तस्मि᳚न्त्सा॒कं त्रि᳚श॒ता न श॒ङ्कवो᳚॑र्पि॒ताः ष॒ष्टिर्न च᳚लाच॒लासः᳚ ॥
पदपाठः (Word-by-word)
तस्मि᳚न् । सा॒कम् । त्रि॒॑श॒ताः । न । श॒ङ्कवः᳚ । अ॒र्पि॒ताः । ष॒ष्टिः । न । च॒ला॒च॒लासः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
द्वादशएतत्संख्याकाःप्रधयः परिधयः प्रहितावर्तन्ते तत्स्थानीयाः द्वादशमासाएकंअद्वितीयं चक्रं- क्रमणस्वभावं संवत्सराख्यंचक्रंआश्रिताः तथा त्रीणित्रिसंख्याकानि नभ्यानिनाभ्याश्रयाणि फलका- नितत्स्थानीयानि ग्रीष्मवर्षाहेमन्ताख्यानि आश्रितानि यथासूर्यरथचक्रस्य द्वादशपरिधयोनाभ्याश्र- याणि त्रीणिफलकानिसन्ति तद्वत्कालचक्रस्यापि कउ कोपिमहान् तच्चक्रं चिकेतजानाति तस्मिन्चक्रे- साकंसह शंकवोन शंकवइव अत्रपुरस्तादुपाचारोपिनशब्दः सामर्थ्यादुपमार्थीयः तस्मिन्नपिसंवत्सर- चक्रे त्रिशताः एतत्संख्याकाः षष्टिनं नशब्दश्चार्थे षष्टिश्चाराअरस्थानीयान्यहानि अर्पिताः अर्पितानि कीदृशानितानि चलाचलासः एकश्चलशब्दोद्विर्भावप्राप्तः चलाः चलनस्वभावानीत्यर्थः चरिचलिप- तिपदीनामच्याक् चाभ्यासस्येतिद्विर्वचनमागागमश्च ततोऽसुक् षष्टिश्चहवैत्रीणिचशतानिसंवत्सर- स्याहानीतिब्राह्मणम् । द्वादशप्रधयश्च्क्रमेकमिति मासानां मासामानादित्यादिनिरुक्तम् ॥ ४८ ॥ प्रवर्ग्येभिष्टवेयस्तेस्तनइत्येका सूत्रितंच—यस्तेस्तनः शशयोयोमयोभूर्गौरमीमेदनुवत्संमिषन्त- मिति । एषैवसारस्वतेपशौहविषोयाज्या सूत्रितंच—यस्तेस्तनःशशयोयोमयोभूस्त्वंसोमप्रचिकितो- मनीषेतिद्वेइति ।