पृ॒च्छामि᳚ त्वा॒ पर॒मन्तं᳚ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव᳚नस्य॒ नाभि᳚ः ।
पृ॒च्छामि᳚ त्वा॒ वृष्णो॒ अश्व᳚स्य॒ रेतः᳚ पृ॒च्छामि᳚ वा॒चः प᳚र॒मं व्यो᳚म ॥
पृ॒च्छामि᳚ त्वा॒ वृष्णो॒ अश्व᳚स्य॒ रेतः᳚ पृ॒च्छामि᳚ वा॒चः प᳚र॒मं व्यो᳚म ॥
पदपाठः (Word-by-word)
पृ॒च्छामि᳚ । त्वा॒ । पर᳚म् । अन्त᳚म् । पृ॒थि॒व्याः । पृ॒च्छामि᳚ । यत्र᳚ । भुव᳚नस्य । नाभिः᳚ ।
पृ॒च्छामि᳚ । त्वा॒ । वृष्णः᳚ । अश्व᳚स्य । रेतः᳚ । पृ॒च्छामि᳚ । वा॒चः । प॒र॒मम् । वि॑ओ᳚म ॥
पृ॒च्छामि᳚ । त्वा॒ । वृष्णः᳚ । अश्व᳚स्य । रेतः᳚ । पृ॒च्छामि᳚ । वा॒चः । प॒र॒मम् । वि॑ओ᳚म ॥
सायणभाष्यम् (Sayana Commentary)
हेयजमान त्वात्वांपृच्छामि प्रश्नंकरोमि किं पृथिव्याः परमन्तंउत्कृष्टांकाष्ठांयत्रसर्वाप्रुथिवी समा- प्यतेतत् पृच्छामि तथात्वांअन्यत्पृच्छामि किंतदितिउच्यते—यत्रभुवनस्यभूतजातस्य नाभिः संना- होबन्धनंयत्रसर्वंसन्नद्धंभवति तमित्यर्थः किञ्च त्वात्वांवृष्णोवर्षकस्याश्वस्यव्याप्तस्यआदित्यस्य असौ- वाआदित्योवृषाश्वइतितैत्तिरीयकम् । तस्यरेतः रेतोवत्कारणं तत्किमितिपृच्छामि तथा वाचः सर्व- स्यवाग्जातस्य परमंनिरतिशयंव्योमस्थानंसर्वस्यवचसःकारणं एतत्प्रश्नचतुष्टयंपृच्छामि ॥ ३४ ॥ अथैवंपृष्टोयजमानइयंवेदिरित्यनयाप्रतिब्रूयात् इयंवेदिःपरोअन्तःपृथिव्याइतिप्रत्याहेति- सूत्रितत्वात् ।