादभिषवेणसंपादितव- न्तइत्यर्थः तानिनत्साधनानिधर्मान्यनुष्ठानानि प्रथमानिप्रतमानि प्रकृष्टानि फलपर्यवसानीयानि आ- सन् संपादितान्यभवन् यद्वा सोमउक्षाऽभवत्पूर्वंतंदेवाःशकृतापचन् । यज्ञार्थंतद्भवोधमोमेघआसीत्त- दुच्यते । तत्परत्वेनवामन्त्रोव्याख्येयोयंविचक्षणैः ॥ ४३ ॥

1.164.44
त्रयः᳚ के॒शिन᳚ ऋतु॒था वि च᳚क्षते संवत्स॒रे व᳚पत॒ एक᳚ एषाम् ।
विश्व॒मेको᳚ अ॒भि च᳚ष्टे॒ शची᳚भि॒र्ध्राजि॒रेक᳚स्य ददृशे॒ न रू॒पम् ॥
▶ पदपाठः (Word-by-word)
त्रयः᳚ । के॒शिनः᳚ । ऋ॒तु॒॑था । वि । च॒क्ष॒ते॒ । सं॒व॒त्स॒रे । व॒प॒ते॒ । एकः᳚ । ए॒षा॒म् ।
विश्व᳚म् । एकः᳚ । अ॒भि । च॒ष्टे॒ । शची᳚भिः । ध्राजिः᳚ । एक᳚स्य । द॒दृ॒शे॒ । न । रू॒पम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

केशस्थानीयप्रकृष्टरश्मियुक्तास्त्रयोऽग्न्यादित्यवायवः तेच ऋतुथाऋतुकालेविचक्षते विविधलक्ष- णांभूमिं पश्यन्ति तेषांपृथक्पृथक्कार्यमाह एषांमध्येएकोऽग्निः संवत्सरेतीतेसति वपते दाहेन केश- स्थानीयौषधिवनस्पत्यादिकच्छेदनेननापितत्कार्यंकरोति एकः अन्य आदित्योविश्वंसर्वंजगत् श- चीभिः स्वकीयैःप्रकाशवृष्ट्यादिकर्मभिरभिचष्टेसर्वतः पश्यति एकस्यवायोः ध्राजिर्गतिर्दद्रुशेदृश्य- तेसर्वैः नरूपं अप्रत्यक्षत्वात्स्पर्शशब्दधृतिकंपलिंगैर्गम्यतइतिहिन्यायविदोवदन्ति अयमपिमन्त्रो- यास्केनैवंव्याख्यातः—त्रयःकेशिनऋतुथाविचक्षतेकालेकालेभिविपश्यन्ति संवत्सरेवपतएकएषा- मित्यग्निःपृथिवींदहतिसर्वमेकोभिविपश्यतिकर्मभिरादित्योगतिरेकस्यद्रुश्यतेनरूपमिति ॥ ४४ ॥ वाग् दैवतेपशौचत्वारिवागितिहविषोऽनुवाक्या चत्वारिवाक्परिमितापदानियज्ञेनवाचः पद- वीयमायन्नितिसूत्रितत्वात् ।

1.164.45 समानपद
च॒त्वारि॒ वाक्परि᳚मिता प॒दानि॒ तानि᳚ विदुर्ब्राह्म॒णा ये म᳚नी॒षिणः᳚ ।
गुहा॒ त्रीणि॒ निहि᳚ता॒ नेङ्ग᳚यन्ति तु॒रीयं᳚ वा॒चो म᳚नु॒ष्या᳚ वदन्ति ॥
▶ पदपाठः (Word-by-word)
च॒त्वारि᳚ । वाक् । परि᳚॑मिता । प॒दानि᳚ । तानि᳚ । वि॒दुः॒ । ब्रा॒ह्म॒णाः । ये । म॒नी॒षिणः᳚ ।
गुहा᳚ । त्रीणि᳚ । नि॑हि᳚ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय᳚म् । वा॒चः । म॒नु॒ष्याः᳚ । व॒द॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाक् वाचःक्रुत्स्नायाः पदानि चत्वारिपरिमिता परिमितानि लोकेयावागस्तिसाचतुर्धाविभक्ते- त्यर्थः तानिपदानिब्राह्मणावेदविदः मनीषिणोमनसईषिणोमेधाविनोविदुर्जानन्ति तेषांमध्येत्रीणिगु- हागुहायांनिहितास्थापितानिर्नेगयन्तिनचेष्टन्ते नप्रकाशन्तइत्यर्थः वाचस्तुरीयं पदंमनुष्याअज्ञास्त- ज्ज्ञाश्चवदन्ति व्यक्तमुच्चारयन्ति व्यवहरन्ति कानितानिचत्वारीति अन्त्रबहवः स्वस्वमतानुरोधेनब- हुधावर्णयन्ति सर्ववैदिकवाग्जालस्यसंग्रहरूपाभूरादयस्तिस्रोव्याहृतयः प्रणवएकइति वेदत्रयसार- त्वात्तासांव्याहृतीनमेवसारसंग्रहभूतत्वादकाराद्यात्मकस्यप्रणवस्य इतिसप्रणवासुव्याहृतिषु सर्वा- वाक्परिमितेतिकेचनवेदवादिनोवदन्ति । अपरेव्याकरणमतानुसारिणोनामाख्यातोपसर्गनिपातभेदे-न क्रियाप्रधानमाख्यातं द्रव्यप्रधानंनाम प्रागुपसृज्यतेआख्यातपदस्येत्युपसर्गःप्रादिः उच्चावचेष्वर्थेषु- निपतनान्निपातःअपितुचेत्यादिः एतेष्वेवसर्वावाक्परिमितेति अखण्डायाःकृत्स्नायावाचः चतुर्धाव्या- कृतत्वात् वाग्वैपराच्यव्याकृतावदत् तामिन्द्रोमध्यतोवक्रम्यव्याकरोत्तस्मादियंव्याकृतावागुद्यतइति- श्रुतेः । अन्येतुयाज्ञिकाः मन्त्रःकल्पोब्राह्मणंचतुर्धालौकिकीति याज्ञिकैः समाम्नातोनुष्ठेयार्थप्रकाशको- वेदभागोब्राह्मणम् । भोगविषयागामानयेत्यादिरूपाव्यावहारिकी एष्वेवसर्वावाङ्गियमितेतियाज्ञि- काः । ऋग्यजुःसामानिचतुर्थीव्यावहारिकीतिनैरुक्ताः । सर्पाणांवाग्वयसांक्षुद्रस्यसरीस्रुपस्यचचतु- र्थीव्यावहारिकीत्यैतिहासिकाः । पशुषुतूणवेषुम्रुगेष्वात्मनिचेत्यात्मवादिनः अपरेमान्त्रिकाः प्रकारा- न्तरेणप्रतिपादयन्ति परापश्यन्तीमध्यमावैखरीतिचत्वारीति एकैवनादात्मिकावाक् मूलाधारात् उ- दितासतीपरेत्युच्यते नदस्यचसूक्ष्मत्वेनदुर्निरूपत्वात्सैवहृदयगामिनीपश्यन्तीत्युच्यते योगिभिर्द्रष्टुंश- क्यत्वात् सैवबुद्धिंगताविवक्षांप्राप्तामध्यमेत्युच्यते मध्येहृदयाख्येउदीयमानत्वान्मध्यमा अथयदासै- ववक्रेस्थिताताल्वोष्ठादिव्यापारेणबहिर्निगच्छतितदावैखरीत्युच्यते एवंचत्वारिवाचःपदानिपरिमि- तानि मनीषिणोमनसः स्वामिनः स्वाधीनमनस्काब्राह्मणावाच्यस्यशब्दब्रह्मणः अधिगंतारोयोगिनः परादिचत्वारिपदानिविदुजानन्ति तेषुमध्येत्रीणिपरादीनि गुहागुहायांनिहिता निहितानि हृदयेहृद- यान्तर्वर्तित्वात् तुरीयंतुपदंवैखरीसंज्ञकंमनुष्याः सर्वेवदन्ति व्याकरणप्रसिद्धानामाख्यातादिपक्षे- मनीषिणोब्राह्मणाः प्रकृतिप्रत्ययादिविभागज्ञावाग्योगविदस्तानिपदानिजानन्ति अवाग्योगविदः पामराः वाचोवाङ्मयस्यतुरीयंचतुर्थंभागंवदन्तिव्यवहरन्ति अर्थप्रकाशनायप्रयुञ्चते अयंमन्त्रोनिरु- क्तेव्याख्यातः सोत्राप्यनुसन्धेयः । अथापिब्राह्मणंभवति—सावैवाक् सृष्टाचतुर्धाव्यभवदेष्वेवलोके- षुत्रीणिपशुषुतुरीयंयापृथिव्यांसाग्नौसारथन्तरेयान्तरिक्षेसावायौसावामदेव्येयादिविसादित्येसाबृह- तीसास्तनयित्नावथपशुषुततोयावागत्यरिच्यततांब्राह्मणेष्वदधुस्तस्माद्राह्मणाउभयींवाचंवदन्तिया- चदेवानांयाचमनुष्याणामिति ॥ ४५ ॥

1.164.46
इन्द्रं᳚ मि॒त्रं वरु᳚णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु᳚प॒र्णो ग॒रुत्मा᳚न् ।
एकं॒ सद्विप्रा᳚ बहु॒धा व᳚दन्त्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । मि॒त्रम् । वरु᳚णम् । अ॒ग्निम् । आ॒हुः॒ । अथो॒ इति᳚ । दि॒व्यः । सः । सु॒॑प॒र्णः । ग॒रुत्मा᳚न् ।
एक᳚म् । सत् । विप्राः᳚ । ब॒हु॒धा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा᳚नम् । आ॒हुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमुमादित्यमैश्वर्यबिशिष्टमिन्द्रमाहुः तथा मित्रंप्रमीतेर्मरणान्त्रातारं अहरभिमानिनमेतन्नामकं- देवंआहुः वरुणंपापस्यनिवारकं रात्र्यभिमानिनंदेवमाहुः तथाग्निंअङ्गनादिगुणविशिष्टमेतन्नामकमा- हुः अथोअपिचायमेवदिव्योदिविभवः सुपर्णः सुपतनोगरुत्मान् गरणवान् पक्षवान् वैतन्नामकोयः पक्ष्यस्ति सोऽप्ययमेव कथमेकस्यनानात्वमिति उच्यते—अमुमेवादित्यमेकमेव वस्तुतःसन्तं विप्रामे- धाविनः देवतातत्त्वविदोबहुधावदन्ति तत्तत्कारणेनेन्द्राद्यात्मानंवदन्ति एकैववामहानात्मादेवता स- सूर्यइत्याचक्षते इत्युक्तत्वात् किञ्च तमेववृष्ट्यादिकारणं वैद्युताग्निंयमं नियन्तारं मातरिश्वानं अन्त- रिक्षेश्वसन्तंवायुमाहुः सूर्यस्यब्रह्मणोनन्यत्वेनसार्वात्म्यमुक्तंभवति अत्रयेकेचिदग्निः सर्वादेवताइत्या- दिश्रुतितः अयमेवाग्निरुत्तरे अपिज्योतिषीइतिमत्वाग्नेरेवसार्वात्म्यप्रतिपादकोयंमन्त्रइतिबदन्ति तत्पक्षेप्रथमोऽग्निशब्दः उद्देश्यः तमग्निमुद्दिश्येन्द्राद्यात्मकत्वं कथयन्ति अयंमन्त्रोनिरुक्तेएवंव्याख्या- तः—इममेवाग्निंमहान्तमात्मानमेकमात्मानंबहुधामेधाविनोवदन्तिइन्द्रंमित्रंवरुणमग्निंदिव्यंचगरुत्म- न्तंदिव्योदिविजोगरुत्मान् गरणवान्गुर्वात्मामहात्मेतिवेति ॥ ४६ ॥ वर्षकामेष्ट्यांतिस्रःपिंड्योहोतव्याः तत्रकृष्णंनियानमितितृतीयस्यानुवाक्या कृष्णंनियानंहरयः सुपर्णानियुत्वन्तोग्रामजितोयथानरइति ।

1.164.47
कृ॒ष्णं नि॒यानं॒ हर᳚यः सुप॒र्णा अ॒पो वसा᳚ना॒ दिव॒मुत्प᳚तन्ति ।
त आव᳚वृत्र॒न्त्सद᳚नादृ॒तस्यादिद्घृ॒तेन᳚ पृथि॒वी व्यु᳚द्यते ॥
▶ पदपाठः (Word-by-word)
कृ॒ष्णम् । नि॒॑यान᳚म् । हर᳚यः । सु॒॑प॒र्णाः । अ॒पः । वसा᳚नाः । दिव᳚म् । उत् । प॒त॒न्ति॒ ।
ते । आ । अ॒व॒वृ॒त्र॒न् । सद᳚नात् । ऋ॒तस्य᳚ । आत् । इत् । घृ॒तेन᳚ । पृ॒थि॒वी । वि । उ॒द्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कृष्णंकृष्णवर्णंनियानं नियमेनगच्छन्तंमेघं हरयः उदकस्यहर्तारः सुपर्णाः शोभनपतनारश्मयः अ- पोवसानाः उदकानिवासयन्तःमेघेषु अद्भिर्मेघान्पूरयन्तइत्यर्थः अन्तर्भावितण्यर्थाद्द्विकर्मकत्वं यद्वा कृष्णंनियानंनियमनंरात्रिः देवानांहिरात्रिर्दक्षिणायनं तत्प्रतितस्मिन्वर्षकालइत्यर्थः एवंकुर्वन्तोदिवं- द्युलोकंतदाश्रितमादित्यंवोद्दिश्योत्पतन्ति ऊर्ध्वंगच्छन्ति तेरश्मयऋतस्यसदनात् उदकस्यस्थानादा- दित्यमण्डलादाववृत्रन् आवर्तन्तेअर्वाञ्चआगच्छन्ति आदित् अनन्तरमेव यदार्वागागच्छन्ति तदानी- मेवघृतेनोदकेन पृथिवीव्युद्यते विविधंक्लिद्यते कृष्णंनिरयणंरात्रिरादित्यस्य हरयः सुपर्णाहरणाआ- दित्यरश्मयइत्यादिनिरुक्तंद्रष्टव्यम् ॥ ४७ ॥

1.164.48
द्वाद᳚श प्र॒धय᳚श्च॒क्रमेकं॒ त्रीणि॒ नभ्या᳚नि॒ क उ॒ तच्चि᳚केत ।
तस्मि᳚न्त्सा॒कं त्रि᳚श॒ता न श॒ङ्कवो᳚॑र्पि॒ताः ष॒ष्टिर्न च᳚लाच॒लासः᳚ ॥
▶ पदपाठः (Word-by-word)
द्वाद᳚श । प्र॒॑धयः᳚ । च॒क्रम् । एक᳚म् । त्रीणि᳚ । नभ्या᳚नि । कः । ऊं॒ इति᳚ । तत् । चि॒के॒त॒ ।
तस्मि᳚न् । सा॒कम् । त्रि॒॑श॒ताः । न । श॒ङ्कवः᳚ । अ॒र्पि॒ताः । ष॒ष्टिः । न । च॒ला॒च॒लासः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वादशएतत्संख्याकाःप्रधयः परिधयः प्रहितावर्तन्ते तत्स्थानीयाः द्वादशमासाएकंअद्वितीयं चक्रं- क्रमणस्वभावं संवत्सराख्यंचक्रंआश्रिताः तथा त्रीणित्रिसंख्याकानि नभ्यानिनाभ्याश्रयाणि फलका- नितत्स्थानीयानि ग्रीष्मवर्षाहेमन्ताख्यानि आश्रितानि यथासूर्यरथचक्रस्य द्वादशपरिधयोनाभ्याश्र- याणि त्रीणिफलकानिसन्ति तद्वत्कालचक्रस्यापि कउ कोपिमहान् तच्चक्रं चिकेतजानाति तस्मिन्चक्रे- साकंसह शंकवोन शंकवइव अत्रपुरस्तादुपाचारोपिनशब्दः सामर्थ्यादुपमार्थीयः तस्मिन्नपिसंवत्सर- चक्रे त्रिशताः एतत्संख्याकाः षष्टिनं नशब्दश्चार्थे षष्टिश्चाराअरस्थानीयान्यहानि अर्पिताः अर्पितानि कीदृशानितानि चलाचलासः एकश्चलशब्दोद्विर्भावप्राप्तः चलाः चलनस्वभावानीत्यर्थः चरिचलिप- तिपदीनामच्याक् चाभ्यासस्येतिद्विर्वचनमागागमश्च ततोऽसुक् षष्टिश्चहवैत्रीणिचशतानिसंवत्सर- स्याहानीतिब्राह्मणम् । द्वादशप्रधयश्च्क्रमेकमिति मासानां मासामानादित्यादिनिरुक्तम् ॥ ४८ ॥ प्रवर्ग्येभिष्टवेयस्तेस्तनइत्येका सूत्रितंच—यस्तेस्तनः शशयोयोमयोभूर्गौरमीमेदनुवत्संमिषन्त- मिति । एषैवसारस्वतेपशौहविषोयाज्या सूत्रितंच—यस्तेस्तनःशशयोयोमयोभूस्त्वंसोमप्रचिकितो- मनीषेतिद्वेइति ।

1.164.49 समानपद
यस्ते॒ स्तनः᳚ शश॒यो यो म᳚यो॒भूर्येन॒ विश्वा॒ पुष्य᳚सि॒ वार्या᳚णि ।
यो र᳚त्न॒धा व᳚सु॒विद्यः सु॒दत्र॒ः सर᳚स्वति॒ तमि॒ह धात᳚वे कः ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । स्तनः᳚ । श॒श॒यः । यः । म॒यः॒॑भूः । येन᳚ । विश्वा᳚ । पुष्य᳚सि । वार्या᳚णि ।
यः । र॒त्न॒॑धाः । व॒सु॒॑वित् । यः । सु॒॑दत्रः᳚ । सर᳚स्वति । तम् । इ॒ह । धात᳚वे । क॒रिति᳚ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसरस्वति तेतवसंबन्धीयः स्तनः स्तनवच्छिशुस्थानीयानां प्राणिनामाप्यायनकारी लौकिकवै- दिकसुशब्दरूपः स्तनः शशयः शयानः तवदेहेवर्तमानः यश्चस्तनः मयोभूः रसास्वादिनां सुखस्यभा- वयिता येनस्तनेन विश्वासर्वाणिवार्याणिवरणीयानिअभिमतरूपाणिधनानिषुष्यसि भॊक्तृभ्यः यश्च- स्तनोरत्नधाः बहुविधरमणीयरत्नानां धारयिता वसुवित् वसूनांवासयितॄणां धनानां वेत्तालब्धावेद- यितावा किञ्च यःस्तनः सुदत्रः शोभनदानः सुदत्रः कल्याणदानइतिनिरुक्तम् । अत्रासकृद्यच्छब्दश्रव- णं स्तनस्यातिप्रशस्तत्वज्ञापनार्थं हेदेवि तंतादृशंसर्वप्राण्युपकारकंसूक्तमयंस्तनं इहास्मिन्कर्मणि इ- दानींवा धातवे अस्माभिर्धातुंपातुं पानाय कः कुरु ॥ ४९ ॥ अग्निमन्थने यज्ञेनयज्ञमित्येषापरिधानीया यज्ञेनयज्ञमयजन्तदेवाइतिपरिदध्यादितिसूत्रितत्वात् ।

1.164.50
य॒ज्ञेन᳚ य॒ज्ञम᳚यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ।
ते ह॒ नाकं᳚ महि॒मानः᳚ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति᳚ दे॒वाः ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञेन᳚ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि᳚ । धर्मा᳚णि । प्र॒थ॒मानि᳚ । आ॒स॒न् ।
ते । ह॒ । नाक᳚म् । म॒हि॒मानः᳚ । स॒च॒न्त॒ । यत्र᳚ । पूर्वे᳚ । सा॒ध्याः । सन्ति᳚ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवाव्यवहर्तारोयजमानायज्ञेननिर्मथ्याग्निनायज्ञंहोमसाधनमाहवनीयं अयजन्त पूजितवन्तः अ- नुष्थानायसंयोजितवन्तइत्यर्थः अग्निंमथित्वाप्रहरति तेनैवाग्नयआतिथ्यंक्रियतइतिहितैत्तिरीयकम् । तानिधर्माणिअग्निसाधनानिकर्माणिप्रथमानि प्रथमइतिमुख्यनाम प्रतमानिप्रकृष्टतमान्यासन् फलप्र- सवसमर्थान्यभवन्नित्यर्थः तेह तेचयजमानाः नाकं नास्मिन्नकमस्तीतिनाकः स्वर्गः तंमहिमानःमाहा- त्म्ययुक्ताः सचन्तसंगताः कीदृशंनाकं कीदृशंनाकं यत्रयस्मिन्नाके पूर्वेपूर्वतनाः साध्याःसाधनाः यज्ञा- दिसाधनवन्तः कर्मदेवाइत्यर्थः तेसन्तिनिवसन्ति तं सचन्त तस्मादिदानीमपिमनुषैरेवंकर्तव्यमित्यर्थः यद्वा देवाइदानींदेवभावमापन्नाः पूर्वंयज्ञेनअग्निनापशुभूतेन यज्ञंयष्टव्यमग्निंअयजन्तपूजितवन्तः अग्ने- रेवमूर्तिभेदेनदेवत्वंचपशुत्वंचद्रष्टव्यं अग्निःपशुरासीत्तमालभन्ततेनायजन्तेतिश्रुतेः । शिष्टंपूर्ववत् । यत्रयस्मिन्स्वर्गेनिमित्तभूतेसतिपूर्वेपूर्वतनाः साध्याःदेवाः साधनाः छन्दोभिमानिनः आदित्याअंगि- रसश्चसाध्यादेवाउच्यन्ते छन्दांसिवैसाध्यादेवास्तेग्रेग्निमयजन्ततेस्वर्गंलोकमायन्नादित्याश्चैवेहासन्नं- गिरसश्चतेग्रेग्निनाग्निमयजन्ततेस्वर्गंलोकमायन्निति ब्राह्मणम् । एतेदेवाः स्वर्गेसन्तिभवन्ति स्वर्गं- प्राप्ताइत्यर्थः यद्वा येयज्ञेन ज्ञानादियज्ञेन यज्ञं विष्णुंअयजन्त पूजयंति तेनाकंविष्णुलोकंमहानुभावाः सचन्तसंगच्छन्ते यत्रपूर्वेसाध्यादयोदेवाः सन्तितत्स्थानं अग्निनाग्निमयजन्तदेवाइत्यादिनिरुक्तमनु- सन्धेयम् ॥ ५० ॥

1.164.51
स॒मा॒नमे॒तदु᳚द॒कमुच्चैत्यव॒ चाह᳚भिः ।
भूमिं᳚ प॒र्जन्या॒ जिन्व᳚न्ति॒ दिवं᳚ जिन्वन्त्य॒ग्नयः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । ए॒तत् । उ॒द॒कम् । उत् । च॒ । एति᳚ । अव᳚ । च॒ । अह᳚॑भिः ।
भूमि᳚म् । प॒र्जन्याः᳚ । जिन्व᳚न्ति । दिव᳚म् । जि॒न्व॒न्ति॒ । अ॒ग्नयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतत्प्रसिद्धमुदकंसमानं एकरूपमित्यर्थः अहभिः कैश्चिदहोभिः ग्रीष्मकालीनैरुच्चैति ऊर्ध्वंगच्छति तथाअहभिः वर्षकालीनैरहोभिः तदुदकंअवचैति अवाङ्मुखंचगच्छति चवायोगेप्रथमेतिप्रथमाविभ- क्तिर्ननिहन्यते रश्मिनाड्यैवभूमिंप्राप्नोति तदेवोच्यते पर्जन्याः प्रीणयितारोमेघाः भूमिंजिन्वन्ति उद- कसंस्त्यायेनसस्याद्युत्पादनद्वाराभूमिष्ठान्प्रीणयन्ति तथाअग्नयआहवनीयाद्याः स्वेहुते दिवमादित्या- दिद्युलोकस्थान्देवाञ्चिन्वन्ति प्रीणयन्ति ॥ ५१ ॥ सरस्वद्देवताकेपशौदिव्यंसुपर्णमितिवपायाज्या दिव्यंसुपर्णंवायसंबृहन्तंसवावृधेनर्योयोषणास्वि- तिसूत्रितत्वात् । अन्वारंभणीयायांसरस्वद्यागेएषैवयाज्या सूत्रितंच—दिव्यंसुपर्णंवायसंबृहन्तमास- वंसवितुर्यथेति ।

1.164.52
दि॒व्यं सु᳚प॒र्णं वा᳚य॒सं बृ॒हन्त᳚म॒पां गर्भं᳚ दर्श॒तमोष᳚धीनाम् ।
अ॒भी॒प॒तो वृ॒ष्टिभि᳚स्त॒र्पय᳚न्तं॒ सर᳚स्वन्त॒मव᳚से जोहवीमि ॥
▶ पदपाठः (Word-by-word)
दि॒व्यम् । सु॒॑प॒र्णम् । वा॒य॒सम् । बृ॒हन्त᳚म् । अ॒पाम् । गर्भ᳚म् । द॒र्श॒तम् । ओष᳚धीनाम् ।
अ॒भी॒प॒तः । वृ॒ष्टि॑भिः᳚ । त॒र्पय᳚न्तम् । सर᳚स्वन्तम् । अव᳚से । जो॒ह॒वी॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिव्यंदिविभवंसुपर्णंशोभनगमनं वायसंगमनशीलंबृहन्तंमहान्तं अपांगर्बंवृष्ट्युदकानांगर्भवदुत्पा- दकं ओषधीनां ओषधीर्दार्शतं दर्शनायदर्शयन्तमित्यर्थः यद्वा ओषधीनांगर्भंदर्शतमितिपृथग्विशेशणं किञ्च अभीपतः आनुकूल्येनवृष्टिभिस्तप्रयन्तं जगत्प्रीणयन्तं यद्वा अभीपतः अभिगमनवतः सलिला- धारान् तडागादीन् तर्पयन्तं अथवाअभिगन्ताहं सरस्वन्तंउदकवन्तं सरइत्युदकनाम कं देवंसूर्यंवा- अवसेरक्षणायजोहवीमि पुनःपुनराह्वयामि ॥ ५२ ॥

त्रयोविंशानुवाकेपञ्चदशसूक्तानि तत्रकयाशुभेतिपञ्चदशर्चंप्रथमंसूक्तंत्रैष्टुभं अत्रानुक्रमणिका—क- यापञ्चोनासंवादस्तृतीयाद्ययुजोमरुतांवाक्यं अन्त्यस्तृचोगस्त्यस्यच शिष्टा इन्द्रस्यैकादशीच मरुत्वां- स्त्विन्द्रोदेवतेति । अत्रैन्द्रागस्त्यमरुतांसंवादःप्रतिपाद्यते तत्रतृतीयापञ्चमीसप्तमीनवमीनांमरुद्वाक्य- रूपत्वात्तएवर्षयः यस्यवाक्यंसऋषिरितिन्यायात् अन्त्यतृचस्यागस्त्यवाक्यत्वात्सएवर्षिः शिष्टायुजः आद्याचैकादशीचेन्द्रस्यवाक्यं अतःसएवर्षिः अत्र यातेनोच्यतेसादेवतेतिसामान्यापवादेन कृत्स्नस्यम- रुत्वद्गुणकइन्द्रोदेवता संसवचातुर्विंशकयोर्मरुत्वतीयशस्त्रेनिविद्धानीयात् पूर्वंएतत्सूक्तं यदिपर्याया- न्मरुत्वतीयइतिखण्डयोःसूत्रितम्—कयाशुभेतिचमरुत्वतीयेपुरस्तात्सूक्तस्यशंसेदिति । आभिप्लवि- केपञ्चमेहनिमरुत्वतीयेएतदेवसूक्तं पञ्चमस्यकयाशुभायस्तिग्मश्रृंगेइतिमाध्यंदिनेइतिसूत्रितत्वात् । महाव्रते मरुत्वतीयशस्त्रे एतत्सूक्तं पञ्चमारण्यकेकयाशुभासवयसः सनीळामरुत्वाँइन्द्रवृषभोरणाये- त्युक्तत्वात् । विषुवति मरुत्वतीये एतदेवनिविद्धानीयं त्यंसुमेषंकयाशुभेतिचमरुत्वतीयमितिसूत्रि- तत्वात् । अस्य विनियोगंशौनकआह—ज्ञातिपुत्रसुहृन्मित्रैर्यश्चराज्यंचिकीर्षति । नित्यंसनियतोभू- त्वासूक्तंतुमनसाजपेत् । कयाशुभेतिपैशुन्यंकृत्वाचार्यन्रुपद्विजैः । श्रुत्वापररहस्यंतुगुरोरप्याहशौनक- इति ।