श्रवणम्

1.164.51
स॒मा॒नमे॒तदु᳚द॒कमुच्चैत्यव॒ चाह᳚भिः ।
भूमिं᳚ प॒र्जन्या॒ जिन्व᳚न्ति॒ दिवं᳚ जिन्वन्त्य॒ग्नयः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । ए॒तत् । उ॒द॒कम् । उत् । च॒ । एति᳚ । अव᳚ । च॒ । अह᳚॑भिः ।
भूमि᳚म् । प॒र्जन्याः᳚ । जिन्व᳚न्ति । दिव᳚म् । जि॒न्व॒न्ति॒ । अ॒ग्नयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतत्प्रसिद्धमुदकंसमानं एकरूपमित्यर्थः अहभिः कैश्चिदहोभिः ग्रीष्मकालीनैरुच्चैति ऊर्ध्वंगच्छति तथाअहभिः वर्षकालीनैरहोभिः तदुदकंअवचैति अवाङ्मुखंचगच्छति चवायोगेप्रथमेतिप्रथमाविभ- क्तिर्ननिहन्यते रश्मिनाड्यैवभूमिंप्राप्नोति तदेवोच्यते पर्जन्याः प्रीणयितारोमेघाः भूमिंजिन्वन्ति उद- कसंस्त्यायेनसस्याद्युत्पादनद्वाराभूमिष्ठान्प्रीणयन्ति तथाअग्नयआहवनीयाद्याः स्वेहुते दिवमादित्या- दिद्युलोकस्थान्देवाञ्चिन्वन्ति प्रीणयन्ति ॥ ५१ ॥ सरस्वद्देवताकेपशौदिव्यंसुपर्णमितिवपायाज्या दिव्यंसुपर्णंवायसंबृहन्तंसवावृधेनर्योयोषणास्वि- तिसूत्रितत्वात् । अन्वारंभणीयायांसरस्वद्यागेएषैवयाज्या सूत्रितंच—दिव्यंसुपर्णंवायसंबृहन्तमास- वंसवितुर्यथेति ।