श्रवणम्

1.164.31 समानपद
अप᳚श्यं गो॒पामनि᳚पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् ।
स स॒ध्रीची॒ः स विषू᳚ची॒र्वसा᳚न॒ आ व᳚रीवर्ति॒ भुव᳚नेष्व॒न्तः ॥
▶ पदपाठः (Word-by-word)
अप᳚श्यम् । गो॒पाम् । अनि᳚॑पद्यमानम् । आ । च॒ । परा᳚ । च॒ । प॒थि॑भिः᳚ । चर᳚न्तम् ।
सः । स॒ध्रीचीः᳚ । सः । विषू᳚चीः । वसा᳚नः । आ । व॒री॒व॒र्ति॒ । भुव᳚नेषु । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहंगोपां सर्वस्यलोकस्य वृष्टिप्रकाशादिनागोपायितारं अनिपद्यमानं कदाचिकप्यविषण्णं तथा- पथिभिः विचित्रैः मार्गैरन्तरिक्षरूपैराचरन्तंच पराचरन्तंच उदयप्रभृत्यामध्याह्नमागच्छन्तं मध्या- ह्नप्रभृत्यासायंपराङ्मुखंगच्छन्तं एवंमहानुभावमादित्यं अपश्यं याथात्म्येनपश्येयं किञ्च सआदित्यः सध्रीचीः सहाञ्चतीः विषूचीः विष्वगञ्चतीः रात्रावपि चन्द्रभौमादित्यानां प्रकाशयित्रीः त्विषोवसा- नः आच्छादयन् भुवनेषु भुवनैकदेशेषु लंकादिप्रदेशेषु अन्तर्मध्ये आवरीवर्ति उदयास्तमयंकुर्वन् पुनः पुनरावर्तते तमपश्यमित्यर्थः एषवैगोपाएषहीदंसर्वंगोपायतीत्याद्यस्मद्ब्राह्मणम् । अपश्यंगोपामि- त्याह असौवाआदित्योगोपाः सहीमाःप्रजागोपायतीत्यादितैत्तिरीयकंवाद्रष्टव्यम् ॥ ३१ ॥